________________
480
पर्वाङ्कार्द्ध पञ्चदशाधिकं तु तिथिभिर्भदेत् । पर्वाङ्केष्वागतं दद्याच्छेषाङ्कान्निर्णयेत्तिथिम् ॥ ५८१ ॥ तथाहियुगे विषुवमायं स्यात्कतिपर्वव्यतिक्रमे । कस्यां तिथाविति प्रश्ने, करणं भावयेदिति ॥ ५८२ ॥ आद्यं विषुवदित्येको, द्विप्नो रूपोनित: पुन: । एकः स षड्गुणः षट्कः, पर्वाङ्कः सोऽद्धितस्तिथि:॥ ५८३ ॥ एवं च-षट्सु पर्वस्वतीतेषु, युगे विषुवमादिमम् । तृतीयायां तिथावे, चतुर्थमथ भाव्यते ॥ ५८४ ॥ तद्यथाद्विजश्चतुष्को रूपोन:, सप्त स्युस्ते च षड्गुणा: । द्वाचत्वारिंशद्भवन्ति, तेऽर्द्धितास्त्वेकविंशतिः ॥ ५८५ ॥ अधिका पञ्चदशाङ्कादियं तद्भज्यतेऽथ तैः । पर्वस्वेकं क्षिपेल्लब्धं, शेषा: षट् तिथिसूचकाः ॥ ५८६ ॥ ततश्चस्यात्पर्वसु त्रिचत्वारिंशत्यतीतेष्वथो युगे । षष्ठ्यां तिथौ तद्धिषुवमेवं सर्वत्र भाव्यताम् ॥ ५८७ ॥ पञ्चापि विषुवन्त्यर्कः कुर्याद्याम्यायनस्थितः । स्वातेर्नक्षत्रस्य भुक्त्वा, त्रयोविंशतिमंशकान् ॥ ५८८ ॥ अंशाश्चात्र चतुस्त्रिंशदधिकशतच्छिन्नरूपस्य ज्ञेयाः । पञ्चापि विषुवन्त्यर्कः, कुर्यात्सौम्यायनस्थितः । एकोनसप्ततिं भागानश्चिन्या अवगाह्य च ॥ ५८९ ॥ इति विषुवत्प्रकरणं । अयनानां चतुस्त्रिंशं, शतं शीतयुतेर्युगे । तत्रोत्तरायणानि स्युः, सप्तषष्टियुगे युगे ॥ ५९० ॥ सप्तषष्टिरेव याम्यायनान्येकान्तराण्यथ । प्रागुत्तरायणं पश्चाद्याम्यायनमिति क्रमः ॥ ५९१ ॥ ततश्चया नक्षत्रार्द्धमासेनैवोत्तराभिमुखा विधोः । आवृत्तयस्ताः सर्वाः स्युरभिजित्प्रथमक्षणे ॥ ५९२ ॥ भमासार्द्धनाथ पुनर्दक्षिणाभिमुखा विधुः । आवृत्तिः कुरुते पुष्ययोगं प्राप्याखिला अपि ॥ ५९३ ॥ तत्रापिमुहूर्त्तदशकं भुक्त्वा, विधुर्भागांश्च विंशतिम् । पुष्यस्य सप्तषष्ट्युत्थान, याम्यावृत्तिः प्रपद्यते ॥ ५९४ ॥ इत्ययनप्रकरणम् । बूमः षण्णामथानां, स्वरूपं किञ्चिदागमात् । सूर्यसंबंधिनस्ते स्युश्चन्द्रसंबंधिनोऽपि च ॥ ५९५ ॥ सा स्त्रिंशदहोरात्रा, एको मासो विवस्वतः । ताभ्यां दाभ्यामहोरात्रा, एकषष्टिऋतू रवेः ॥ ५९६ ॥ ऋतुः प्रावृड् भवेदायो, वर्षारात्रो द्वितीयकः । शरदाख्यस्तृतीय: स्यात्तुर्यो हेमन्तसंज्ञकः ॥ ५९७ ॥ वसन्तः पञ्चमः ख्यातः, षष्ठो ग्रीष्मः प्रकीर्तितः । षडेते ऋतवः ख्याता, युगे त्रिंशद्भवन्ति ते ॥ ५९८ ॥