________________
481
उक्तं च ज्योतिष्करण्डके - पाउस वासास्तो सरओ, हेमंत वसंत गिम्हा य । एए खलु छप्पि उऊ, जिणवरदिट्ठा मए सिट्ठा ॥ [ श्लोक. २६५ ]
प्रथमाषाढराकायाः, प्रारभ्यैषामुपक्रमः । भवन्ति त्रिंशतैभिश्च यथोक्ता युगवासराः ॥ ५९९ ॥ द्वावाषाढौ युगान्ते स्तस्तत्राद्यस्य सितत्विषि । चतुर्दश्यां प्राग्युगर्त्तुः, पूर्णस्त्रिंशत्तमो भवेत् ॥ ६०० ॥ ततस्तस्यैव राकायां, युगस्याभिनवस्य तु । ऋतुराद्यो लगेद्भाद्रस्याद्येऽसौ पूर्यते तिथौ ॥ ६०१ ॥ आद्याषाढस्यैकदिनं, त्रिंशस्त्रिंशद्दिनात्मकौ । द्वितीयाषाढनभसौ, भाद्रस्यैकं दिनं ततः ॥ ६०२ ॥ स्युर्द्धाषष्टिरेभ्य एकोऽवमरात्रो निपात्यते । एकषष्टिदिनात्मेति, सूर्यर्त्तुः प्रथमो युगे ॥ ६०३ ॥ एकषष्टिस्त्रिशता च, गुण्या सर्वर्त्तुसंख्यया । अष्टादशशतास्त्रिंशा, एवं स्युर्युगवासराः ॥ ६०४ ॥ एवमन्यत्रापि भाव्यं, यन्त्रकं वा विलोकनीयं ।
६०८ ॥
६०९ ॥
६१० ॥
॥
1
६१२ ॥
६१३ ॥
सूर्यर्त्तुज्ञानविषये, करणं प्रतिपाद्यते । येन विज्ञातमात्रेण, सुखेन ऋतुरुह्यते ।। ६०५ ।। युगेऽतीतपर्वसंख्या, कार्या पञ्चदशाहता । पर्वणो वर्त्तमानस्य, विवक्षितदिनावधि ॥ ६०६ ।। क्षिप्यन्ते तत्र तिथयः, पात्यन्तेऽवमरात्रकाः । ततस्ता द्विगुणीकृत्य, सैकषष्टिर्विधीयते ॥ ६०७ ॥ द्वाविंशेन शतेनास्या, हृते भागे यदाप्यते । तस्मिन् षड्भिर्हते शेषमतिक्रान्त ऋतुर्भवेत् ॥ द्वाविंशशतभक्तस्य, राशेर्यच्छेषमास्थितम् । तस्मिन् द्वाभ्यां हृते लभ्या, वर्त्तमानर्त्तुवासराः ॥ युगे प्रथमदीपाल्यां, यदि कश्चन पृच्छति । सूर्यर्त्तुः कतमोऽतीतः कतमो वर्त्ततेऽधुना ? ॥ सप्त पर्वाण्यतीतानि, तदा तत्र युगादितः । तानि पञ्चदशघ्नानि स्युः पञ्चाभ्यधिकं शतम् द्वाभ्यामवमरात्राभ्यां, हीनं तत् त्र्युत्तर शतम् । तद् द्वाभ्यां गुण्यते जाते, द्वे शते षड्भिरुत्तरे ॥ तत्रैकषष्टिक्षेपे द्वे शते ससप्तषष्टिके । एतयोर्हियते भागो, द्वाविंशेन शतेन च ॥ लभ्येते न तौ भागं, सहेते षड्भिरित्यतः । स्थितौ द्वावेव शेषा ये, त्रयोविंशतिरंशकाः ॥ तेषामर्धे कृते सार्द्धा, एकादश स्थिता इति । आगतं द्वावृतू यातौ, तृतीयो वर्त्ततेऽधुना ॥ वर्त्तमानस्य तस्यैकादश जग्मुर्दिना इति । द्वादशोऽस्त्यधुना घस्र, इति प्रश्नस्य निर्णयः ॥ ६१६ ॥ यद्वाक्षयतृतीयायामाद्यायां यदि पृच्छति । तदा पञ्चदशघ्नानि, पर्वाण्येकोनविंशतिः ॥ ६१७ ॥ पञ्चाशीत्या समधिकं, ततो जातं शतद्वयम् । तृतीयायां पृष्टमिति, क्षिप्यन्ते तिथयस्त्रयः ।। ६१८ ।। साष्टाशीति शतद्वन्द्वं, जज्ञेऽथावमरात्रकैः । पञ्चभिरत्यक्तमेतत् स्यात्, सत्र्यशीतिशतद्वयम् ॥ ६१९ ॥ अस्मिन् द्विगुणिते पञ्चशती षट्षष्टियुग्भवेत् । सैकषष्टिरियं सप्तविंशा भवति षट्शती ॥ ६२० ॥ द्वाविंशेन शतेनास्या, भागे पञ्चकमाप्यते । उद्धरन्ति सप्तदश स्युः सार्द्धा अष्ट तेऽर्द्धिताः ॥ ६२१ ॥ पञ्चर्त्तवस्ततोऽतीताः, षष्ठोऽसौ वर्त्ततेऽधुना । अष्टौ जग्मुर्दिनान्यस्याधुना नवममस्ति च ।। ६२२ ।।
६१४ ॥
६१५ ॥
६११ ॥