________________
482
६२६ ॥
६२७ ॥
६२८ ॥
६२९ ॥
॥
६३१ ॥
त्रिंशतोऽपि युगर्त्तृनां, पूर्त्तेर्मासांस्तिथीनपि । पक्षांश्च कृष्णशुक्लाख्यान्, बूमोऽथ समयोदितान् ॥ ६२३ ॥ आद्यो भाद्रपदश्यामप्रतिपद्यन्तमश्नुते । कार्त्तिकस्य तृतीयायां, कृष्णपक्षे द्वितीयकः ॥ ६२४ ॥ पौषस्य कृष्णपञ्चम्यां, तृतीय: पूर्तिमश्नुते । फाल्गुनश्यामसप्तम्यां पूर्यते च तुरीयकः ॥ ६२५ ॥ राधश्यामनवभ्यां च, पञ्चमः परिपूर्यते । शुचेरशुभ्रैकादश्यां षष्ठः पूर्णो भवेदृतुः ॥ पूर्णो भाद्रपदश्यामत्रयोदश्यां च सप्तमः । अमावास्यां कार्त्तिकस्य, पूर्णो भवति चाष्टमः ॥ एते यथोक्तमासेषु, कृष्णपक्षेऽन्तमाप्नुयुः । ऋतवोऽष्टापि तीर्थेशैरित्युक्तं सर्वदर्शिभिः ॥ पौषशुक्लद्वितीयायां, नवमर्तुः समाप्यते । फाल्गुन श्वेततुर्यायां, दशमोऽन्तं प्रपद्यते ॥ एकादशोऽन्तं वैशाखशुक्लषष्ठयां बिभर्त्यथ । आषाढशुक्लाष्टम्यां च द्वादशः परिपूर्यते त्रयोदशो भाद्रपददशम्यां विशदत्विषि । चतुर्दश: कार्त्तिकीकद्वादश्यां धवलद्युतौ ॥ पौषश्वेतचतुर्दश्यां पूर्ति पञ्चदशोऽश्नुते । वलक्षपक्षप्राप्तान्ताः सप्तामी ऋतवः स्मृताः ॥ ६३२ ॥ ऋतवोऽमी पञ्चदश, युगपूर्वार्द्धभाविन: । इतः पञ्चदशोच्यन्ते, युगपश्चार्द्धभाविनः ॥ ६३३ ॥ फाल्गुनस्य प्रतिपदि श्यामायामथ षोडश । राधकृष्णतृतीयायामन्तं सप्तदशोञ्चति ॥ ६३४ ॥ आषाढासितपञ्चम्यामन्तमष्टादशो भजेत् । भाद्रानुज्ज्वलसप्तम्यां पूर्यतेऽष्टादशाग्रिमः ॥ ६३५ ॥ कार्त्तिके विंशतितमो, नवम्यां मेचकद्युतौ । पौषस्य कृष्णैकादश्यामेकविंशतिसंख्यकः ॥ ६३६ ॥ फाल्गुनस्य त्रयोदश्यां द्वाविंशः श्यामलत्विषि । स त्रयोविंशतितमो, राधाऽमायां प्रपूर्यते ॥ ६३७ ॥ अष्टाप्यमी कृष्णपक्षप्राप्तान्ताः पूर्यतेऽथ च । शुचिशुक्लद्वितीयायां चतुर्विंशतिपूरणः ॥ ६३८ ॥ भाद्रस्य श्वेततुर्यायां, पञ्चविंशस्तु पूर्यते । षड्विंशतितमः षष्ठ्यां, शुभ्रायां कार्त्तिकस्य तु ॥ ६३९ ॥ स सप्तविंशतितमः पौषाष्टम्यां सितद्युतौ । दशम्यां फाल्गुने श्वेतत्विष्यष्टाविंशतिप्रमः ॥ ६४० ॥ द्वादश्यां राध एकोनत्रिंशत्तमः सितत्विषौ । शुचिशुक्लचतुर्दश्यां पूर्ति त्रिंशत्तमोऽश्नुते ॥ ६४१॥ त्रिंशदप्येवमृतवः प्रोक्ताः प्राप्तसमाप्तयः । एकांतरेषु मासेषु तिथिष्वेकान्तरास्विति ॥ ६४२ ॥ किञ्च - कर्ममासात्सूर्यमासेऽहोरात्रार्द्धं यदेधते । ऋतौ द्विभानुमासोत्थेऽहोरात्रो वर्द्धते ततः ॥ ६४३ ॥ ततश्च–कर्ममासद्वये षष्टिरहोरात्रा भवन्ति वै । सूर्यमासद्वयात्मर्त्तुस्त्वेकषष्टिदिनात्मकः ॥ ६४४ ॥ द्धिकर्ममासापेक्षस्तद्भवेदृतुमृतुं प्रति । अहोरात्रः समधिकश्चतुर्मास्यां तु तद्भयम् ॥ ६४५॥ वर्षाशीतोष्णकालेषु, चतुर्मासमितेषु यत् । अधिरात्रं भवेत्पर्व, तृतीयमथ सप्तमम् ॥ ६४६ ॥ तथोक्तं ज्योतिष्करण्डे— तइयंमि य कायव्वं, अइस्तं सत्तमे य पव्वंमि । वासहिमगिम्हकाले, चउचउमासे विहियंते ॥ [ श्लोक. २६७ ]
श्रावणो मार्गशीर्षश्च, चैत्रश्चेति यथाक्रमम् । वर्षाशीतोष्णकालानामादिमासाः प्रकीर्त्तिताः ॥ ६४७ ॥
६३० ॥