________________
493
तथाहु: - “मासेऽष्टशश्चराणि स्युरुज्ज्वलप्रतिपदन्त्यार्द्धात्.”
रात्रौ कृष्णचतुर्दश्याः, शकुनिः करणं भवेत् । चतुष्पदं च नागं चामावास्यामर्द्धयोर्द्धयोः || ८६७ ॥ किंस्तुघ्नं स्यात्प्रतिपदः, शुक्लायाः प्रथमेऽर्द्धके । एतानि स्युस्तिथिष्वेतेष्वेव प्राहुः स्थिराण्यतः ॥ ८६८ ॥ अत्र सर्वत्र दिनरात्रिशब्देनापि तिथीनां पूर्वार्द्धापरार्द्ध एव लक्षणीये करणानां तिथ्यर्द्धप्रमितत्वादिति । एतेषां स्वामिनः प्रयोजनं चैवं लौकिकशास्त्रेषु - इन्द्रो १ विधि २ मित्रा ३ र्यम ४ भू ५ श्री ६ शमना ७ श्चलेषु करणेषु । कलि १ वृष २ फणि ३ मरुतः ४ पुनरीशाः क्रमशः स्थिरेषु स्युः ॥ अत्र शमनो यमः स भद्रायाः स्वामी. दशामूनि विविष्टीनि, दिष्टान्यखिलकर्मसु । रात्र्यहर्व्यत्ययाद्भद्राप्यदुष्टैवेति तद्विदः । विविष्टीनीति कोऽर्थः ? एकादशसु करणेषु भद्रा दुष्टेति शेषकरणप्रयोजनं त्वेवं - शकुनिचतुष्पदनागे किंस्तुघ्ने कौलवे च वणिजे च । उदूर्ध्वं संक्रमणं गरतैतिलविष्टिषु पुनः सुप्तम् ॥ बवबालवे निविष्टं, सुभिक्षं चोर्ध्वसंक्रमे । उपविष्टो रोगकरः, सुप्तो दुर्भिक्षकारकः ॥
तथा शीतोष्णवर्षर्त्तुषु सूर्यसंक्रमाः क्रमेण सुप्तोर्ध्वनिवेशिनः शुभाः तथा “पूर्वोत्तरकरणद्वयसंधिगा संक्रान्तिस्तु सुप्तोत्थितेत्याख्या सर्वदाऽप्यशुभेति पूर्णभद्र” इत्याद्यारम्भसिद्धिवार्त्तिके. इति करणप्रकरणम् ।
मुहूर्त्ताः परिवर्त्तन्ते, ये त्रिंशत्प्रतिवासरम् । तेषां नामक्रमं वक्ष्ये, सर्वज्ञागमदर्शितम् ॥ ८६९ ॥ आद्यो रुद्रो दिनस्यादौ, श्रेयानिति द्वितीयकः । मित्रवायुसुपीताख्यास्तृतीयतुर्यपञ्चमाः ॥ ८७० ॥ षष्ठोऽभिचन्द्रो माहेन्द्रः, सप्तमः स्यादथाष्टमः । बलवान्नवमः पक्ष्मौ, दशमो बहुसत्यक: ।। ८७१ ॥ एकादशः स्यादैशानो, द्वादशस्तस्थसंज्ञकः । भावितात्मवैश्रवणौ, त्रयोदशचतुर्दशौ ॥। ८७२ ॥ वारुणः स्यात्पञ्चदश, आनन्दः षोडशः स्मृतः । विजयः स्यात्सप्तदशोऽष्टादशो विश्वसेनकः ॥ ८७३ ॥ एकोनविंशतितमः, प्राजापत्यायो भवेत् । मुहूर्तो विंशतितमो भवत्युपशमाभिधः ॥ ८७४ ॥ स्यादेकविंशतितमो, गन्धर्वोऽथाग्निवैश्यकः । द्वाविंशः स्यात्त्रयोविंशः, शतादिवृषभाभिधः ॥ ८७५ ।। चतुर्विंशस्त्वातपवान्, पञ्चविंशोऽममो भवेत् । षड्विंशोऽरुणवान् सप्तविंशो भौमाभिधः स्मृतः ॥ ८७६ ॥ अष्टाविंशस्तु ऋषभः, सर्वार्थ: स्यात्ततः परः । त्रिंशत्तमो राक्षसाख्यो, मुहूर्तो यो निशोऽन्तिमः ॥ ८७७ ॥ इति मुहूर्त्तप्रकरणम् ।
नक्षत्राणां परावर्त्तं, चन्द्रसंबन्धिनामथ । ब्रूमहे प्रत्यहोरात्रं, सूर्यसंबन्धिनामपि ॥ ८७८ ॥ भवत्यभिजिदारम्भो, युगस्य प्रथमक्षणे । अस्य पूर्वोक्तशीतांशुभोगकालादनन्तरम् ॥ ८७९ ॥ श्रवणं स्यात्तस्य चेन्दुभोगकालव्यतिक्रमे । धनिष्ठेत्येवमादीनि ज्ञेयानि निखिलान्यपि ॥ ८८० ॥ अथेन्दुना भुज्यमानमहोरात्रे विवक्षिते । इष्टे तिथौ च नक्षत्रं ज्ञातुं करणमुच्यते ॥ ८८१ ॥
,