________________
498
चतुर्दशशतानि स्युश्चतुष्षष्टियुतान्यथ । सत्र्यशीतिशतेनैषां विभागेऽष्टकमाप्यते ।। ९८२ ॥ प्राप्यं त्रैराशिकादप्येकषष्टिजलवाष्टकम् । वृद्धिहान्योरङ्गुलस्य, तदपि श्रूयतामिह ॥ ९८३ ॥ सत्र्यशीतिशतेनाह्नां, चतुर्विंशतिराप्यते । यद्यङ्गुलानामेकेन, किमहा लभ्यते तदा ? ॥ ९८४ ॥ त्रैराशिकस्थापना - १८३-२४-१.
एकेनान्त्येन गुणितश्चतुर्विंशतिलक्षणः । मध्यराशिस्तथैवास्थादेकेन गुणितं हि तत् ॥ ९८५ ॥ सत्र्यशीतिशतेनैष, न भक्तुं शक्यते ततः । छेद्यछेदकयो राश्योस्त्रिभिः कार्याऽपवर्त्तना ॥ ९८६ ॥ राशिच्छेद्योऽष्टात्मकोऽभूदेकषष्टयात्मकः परः । एवं त्रैराशिकाल्लब्धमेकषष्टिलवाष्टकम् ॥ ९८७ ॥ सार्द्धत्रिंशदहोरात्रात्मके मासे विवस्वतः । चतुश्चत्वारिंशमेव स्यादंशानां शतद्वयम् ॥ ९८८ ॥ यतस्त्रिंशद्गुणा अष्टौ, चत्वारिंशं शतद्वयम् । अहोरात्रार्द्धस्य चांशचतुष्कमत्र मील्यते ॥ ९८९ ॥ चतुश्चत्वारिंशमेतद्यत्किलांशशतद्वयम् । एकषष्ट्याऽस्य भागे स्यादङ्गुलानां चतुष्टयम् ॥ ९९० ॥
तथा चाहु:-‘वड्ढए हायए वावि मासेणं चउरङ्गुलं ।' 'मासेणं ति' सूर्यमासेनेत्यर्थः । त्रिभिर्मासैरङ्गुलानि, वर्द्धन्ते द्वादश क्रमात् । षड्भिर्मासैश्च वर्द्धन्ते, चतुर्विंशतिडुलाः ॥ ९९९ ॥ चतुर्विंशत्यङ्गुलस्य, शङ्खोश्छाया भवेदिति । दिने सौम्यायनस्याद्येऽष्टचत्वारिंशदङ्गुलाः ॥ ९९२ ॥ चतुर्विंशत्यङ्गुलस्य, शङ्कोश्छाया यथोदिता । चतुर्विंशत्यङ्गुलस्य, जानोरपि तथा भवेत् ॥ ९९३ ॥
अत एव च
९९४ ॥
९९५ ॥
दिने याम्यायनस्याद्ये, द्विपदा पौरुषी भवेत् । जानुच्छायाप्रमाणा सा, मीयमाना स्वजानुना ॥ पादद्वितयमानश्च, जानुः स्यात्पादमूलतः । द्वादशाङ्गुलमानोऽत्र, पादो न तु षडङ्गुलः ॥ वितस्तिमाना स्याच्छाया, मीयमाना वितस्तिना । याम्यायनादौ पौरुष्यां, पादोऽत्र स्यात् षडङ्गुलः ॥ ९९६ ॥ ततश्च जानुच्छायायामङ्गुलं वर्द्धते यदा । तदा वितस्तिच्छायायामङ्गलार्द्धं विवर्द्धते ॥ ९९७ ।। लघीयसो वस्तुनोऽपि, स्वस्वमानानुसारतः । एवं छायावृद्धिहानी, भावनीये स्वयं बुधैः ॥ ९९८ ॥ अयने दक्षिणे वृद्धौ, ध्रुवकः स्यात्पदद्वयम् । हानौ च ध्रुवकः सौम्यायने पदचतुष्टयम् ॥ ९९९ ॥ नभः कृष्णप्रतिपदि, द्विपादा पौरुषी भवेत् । युगस्य प्रथमेऽर्काब्दे, वर्द्धते च ततः क्रमात् ॥ १००० ॥ एवं च-माघस्य कृष्णसप्तम्यां पौरुषी स्याच्चतुष्पदा । प्रागुक्तरीत्या क्रमतस्तत आरभ्य च क्षयः द्वितीयेऽब्दे नभः कृष्णत्रयोदश्याः प्रभृत्यथ । वृद्धिर्माघश्वेततुर्यां चादिं कृत्वा भवेत्क्षयः ॥ तृतीयेऽब्दे नभः शुक्लदशम्यां वृद्ध्युपक्रमः । माघकृष्णप्रतिपदि, क्षयस्यादिः प्रकीर्तितः ॥ १००३ ॥ वृद्ध्यारम्भश्चतुर्थेऽब्दे, सप्तम्यां नभसः शितौ । माघकृष्णत्रयोदश्या, आरभ्य च ततः क्षयः
॥
१००१ ॥
१००२ ॥
॥
नभः शुक्लचतुर्थ्यां च, वृद्ध्यादिः पञ्चमेऽब्दके । माघशुभ्रदशम्याश्च, प्रारभ्य भवति क्षयः
॥
१००४ ॥
१००५ ॥