________________
488
स्यु त्रिंशन्मुहूर्तस्यैकस्य द्वाषष्टिकाल्पता: । अस्योत्पत्तिः कथमिति ?, श्रद्धा चेत् श्रूयतां तदा ॥ ७५४ ॥ अहोरात्रस्य भागा द्वाषष्टिभागीकृतस्य हि । एकषष्टिस्तिथेर्मानमेकैकस्य यदीरितम् ॥७५५ ॥ द्वाषष्टिजांशरूपैकषष्टिस्तत्रिंशता हता । अहोरात्रमुहूत्तैः स्यात्रिंशाष्टादशशत्यहो ॥ ७५६ ॥ एते चांशा द्वाषष्ट्यंशीकृतसकलतिथिमुहूर्तानाम् । सन्तीति द्वाषष्ट्या मुहूर्त्तकरणाय भजनीयाः ॥ ७५७ ॥ ततो मुहूर्ता एकोनत्रिंशद्वात्रिंशदंशका: । द्वाषष्टिजा मुहूर्त्तस्यागतास्तैश्च तिथेमितिः ॥ ७५८ ॥. कालेन चेयता पञ्चदशांशश्चतुरंशकः । द्वाषष्ट्यंशीकृतस्येन्दोहीयते वर्द्धते यथा ॥७५९ ॥ ततश्च-यत्तिथिश्चन्द्रजेत्युक्तं, तदप्येवं विनिश्चितम् । इन्दोः पञ्चदशांशस्य, हानिवृद्ध्यनुवर्त्तनात् ॥ ७६० ॥ इति तिथिमाननिरूपणं । सांप्रतं चेप्सितदिने, कियन्मानेप्सिता तिथिः । इति ज्ञानाय करणं, यथाशास्त्रं निरूप्यते ॥ ७६१ ॥ अभीष्टतिथिपर्यन्तस्तिथिराशियुगादित: । द्वाषष्ट्या हियते लब्धं, त्याज्यं शेषं तु यत्स्थितम् ॥ ७६२ ॥ तदेकष्ट्या गुणितं, द्वाषष्ट्या प्रविभज्यते । लब्धमत्रापि च त्याज्यं, शेषास्तिष्ठन्ति ये लवाः ॥ ७६३ ॥ तावन्मानाऽभीष्टतिथिर्विवक्षितदिने भवेत् । उदाहरणमस्याथ, करणस्य निशम्यताम् ॥७६४ ॥ युगस्य प्रथमे चन्द्रवर्षे मासे तथाऽऽश्विने । कियन्माना भवेच्छुक्लपञ्चमीत्यत्र कथ्यते ॥ ७६५ ॥ तिथिराशिर्भवत्येतत्पञ्चम्यन्तो युगादितः । अशीतिसंख्यो द्वाषष्ट्या, भक्तेऽस्मिन्नेक आप्यते ॥ ७६६ ॥ स च त्याज्य: शेषमष्टादश तान् परिताडेयत् । एकषष्ट्या स्यात्ततोऽष्टानवत्याढ्यं सहस्रकम् ॥ ७६७ ॥ द्वाषष्ट्याऽस्मिन् हृते लब्धं, त्यक्तं शेषमिह स्थितम् । द्वाषष्टयंशाश्चतुश्चत्वारिंशदित्येष निर्णयः ॥ ७६८ ॥ युगस्याये चन्द्रवर्षे, धवलाश्विनपञ्चमी । चतुश्चत्वारिंशदंशमानाऽस्तीत्यत्र भावना ॥ ७६९ ॥
अत्र चेयं वासना-द्वाषष्ट्या हि तिथिभिः परिपूर्णा एकषष्टिरहोरात्रा भवन्ति, ततः परिपूर्णाहोरात्रपातनार्थं द्वाषष्ट्या ईप्सिततिथिराशेर्विभागः क्रियते, विभागे, च कृते यच्छेषमुपलभ्यते, तद्यदेकषष्टिगुणं क्रियते तदेकैकस्यास्तिथेषिष्टिभागीकृताहोरात्रसत्कैकषष्ठिभागप्रमाणत्वादिति
ज्ञेयम् । युगेऽथावमरात्राणां, स्वरूपं किञ्चिदुच्यते । भवन्ति ते च षड् वर्षे, तथा त्रिंशद्युगेऽखिले ॥७७० ॥ एकैकस्मिन्नहोरात्रे, एको द्वाषष्टिकल्पितः । लभ्यतेऽवमरात्रांश, एकवृद्ध्या यथोत्तरम् ॥ ७७१ ॥ कर्ममासे ततः पूर्णो, त्रिंशद् द्वाषष्टिजा लवा: । लभ्यन्तेऽवमरात्रस्य, तत एवोच्यते बुधैः ॥ ७७२ ॥ विश्लेषे विहिते येऽशा:, शेषाः कर्मेन्दुमासयोः । त्रिंशद् द्वाषष्टिजा: कर्ममासस्यैतेऽवमांशकाः ॥७७३ ॥ उक्तं च-“चंदउडुमासाणं, अंसा जे दिस्सए विसेसंमि । ते ओमस्तभागा, भवंति मासस्स नायव्वा” ॥
[ज्योतिष्करंडक श्लोक. १०९] कर्ममासद्धये पूर्णे, ततः षष्टिदिनात्मके । संपूर्णोऽवमरात्रः स्यादेकषष्टितमेदिने ॥ ७७४ ॥