SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 492 यदस्मादेककादेककलापनयने भवेत् । शून्यं शेषं ततो न स्याद्गुणनाद्या क्रियोत्तरा ॥ ८४२ ॥ यथा पूर्वोक्तपृच्छायामेका याऽभिजित: कला । गुण्यते त्रिनवत्याढ्यैः, सा त्रयोदशभिः शतैः ॥ ८४३ ॥ तावदा भवेत्रिशैनैषाऽष्टादशभिः शतैः । विभक्तुं शक्यते तेन, विधिः शेषो विधीयते ॥ ८४४ ॥ त्रयोदशशती सत्रिनवतिर्दिनिधीयते । एको राशिश्चैकषष्ट्या, हियते तत्र चाप्यते ॥ ८४५ ॥ द्वाविंशतिः क्षिप्यते सा, परराशौ ततो भवेत् । चतुर्दशशती पञ्चदशभिस्सहिताऽथ सा ॥ ८४६ ॥ ह्रियते पञ्चदशभिश्चतुर्नवतिराप्यते । शेषास्तिष्ठन्ति पञ्चांशास्तत: पूर्वोक्तनिर्णयः ॥ ८४७ ॥ चतुर्नवतिसङ्ख्यस्य, पर्वण: पञ्चमीतिथौ । सूर्योदये चन्द्रमसा, भुक्तैकाभिजित: कला ॥ ८४८ ॥ करणानि निरूप्यन्ते, तिथ्यर्द्धप्रमितान्यथ । भवन्ति तानि द्वैधानि, चराणि च स्थिराणि च ॥ ८४९ ॥ बवं च बालवं चैव, कौलवं स्त्रीविलोचनम् । गरादि वणिजं विष्टिः, सप्तैतानि चराणि यत् ॥ ८५० ॥ __अन्यत्र स्त्रीविलोचनस्थाने तैतिलमिति, गरादिस्थाने च गरमिति संज्ञा श्रूयते इति ज्ञेयं । तिथिष्पनियतास्वेतान्यावर्त्तन्ते यथाक्रमम् । शुक्लपक्षे प्रतिपदः, पश्चिमाद्धे बवं भवेत् ॥ ८५१ ॥ द्वितीयायाश्चादिमे , बालवं कौलवं परे । तृतीयायाश्चादिमेऽद्धे, भवति स्त्रीविलोचनम् ॥ ८५२ ॥ अपराद्धे तृतीयाया, गरादिकरणं भवेत् । चतुर्थ्या: प्रथमेऽर्द्ध स्यादणिजं विष्टिरन्तिमे ॥ ८५३ ॥ पुनर्बवं बालवं च, पञ्चम्या अर्द्धयोर्द्धयोः । क्रमादर्द्धद्धये षष्ठ्याः , कौलवस्त्रीविलोचने ॥ ८५४ ॥ अर्द्धद्रये च सप्तम्या, गरादिवणिजे स्मृते । अष्टम्याः प्रथमेऽर्द्ध, स्यादिष्टिरन्त्ये पुनर्बवम् ॥ ८५५ ॥ बालवं कौलवं चेति, नवम्या अर्द्धयोद्धयोः । अर्द्धद्रये दशम्याः स्त्रीविलोचनगराभिधे ॥ ८५६ ॥ एकादश्या: प्राक्तनेऽद्धे, वणिजं विष्टिरन्तिमे । पुनर्बवं बालवं च, दादश्या अर्द्धयोर्द्धयोः ॥ ८५७ ॥ अर्द्धद्धये त्रयोदश्या:, कौलवस्त्रीविलोचने । अर्द्धद्रये चतुर्दश्या, गरादिवणिजे क्रमात् ॥ ८५८ ॥ पूर्णिमाया: प्राक्तनेऽढे, विष्टिरन्त्ये पुनर्बवम् । कृष्णपक्षे प्रतिपदः, पूर्वार्द्ध बालवं स्मृतम् ॥ ८५९ ॥ अत एव युगस्यादिर्बालवकरणे पूर्व निरूपितेति ज्ञेयं । अन्तिमेऽर्द्ध प्रतिपदः, कौलवं करणं भवेत् । द्वितीयाहर्निशोश्च स्त्रीविलोचनगरादिके ॥ ८६० ॥ तृतीयायां च वणिजविष्टी स्यातामहर्निशोः । चतुर्थ्याचाहि रात्रौ च, क्रमेण बवबालवे ॥ ८६१ ॥ दिने रात्रौ च पञ्चम्याः, कौलवस्त्रीविलोचने । गरादिवणिजे षष्ठ्याः , सप्तम्या विष्टिसबवे ॥ ८६२ ॥ अष्टम्यास्त्वहि रात्रौ च, क्रमाद्धालवकौलवे । अर्द्धद्रये नवम्याः स्त्रीविलोचनगरादिके ॥ ८६३ ॥ दशम्यां वणिजं विष्टिः, क्रमादर्द्धद्रये भवेत् । एकादश्यां दिवारात्रो, क्रमेण बवबालवे ॥ ८६४ ॥ द्वादश्याश्च दिने रात्रौ, कौलवस्त्रीविलोचने । गरादिवणिजे ज्ञेये, त्रयोदश्यामहर्निशोः ॥ ८६५ ॥ चतुर्दश्यां दिवा विष्टिरष्टावावृत्तयः स्मृताः । चराणामिति सप्तानां, मासे मासे पुनः पुनः ॥ ८६६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy