________________
494
यस्मिन् दिने चन्द्रयुक्तं, नक्षत्रं ज्ञातुमिष्यते । तस्मादिनात्प्रागतीतपर्वसंख्या युगादितः ॥ ८८२ ॥ गुण्यते पञ्चदशभिस्ततः प्रागीप्सितात्तिथेः । तिथीनतीतान् सत्पर्वसत्कांस्तत्र नियोजयेत् ॥ ८८३ ॥ अतीतावमरात्रोना, यशीत्या हियतेऽथ सा । लब्धमंशाश्च ये शेषास्तानूर्वाधो न्यसेत्क्रमात् ॥ ८८४ ॥ लब्धमूर्ध्वं स्थापितं यत्तद्राशिरिति कथ्यते । अंशा अधःस्थिताः शेषराशिरित्यभिधीयते ॥ ८८५ ॥ राशिं चतुर्गुणीकृत्य, शोधयेदेकविंशतिम् । शेषराशेरध:स्थाच्च, शोधयेत्सप्तविंशतिम् ॥ ८८६ ॥ आसंभवं लब्धराशेः, शेषराशेश्च शोधयेत् । तामेकविंशतिं सप्तविंशतिं च क्रमान्मुहुः ॥ ८८७ ॥ अथोपरितनो राशिरेकविंशतिशोधनम् । यद्यल्पत्वान्न क्षमेत, तदा राशेरधस्तनात् ॥ ८८८ ॥ एकं रूपं समादाय, सप्तषष्ट्या निहत्य च । राशौ क्षिप्त्वोद गे कुर्यादेकविंशतिशोधनम् ॥ ८८९ ॥ याऽत्रैकविंशती राशेः, शोध्यतेऽभिजितो हि सा । भावनैवं शेषराशेः, सप्तविंशतिशोधने ॥ ८९० ॥ आरभ्य श्रवणादत्रोत्तराषाढावसानकम् । सप्तविंशतिसंख्याकमवधार्य भमण्डलम् ॥ ८९१ ॥ शेषराशेस्तत: सप्तविंशतिर्यदि शुध्यति । शुद्धं तदाऽखिलमपि ज्ञेयमस्माद्भमण्डलम् ॥ ८९२ ॥ नाल्पत्वाच्चेदितः सप्तविंशतिः शोद्भुमर्हति । तदा द्वाविंशतिः शोध्या, शुद्ध्येन्नैषापि चेत्तदा ॥ ८९३ ॥ शोध्या अष्टादशामीषां, शोधनासंभवे सति । त्रयोदशदशैषां चासंभवे पञ्च शोधयेत् ॥ ८९४ ॥ द्वाविंशतौ विशुद्धायामत्र शुद्धानि भावयेत् । सर्वाणि श्रवणादीनि, विशाखांतानि भान्यथ ॥ ८९५ ॥ अष्टादशसु शुद्धेषु, शुद्धानीह विचिन्तयेत् । श्रुत्यादीन्युत्तराफाल्गुन्यन्तान्यष्टादशाप्यथ ॥ ८९६ ॥ त्रयोदशसु शुद्धेषु, शुद्धानि परिभावयेत् । श्रुत्यादीनि पुनर्वस्वन्तानि भानि त्रयोदश ॥ ८९७ ॥ एवं दशसु शुद्धेषु, रोहिण्यन्तानि चिन्तयेत् । उदग्भद्रपदान्तानि, तथा शुद्धेषु पञ्चसु ॥ ८९८ ॥ पर्यन्तसूचकान्यत्र, यानि प्रोक्तानि भानि षट् । सार्द्धक्षेत्राण्येव तानि, ज्ञेयानि निखिलान्यपि ॥ ८९९ ॥ तथाहि-श्रवणात्पञ्चमी सार्द्धक्षेत्रा भाद्रपदोत्तरा । दशमं ब्राहामादित्यं, त्रयोदशं च तादृशम् ॥ ९०० ॥ उत्तराफाल्गुनी चाष्टादशी भवति तादृशी । सार्द्धक्षेत्रं विशाखाख्यं, द्वाविंशतितमं श्रुतेः ॥ ९०१ ॥ स्यात्सप्तविंशा तत्राथोत्तराषाढापि तादृशी । एतानि स्युः पञ्चचत्वारिंशन्मुहूर्त्तकानि यत् ॥ ९०२ ॥ तथाहुः-“पञ्च १ दस २ तेरस ३ ठारसेव ४ बावीस ५ सत्तवीसा य ६ । सोज्झा दिवढ़खित्तंत भद्दवाई असाढंता” ॥
- [ज्योतिष्करंडक श्लोक १५९] एवं चाधस्तने शेषराशौ संशोधिते सति । एकादिचतुरन्तं यच्छेषं तच्चन्द्रभं गतम् ॥ ९०३ ॥
___ अत्र च एकादिचतुरन्तं यच्छेषं तत्रिंशद्गुणनेन मुहूर्तीकृत्य तस्मात्क्रमप्राप्तं यन्नक्षत्रं तद्यदि समक्षेत्रं तदा त्रिंशच्छोध्यते, अर्द्धक्षेत्रं चेत्पञ्चदश शोध्यन्ते, एवं शोधने यच्छेषं तच्चंद्राक्रान्तस्य
नक्षत्रस्यातीतं मुहूर्तादिकं भवतीति ज्ञेयं । यच्चोपरितने राशावेकविंशतिशोधने । शेष तत्रिंशताऽऽहत्य, सप्तषष्ट्या विभज्यते ॥ ९०४ ॥