________________
485
चतुस्त्रिंशशतच्छिन्नाहोरात्रस्य लवा अमी । ज्ञेया ज्ञेयो ध्रुवराशिनक्षत्रकरणेऽप्यसौ ॥ ६८७ ॥ अयं व्युत्तरवृद्धेन, ध्रुवराशिनिहन्यते । राशिनैकादिना याढ्यचतुःशततमावधि ॥ ६८८ ॥ एकेनाये मृगाङ्कत्तौ, ध्रुवराशिनिहन्यते । जिज्ञासिते द्वितीये तु, ध्रुवाङ्कस्ताड्यते त्रिभिः ॥ ६८९ ॥ एवं च-द्याढ्यचतुःशततमजिज्ञासायां तु ताड्यते । ध्रुवराशिस्व्युत्तराष्टशतमानेन राशिना ॥ ६९० ॥ राशियुत्तरया वृद्ध्या, वर्द्धमानो हि जायते । रूपोनो द्विगुणः स्वस्वाभीष्टचन्द्रर्तुमानतः ॥ ६९१ ॥ यथा तृतीये चन्द्रत्तौ, वृद्धया व्युत्तरया भवेत् । गुणक: पञ्चमः सोऽस्माद्पोनो द्विप्न एव हि ॥ ६९२ ॥ ततस्तथा ताडितोऽसौ, ध्रुवराशिर्विभज्यते । चतुस्त्रिंशशतेनायं, तिथिश्चन्द्रर्तुपूर्तिभाग् ॥ ६९३ ॥ यथा द्वितीयचन्द्रर्तुपृच्छायां त्रिगुणीकृता । पञ्चाढ्य त्रिशती पञ्चदशाढ्याः स्युः शता नव ॥ ६९४ ॥ चतुस्त्रिंशशतेनैषां, भागे षट् करमागताः । शेषमेकादशशतं, तद्धिकेनापवर्त्यते ॥ ६९५ ॥ अध्यर्द्धाः पञ्चपञ्चाशत्, लवाः स्युः सप्तषष्टिजा: । तदेवमिष्टचन्द्रर्तुनिश्चयोऽयमुपस्थितः ॥ ६९६ ॥ युगादेः षट्स्वतीतेषु, दिनेषु सप्तमस्य च । अध्यक्षैः पञ्चपञ्चाशतांशकैः सप्तषष्टिजैः ॥ ६९७ ॥ व्यतीतैः स्यान्मृगाङ्कर्तुर्द्धितीय: पूर्णतां गतः । कार्या विचक्षणैरेवं, सर्वत्रान्यत्र भावना ॥ ६९८ ॥ अथ सूर्यर्तुसंपूत्तौ, भोग्यमिन्दोस्तथा रवेः । यन्नक्षत्रं भवेत्तस्य, ज्ञानाय करणं बुवे ॥ ६९९ ॥ ध्रुवाङ्कराशि योऽत्र, पञ्चोपेतं शतत्रयम् । चतुस्त्रिंशशतच्छिन्नाहोरात्रांशात्मकोऽस्त्ययम् ॥७०० ॥ एकादियुत्तरेणामुं, त्रिंशदन्तेन राशिना । हत्वा शोधनकान्यस्मादक्ष्यमाणानि शोधयेत् ॥ ७०१॥ तेषु यच्छोध्यमानेषु, सर्वाग्रेण न शुध्यति । सूर्यत्तुर्वृत्तौ नक्षत्रं, स्याच्चन्द्रस्य रवेरपि ॥ ७०२ ॥ राशेर्युत्तरवृद्धस्य, ज्ञेया प्राग्वत्प्ररूपणा । बौध्या शोधनकानां तु, प्राज्ञैः प्रज्ञापनाऽसकौ ॥७०३ ॥ अर्द्धक्षेत्रे सप्तषष्टिक्षे शोधनकं स्मृतम् । समक्षेत्रे चतुस्विशं, शतं शोधनकं भवेत् ॥७०४ ॥ सार्द्धक्षेत्रे च नक्षत्रे, स्यादेकाढ्यं शतद्धयम् । इन्दोरभिजितो भानि, शोध्यान्यर्कस्य पुष्यतः ॥७०५ ॥ ऋक्षस्याभिजित: पूर्व, द्विचत्वारिंशदंशकान् । राशेविंशोधयेत्तस्माच्चन्द्रयुक्तर्भचिन्तने ॥७०६ ॥ सूर्यक्षयोगचिन्तायां, चादौ पुष्यस्य शोधयेत् । अष्टाशीतिं ततः शोध्यान्युडूनि प्रोक्तवत्क्रमात् ॥ ७०७ ॥ यथा प्रथमसूर्यर्तुः, कस्मिन्नुडुपशालिनी । नक्षत्रे पूर्णतामेति, युगे तत्रेदमादिशेत् ॥ ७०८ ॥ प्रागुक्तो ध्रुवराशिर्यः, पञ्चोपेतं शतत्रयम् । एकेन गुणितः सोऽयं, तावानेव व्यवस्थितः ॥७०९ ॥ तस्मादभिजित: शुद्धा, दाचत्वारिंशदादितः । सत्रिषष्टि शतद्धन्द्धं, शेषं तस्माच्च शोध्यते ॥ ७१०॥ श्रुतेः शतं चतुस्त्रिंशमथ शेषं शतं स्थितम् । एकोनत्रिंशमस्माच्च, धनिष्ठा तु न शुध्यति ॥ ७११ ॥ ततश्च-एतावत्सु धनिष्ठाया, भुक्तेष्वंशेष्विहेन्दुना । सूर्यर्तुः प्रथमः पूर्ण, इति पूर्वोक्तनिर्णयः ॥ ७१२ ॥ अथ प्रथमसूर्यर्तुपूत्तौ सूर्य‘मुच्यताम् । ध्रुवाकोऽत्रापि पूर्वोक्तः, पञ्चोपेतं शतत्रयम् ॥ ७१३ ॥