________________
489
अयं भाव:द्वाषष्टिरंशाः कल्प्यन्तेऽहोरात्रस्यादिमेऽथ च । तत्रैकषष्टिभागात्मा, संपूर्णा प्रथमा तिथि: ॥७७५ ॥ एको द्वाषष्टिभागो योऽहोरात्रस्यावशिष्यते । एकांशेन द्वितीयापि, तिथिस्तत्र समाविशत् ॥ ७७६ ॥ एको दापष्टिभागोऽस्या, अतीतः प्रथमे दिने । ततः षष्ट्यंशात्मिकेयमहोरात्रे द्वितीयके ॥ ७७७ ॥ द्वाषष्ट्यंशद्धये तस्य, शेषेऽसौ पूर्णतां गता । द्वाभ्यां भागाभ्यां प्रविष्टा, तृतीयाऽस्मिंस्ततस्तिथिः ॥ ७७८ ।। अहोरात्रे तृतीयेऽथ, भागास्तुर्यतिथेस्त्रयः । प्रविशन्त्यथ पञ्चम्याश्चत्वारोंऽशास्तुरीयके ॥७७९ ॥ एवमेकैकभागेन, हीयते प्राक्तनी तिथि: । वर्द्धते प्रत्यहोरात्रं, तिथिरागामिनी पुन: ॥ ७८० ॥ एकत्रिंशत्तमतिथेरेवं त्रिंशत्तमे दिने । त्रिंशदंशाः प्रविष्टाः स्युस्ततस्तस्मिन् दिने खलु ॥ ७८१ ॥ द्वात्रिंशदंशप्रमिता, तिथिस्त्रिंशत्तमी भवेत् । त्रिंशवाषष्ट्यंशमाना, चैकत्रिंशत्तमी तिथि: ॥ ७८२ ॥ क्रमाच्च-दावंशौ स्त: षष्टितमतिथे: षष्टितमे दिने । एकषष्टितमतिथेस्तत्र षष्टिः स्युरंशकाः ॥ ७८३॥ एकषष्टितमतिथेश्चैकषष्टितमे दिने । एकोऽश: स्यात्ततो द्वाषष्टितमी चाखिला तिथि: ॥ ७८४ ॥ एवं च द्वाषष्टितमी, प्रविष्टा निखिला तिथि: । एकषष्टिभागरूपाऽत्रैकषष्टितमे दिने ॥ ७८५ ॥ एकषष्टितमदिनस्याद्यो द्वाषष्टिजो लवः । एकषष्टितमतिथेश्वरमोऽसौ विभाव्यताम् ॥७८६ ॥ ततश्च द्वाषष्टितमोऽप्यत्रैवान्ते गतस्तिथि: । एवमस्मिन्नहोरात्रे, द्वे तिथी पूर्णतां गते ॥ ७८७ ॥ द्वाषष्टितमघनस्य, तत: सूर्योदयक्षणे । उपस्थिता पूर्वरीत्या, द्राक् त्रिषष्टितमी तिथि: ॥ ७८८ ॥ एवं च द्वाषष्टितमी, नाप्ता सूर्योदयं तिथि: । पतितेति ततो लोके, शुभकार्येष्वनादृता ॥७८९ ॥
तथाहुः-“एक्वंमि अहोस्ते, दोऽवि तिही जत्थ निहणमेज्जासु । सोऽत्थ तिही परिहायइ सुहुमेण हविज्ज सो चरिमो” ॥ [ज्योतिष्करंडक श्लो. १११]
'सुहुमेणत्ति' सूक्ष्मेण-अतिश्लक्ष्णेन द्वाषष्टितमरूपतया एकैकेन भागेन हीनेन परिहीयमानाया
द्वाषष्टितमायास्तिथे: स एकषष्टितमो दिवसश्चरम इति, तथाहि-युगस्यायप्रतिपदश्चतुष्पर्वव्यतिक्रमे । लभतेऽवमरात्रत्वमेकषष्टितमा तिथि: ॥७९० ॥ आश्विनप्रतिपत् कृष्णा, सा ज्ञेयाऽस्यां यतोऽविशत् । तिथिर्द्धितीया सर्वांशैरेकषष्टिलवात्मिका ॥७९१ ॥
ज्योतिष्करण्डके तु- “तइयंमि ओमरत्तं, कायद् सत्तमंमि पक्रोमि । वासहिमगिम्हाकाले, चउचउमासे विधीयते" ॥ [श्लोक ११२]
इत्युक्तं. एतदनुसारेण च आषाढप्रतिपद आरभ्य यथोत्तरमेकषष्टितमासु भाद्रपदकृष्णप्रतिपदादिष्ववमरात्राः स्युः, परं ज्योतिष्करण्डकटीकायां श्रीमलयगिरिपादैरेवमुक्तं-इहाषाढाद्या लोके ऋतवः प्रसिद्धिमैयरुस्ततो लौकिकव्यवहारमपेक्ष्याषाढादारभ्य प्रतिदिवसमेकैकद्धाषष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिपर्वसु यथोक्ता अवमरात्रा: प्रतिपाद्यन्ते, परमार्थतः पुन: श्रावणबहुलप्रतिपल्लक्षणायुगादित आरभ्य चतुश्चतुःपर्वातिक्रमे वेदितव्या इति ज्ञेयं ।