SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 484 ततश्च युगस्य पञ्चमे वर्षे, आषाढे प्रथमेऽस्य च । पूर्णः शुक्लचतुर्दश्यामृतुस्त्रिंशत्तमाऽन्तिमः ॥ ६६५ ॥ अथ चन्द्रर्त्तुस्वरूपमुच्यते— सर्वभोगो नक्षत्रपर्याय इति कथ्यते । ते च भानोर्युगे पञ्च, सप्तषष्टिर्निशापतेः ॥ ६६६ ॥ एकैकस्मिंश्च नक्षत्र पर्याये ऋतवो हि षट् । ततोऽर्कस्य युगे त्रिंशत्, द्व्युत्तरेन्दोश्चतुःशती ॥ ६६७ ॥ एकैकश्च मृगाङ्कर्तुरहोरात्रचतुष्टयी । सप्तत्रिंशदहोरात्रभागाश्च सप्तषष्टिजाः ॥। ६६८ ।। विधोर्यदे कनक्षत्रपर्याये सप्तविंशतिः । अहोरात्राः सप्तषष्टिभागास्तथैकविंशतिः ।। ६६९ ।। तेषां भागे हृते षड्भिर्लब्धा दिनचतुष्टयी । शेषं दिनत्रयं तच्च, सप्तषष्ट्या हतं भवेत् ॥ ६७० ॥ द्विशत्येकोत्तराऽत्रैकविंशत्यंशविमिश्रणे । द्वाविंशे द्वे शते सप्तषष्ट्यंशानामिमे पुनः ॥ ६७१ ॥ षड्भक्ते सप्तषष्ट्यंशाः, सप्तत्रिंशद्यथोदिताः । इदं चन्द्रर्त्तुमानं च चन्द्रसर्वर्त्तुसंख्यया ॥ ६७२ ॥ चतुःशत्याद्व्युत्तरया, गुण्यते चेद्भवन्ति तत् । अष्टादश शतास्त्रिंशा, यथोक्ता युगवासरा: ।। ६७३ ॥ अथ चन्द्रर्त्तुज्ञानाय करणमुच्यते— युगातीतपर्वसंख्या, कार्या पञ्चदशाहता । विवक्षितदिनात्प्राच्या, वर्त्तमानस्य पर्वणः ॥ ६७४ ॥ तिथयस्तत्र योज्यन्तेऽवमरात्रोज्झिताथ सा । चतुस्त्रिंशशतहता, पञ्चाढ्यत्रिंशताञ्चिता ॥ ६७५ ।। शतैर्दशोत्तरैः षड्भि–र्विभाज्यैवं कृते सति । लभ्यन्तेऽतीतऋतवः, शेषांशाश्चोद्धरन्ति ये ।। ६७६ ॥ तेषां भागे चतुस्त्रिंशशतेनात्र यदाप्यते । दिना वर्त्तमानर्त्ताः, शेषा अंशा दिनस्य च ॥ ६७७ ॥ द्वितीयपर्वैकादश्यां चन्द्रर्तुः कतमो युगे । इति प्रश्नेऽतीतमेकं पर्व पञ्चदशाहतम् ॥ ६७८ ॥ जाता पञ्चदशैतेषु क्षिप्यन्ते दश वासराः । एकादश्याः प्रागतीता, जातैवं पञ्चविंशतिः ।। ६७९ ।। अवमरात्रस्य त्वत्र संभवो नास्तीति ज्ञेयम् । ६८० ॥ ६८१ ॥ ६८२ ॥ चतुस्त्रिंशशतघ्नाऽसौ, त्रयस्त्रिंशच्छती भवेत् । पञ्चाशदधिकास्यां च, पञ्चाढ्यां त्रिशती क्षिपेत् ॥ शतानि पञ्चपञ्चाशान्येवं षट्त्रिंशदेषु च । शतैर्दशोत्तरैः षड्भिर्भक्तेष्वाप्येत पञ्चकम् ॥ अंशाश्च शेषास्तिष्ठन्ति पञ्चाढ्यानि शतानि षट् । चतुस्त्रिंशशतेनैषां भागे लब्धं चतुष्टयम् ॥ एकोनसप्ततिश्चांशाः, शेषास्ते द्व्यपवर्त्तिताः । लब्धाः सार्द्धाश्चतुस्त्रिंशत्सप्तषष्टिलवा इति ॥ ६८३ ॥ अतीताः पञ्च ऋतवः, षष्ठतश्च गता दिनाः । चत्वारः पञ्चमस्याहः, सप्तषष्टिभवा लवाः ॥ ६८४ ॥ गताः सार्द्धाश्चतुस्त्रिंशत्, सार्दो द्वौ सप्तषष्टिजौ । चन्द्रर्तौ स्तस्तदा षष्ठे, भागौ न्यूनतयाञ्चितौ ।। ६८५ ।। एवमन्यत्रापि भाव्यं । अथ चन्द्रर्त्तुसंपूर्त्तितिथेः करणमुच्यते । तत्र बोध्यो ध्रुवराशिः, पञ्चोपेतं शतत्रयम् ॥ ६८६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy