SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ 496 ९३६ ॥ ९३७ ॥ ॥ ९३९ ॥ ॥ ९४० ॥ कल्पितैतावदंशत्वात्तया चैकं भवेदुडु । तस्मिंश्च भेऽधस्त्यराशौ क्षिप्ते स्यात्सप्तविंशतिः ॥ ९३२ ॥ स्यात्सप्तविंशतेर्भानां, शुद्धिरङ्कादतस्ततः । श्रुत्यादीन्युत्तराषाढान्तानि शुद्धानि भान्यतः ॥ ९३३ ॥ पूर्वोक्तनिर्णयोऽयं तद्यद्युगस्यादिमे दिने । सूर्योदये शशी योगं प्राप्नोत्यभिजिता सह ॥ ९३४ ॥ युगस्याहि द्वितीयस्मिन्, द्वितीयायां तिथावथ । चन्द्रेण युक्तं नक्षत्रं, किं स्यादित्यत्र कथ्यते ॥ ९३५ ॥ प्रतिपल्लक्षणैकैवातिक्रान्ता तिथिस्त्र या । द्व्यशीत्या भजनं सा न, क्षमते यत्तनीयसी ॥ तदेतस्याः सप्तषष्टिः, कर्त्तव्याः शकलास्ततः । ऋक्षस्याभिजितः प्राज्ञैः, शोधनीयैकविंशतिः ॥ शेषा तिष्ठति षट्चत्वारिंशत्सा त्रिंशता हता । कर्त्तुं मुहूर्त्तान् साशीतिस्त्रयोदशशती भवेत् सप्तषष्ट्या विभागेऽस्या, लब्धा मुहूर्त्तविंशतिः । चत्वारिंशन्मुहूर्तांशाः, शिष्यन्ते सप्तषष्टिजाः ॥ ततश्च–सचत्वारिंशदंशायां, श्रुतेर्मुहूर्त्तविंशतौ । भुक्तायामिन्दुनोदेति, द्वितीयेऽह्नि युगे रविः एवं सर्वत्राप्यन्यत्र करणभावना कार्या. इति चन्द्रनक्षत्रप्रकरणम् ॥ अष्टादशमुहूर्त्ताढ्यमहोरात्रचतुष्टयम् । भुक्त्वा पुष्यस्य पञ्चापि, स्वाब्दान्यारभते रविः ॥ ९४१ ॥ चतुर्विंशत्या मुहूर्तैरधिका भुक्तशेषकाः । भवन्त्यष्टाहोरात्रास्तदा पुष्यस्य भास्वतः ॥ ९४२ ॥ ततश्च–स्युर्द्वादशमुहूर्त्ताढ्या, अहोरात्रास्त्रयोदश । तथा स्युः षडहोरात्रा, मुहूर्ताश्चैकविंशतिः ॥ ९४३ ॥ अहोरात्रा विंशतिश्च, मुहूर्त्तत्रितयाधिकाः । समार्द्धसार्द्धक्षेत्राणां, भानां भोगः क्रमाद्रवेः ॥ ९४४ ॥ एवं भैः सप्तविंशत्यैकषष्टियुक्शतत्रये । अह्नामतीतेऽर्काब्दं स्यादेकषष्टितमे दिने ।। ९४५ ।। द्वादशानां मुहूर्तानां, पूर्ती पूर्णौ पुनर्वसू । पुष्यस्याष्टादश ततो, मुहूर्त्तास्तद्दिने गताः ॥ ९४६ ॥ ततः परं च पुष्यस्यातीते दिनचतुष्टये । पूर्णार्काब्दस्य षट्षष्टियुक्ता दिनशतत्रयी ॥ ९४७ ॥ सुखावबोधाय चात्र यन्त्रकम्— यथार्कोडुव्यवस्थैवमेकस्याब्दस्य दर्शिता । पञ्चानामपि वर्षाणां तथा ज्ञेया युगे बुधैः ॥ ९४८ ॥ ज्ञातुं सूर्यस्य नक्षत्रं, विवक्षिततिथावथ । करणं प्रोच्यते पूर्वाचार्यदर्शितया दिशा ॥ ९४९ ॥ युगेऽतीतपर्वसंख्या, प्राग्वत्पञ्चदशाहता । विवक्षितदिनात्पूर्वमतीतैस्तिथिभिर्युता ।। ९५० ।। गतैखमरात्रैश्च, वर्जिताऽथ त्रिभिः शतैः । विभज्यते सा षट्षष्ट्याधिकैर्लब्धं च वत्सरः ॥ ९५९ ॥ शेषं भवति यत्तस्माद्यथार्हं वक्ष्यमाणकम् । संशोध्यते शोधनकं, गतनक्षत्रसूचकम् ॥ ९५२ ।। सषट्षष्ट्या त्रिशत्याऽल्पा, भागं चेन्न क्षमेत सा । तदा शोध्यं शोधनकमादावेवात्र संभवेत् ।। ९५३ ।। चतुर्विंशत्या मुहूर्तैरधिकं दिवसाष्टकम् । पुष्यस्य स्याच्छोधनकमथान्येषां तदुच्यते ॥ ९५४ ॥ रात्रिन्दिवानि द्वाषष्टिर्मुहूर्त्ता द्वादशोपरि । उडूनामुत्तराफल्गुन्यन्तानां शोधनं भवेत् ॥ ९५५ ॥ भानां विशाखान्तानां च षोडशाभ्यधिकं शतम् । भानां तथोत्तराषाढान्तानां त्र्यशीतियुक् शतम् ॥ ९५६ ॥ ९३८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy