________________
497
चतुःपञ्चाशदधिकमहोरात्रशतद्वयम् । षण्मुहूर्तादिकं प्रौष्ठपदान्तानां विशोधनम् ॥ ९५७ ॥ एकविंशतिसंयुक्तमहोरात्रशतत्रयम् । षण्मुहूर्तयुतं रोहिण्यन्तानां शोधनं मतम् ॥ ९५८ ॥ एकषष्ट्यासमधिकमहोरात्रशतत्रयम् । स्याद् द्वादशमुहूर्ताढ्यं, पुनर्वस्वन्तशोधनम् ॥ ९५९ ॥ विना पुष्यं शोधनकान्यमूनि निखिलान्यपि । अध्यर्द्धक्षेत्रनक्षत्रावधिकानि भवन्ति वै ॥ ९६० ॥ यथार्ह च शोधनके, शोधिते शिष्यतेऽत्र यत् । एकादीनि ततो भानि, शोध्यानि स्वस्वमानतः ॥ ९६१ ॥ स्वस्वमानं चार्द्धक्षेत्रादीनां नक्षत्राणां प्रागुक्तमेव । एवं क्रमाच्छोध्यमानं, यन्नक्षत्रं न शुध्यति । तद्धर्तमानं नक्षत्रं, ज्ञेयं तस्यां तिथौ खेः ॥ ९६२ ॥ उदाहरणं चात्र-युगस्य प्रथमे वर्षे, दशपर्वव्यतिक्रमे । पञ्चम्यां सूर्यनक्षत्रं, किमित्यत्र निरूप्यते ॥ ९६३ ॥ अतीतपर्वणां संख्या, याऽस्त्यत्र दशलक्षणा । सा पञ्चदशनिजा स्यात्पञ्चाशदधिकं शतम् ॥ ९६४ ॥ चतुःपञ्चाशं शतं स्यात्तद्गतैस्तिथिभिर्युतम् । शतं च स्याद् द्विपञ्चाशमवमद्वितयोज्झितम् ॥ ९६५ ॥ सषट्षष्ट्या त्रिशत्या, तद्भागं न सहते कृशम् । तत आदित एवात्र, शोधनोपक्रमोऽर्हति ॥ ९६६ ॥ संभवेच्छोधनं चात्र, षोडशाभ्यधिकं शतम् । विशाखान्तानि शुद्धानि, भानि ज्ञेयानि तेन च ॥ ९६७ ॥ शेषं तिष्ठति षट्त्रिंशत्, ततः शुद्ध्यति राधिका । या द्वादशमुहूर्ताढ्यत्रयोदशदिनात्मिका ॥ ९६८ ॥ द्वाविंशतिर्दिनाः शेषाः, साऽष्टादशमुहूर्त्तकाः । षड्दिन्याऽथैकविंशत्या, मुहूतैः शुद्धमिन्द्रभम् ॥ ९६९ ॥ शेषा दिना: पञ्चदश, मुहूर्ता सप्तविंशतिः । तेभ्यः शुद्धं मूलभं तन्मानतो राधिकोपमम् ॥ ९७०॥ शेषौ दौ पञ्चदशभिर्मुहूत्तैरधिको दिनौ । एतौ च पूर्वाषाढायास्तदा भुक्तौ विवस्वता ॥ ९७१ ॥ युगेऽौडुनिर्णयोऽयं, दशपर्वव्यतिक्रमे । ज्ञेयस्तिथौ च पञ्चम्यामेवं सर्वत्र भावना ॥९७२ ॥ युगेऽथ पौरुषीमानं, ज्ञातुं करणमुच्यते । वर्द्धमानं हीयमानं, याम्ये सौम्येऽयने क्रमात् ॥ ९७३॥ शङ्कः पुरुषशब्देन, स्याद्देहः पुरुषस्य वा । निष्पन्ना पुरुषात्तस्मात्पौरुषीत्यपि सिद्ध्यति ॥ ९७४ ॥
तथोक्तं नन्दीचूर्णी-'पुरिसोत्ति संकू पुरिससरीरं वा, तत्र पुरिसाओ निष्फन्ना पोरिसी इति' अयं भाव:स्वप्रमाणा भवेच्छाया, यदा सर्वस्य वस्तुनः । तदा स्यात्पौरुषी याम्यायनस्य प्रथमे दिने ॥ ९७५ ॥ ततश्च तस्य पौरुष्यां, तथा छाया विवर्द्धते । यथा सौम्यायनस्यादौ, स्वमानाद् द्विगुणा भवेत् ॥ ९७६ ॥ तत: पुनस्तथा छाया, हीयते सर्ववस्तुनः । यथा याम्यायनादौ सा, स्वस्ववस्तुमिता भवेत् ॥ ९७७ ॥ सत्र्यशीतिशततमः, स्वस्वमानस्य योऽशकः । प्रत्यहं तावती वृद्धिर्याम्ये सौम्येऽयने क्षयः ॥ ९७८ ॥ तथाहि-चतुर्विंशत्यङ्गलस्य, शंङ्कोर्भवति तावती । छाया याम्यायनस्यादौ वर्द्धते प्रत्यहं ततः ॥ ९७९ ॥ एकषष्टिविभक्तस्याङ्गुलस्याष्टौ लवा अयम् । भागः शङ्कोर्यथोक्तस्य, सत्र्यशीतिशतोद्भवः ॥ ९८० ॥ तथाहि-एकैकमङ्गलं कर्तुमेकषष्टिलवात्मकम् । संख्या शोरङ्गलानामेकषष्ट्या निहन्यते ॥ ९८१ ॥