________________
491
विभज्यतेऽसौ द्वाषष्ट्या, नव प्राप्तास्ततः खलु । नवमोऽवमरात्रोऽयं, जात इत्येष निर्णयः ॥ ८१७ ॥ सर्वास्वपि तिथिष्वेवं, कार्या करणभावना । पर्वनिर्देशमात्रं तु, क्रियते नाममात्रतः ॥ ८१८ ॥ तृतीयायां पतेत्तुर्या, गते पर्वण्यथाष्टमे । चतुर्थ्यां पञ्चमी चैकचत्वारिंशत्तमे गते ॥ ८१९ ॥ षष्ठी पतति पञ्चम्यां, पर्वणि द्वादशे गते । षष्ठ्यां च सप्तमी पञ्चचत्वारिंशत्तमे गते ॥ ८२० ॥ सप्तम्यामष्टमी यायाद्याते पर्वणि षोडशे । अष्टम्यां नवमी चैकोनपञ्चाशत्तमे गते ॥ ८२१ ॥ नवम्यां माति दशमी, द्राग्विंशतितमे गते । एकादशी दशम्यां च, त्रिपञ्चाशत्तमे गते ॥ ८२२ ॥ एकादश्यां द्वादशी च, चतुर्विंशतिसंख्यके । तस्यां त्रयोदशी सप्तपञ्चाशत्संख्यके गते ॥ ८२३ ॥ गतेऽष्टाविंशतितमे, त्रयोदश्यां चतुर्दशी । चतुर्दश्यां विशेद्राका, चैकषष्टितमे गते ॥ ८२४ ॥ गते द्वात्रिंशत्तमेऽमावास्यायां प्रतिपदिशेत् । एता युगस्य पूर्वार्द्ध, पराद्धेऽप्येवमेव ताः ॥ ८२५ ॥ राकायां च प्रतिपदो, भूतेष्टायाममातिथेः । संपातसंभवो नास्तीत्येतद् ज्ञेयं मनस्विभिः ॥ ८२६ ॥ एतस्य यन्त्रके दृष्टे, भवतां प्रत्ययो दृढः । भविष्यतीति तत्सम्यग, वीक्षणीयं विचक्षणाः ॥ ८२७ ॥ ननु कालः सदाऽनादिप्रवाहः परिवर्त्तते । जगत्स्वभावानियतस्वरूपेण दिवानिशम् ॥ ८२८ ॥ न हानिः कापि कालस्य, न च वृद्धिः स्वरूपतः । ततोऽत्रावमरात्राधिमासादीनां कथा वृथा ॥ ८२९ ॥ सत्यं किंत्विह मासानां, विरूपाणां परस्परम् । अंशादिभिर्विशेषो यो, वर्त्तते तदपेक्षया ॥ ८३० ॥ विवक्ष्येते हानिवृद्धी, कालस्य न तु वास्तवी । वस्तुतस्त्वेष नियतस्वरूप: परिवर्त्तते ॥ ८३१ ॥ तथाहि-चन्द्रमासविवक्षायां, कर्ममासव्यपेक्षया । कालस्य हानिर्वृद्धिश्च, सूर्यमासविवक्षणे ॥ ८३२ ॥ पृथग् पृथग् विवर्त्तन्ते, वस्तुतस्तु त्रयोऽप्यमी । मासा अनादिनियतस्वरूपेण सदा भुवि ॥ ८३३ ॥ अथ नष्टतिथिं ज्ञातुं, करणं प्रतिपाद्यते । विज्ञायते सुखं येनानुक्तापि पर्वयुक् तिथिः ॥ ८३४ ॥ समुद्गच्छति मार्तण्डे, योकाभिजित: कला । भुक्ता चन्द्रमसा तर्हि, कतमत्पर्व का तिथि: ? ॥ ८३५ ॥ अत्र करणंअभिजित्प्रमुखाणामतीतानां यथाक्रमम् । इष्टभेष्टकलां यावत्, कला एकत्र मेलयेत् ॥ ८३६ ॥ कला चात्राहोरात्रस्य सप्तषष्टितमो भागो बोद्धव्यः । इष्टभेष्टकलां ताभ्योऽपनीयेत स्थितं च यत् । त्रिनवत्यधिकैस्ताड्यं, तत्त्रयोदशभिः शतैः ॥ ८३७ ॥ विभज्यते च तत्रिशैस्ततोऽष्टादशभिः शतैः । लब्धं संत्यज्यते शेषं, यत्स्यात्तत्स्थाप्यते द्विशः ॥ ८३८ ॥ एकत्रास्मिन्नेकषष्ट्या, विभक्ते यदवाप्यते । अन्यराशौ क्षिप्यते तत्, सोऽङ्कराशि: पुनस्ततः ॥ ८३९ ॥ ह्रियते पञ्चदशभिर्हते च यदवाप्यते । तानि पर्वाणि शेषांशास्तिथिसंख्या भवेदिह ॥ ८४०॥ किंच-भमत्राभिजिदेवाद्यं, तत्कलाऽप्यादिमोदिता । तदेककात्तत्कलाकान्न किञ्चिदपनीयते ॥ ८४१ ॥