SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ 479 तथोक्तं ज्योतिष्करण्डके— अब्भितराहि निंतो, आइच्चो पुस्सजोगमुवगम्म । सव्वा आउट्टीओ, करेइ सो सावणे मासे ॥ बाहिरओ पविसंतो, आइच्चो अभिइजोगमुवगम्म । सब्बा आउट्टीओ, करे सो माघमासंमि ॥ [ श्लोक २४८, २४९] एवं च मकरे राशौ यद्भानोरुत्तरायणम् । कर्के याम्यायनं लोके, ख्यातं तदपि संगतम् ।। ५६१ ॥ अथ विषुवत्प्रकरणं निरूप्यते - ५६५ ॥ ५६६ ॥ पञ्चदशमुहूर्त्तात्मा, रजनी दिवसोऽपि च । यत्र तुल्यावुभौ स्यातां, स कालो विषुवं स्मृतम् ॥ ५६२ ॥ तथोक्तभिधानचिंतामणौ - “ तुल्यनक्तंदिने काले, विषुवद् विषुवं च तत् ।” [ श्लोक - १४६ ] तच्च श्यामादिवसयोः, पञ्चदशमुहूर्त्तयोः । प्रदोषकाले विज्ञेयं निश्चयापेक्षया बुधैः ॥ ५६३ ॥ यतः—सार्द्धकनवतौ बाह्यादाभ्यन्तराच्च मण्डलात् । समाक्रांतेषु सूर्येण, मण्डलेषु भवेदिदम् ॥ ५६४ ॥ तत्प्रत्ययनमेकैकं, ततस्तानि युगे दश । याम्यायनस्य पञ्चौजान्येषु स्युर्मासि कार्त्तिके ॥ समानि माधवे मासि, पञ्च सौम्यायनस्य च । तिथिचन्द्रार्कनक्षत्रयोगोऽथैषां निरूप्यते ॥ तृतीयायां तिथौ षट्सु, व्यतिक्रान्तेषु पर्वसु । रोहिणीचन्द्रनक्षत्रे, विषुवं प्रथमं भवेत् ॥ ५६७ ॥ पर्वाण्यष्टादशातीत्य, नवम्यां वासवोडुनि । द्वितीयं विषुवं प्रोक्तं, युगे तीर्थंकरादिभिः ॥ ५६८ ॥ त्रिंशत्पर्वातिक्रमे च, पञ्चदश्यां तृतीयकम् । प्रज्ञप्तं स्वातिनक्षत्रे विषुवं पुरुषोत्तमैः ॥ ५६९ ॥ त्रिचत्वारिंशतं पर्वाण्यतिक्रम्य युगादितः । स्यात्पुनर्वसुनक्षत्रे, तुर्यं षष्ठीतिथौ ध्रुवम् ॥ ५७० ॥ पञ्चपञ्चाशतं पर्वाण्यतिक्रम्य च पञ्चमम् । उत्तरासु भद्रपदास्वाख्यातं द्वादशीतिथौ ॥ ५७१ ।। अष्टषष्टिमतिक्रम्य, पर्वाणि विषुवं भवेत् । षष्ठं तिथौ तृतीयायां मैत्रनक्षत्र एव च ॥ ५७२ ॥ पर्वाण्यशीतिमुल्लङ्घ्य, नवम्यां सप्तमं पुनः । मघासु मघवत्पूज्यैर्विषुवं कथितं जिनैः ॥ ५७३ ॥ अतिक्रम्य द्विनवतिं, पर्वाण्यष्टममीरितम् । अश्विनीनाम्नि नक्षत्रे, पञ्चदश्यां तथा तिथौ ।। ५७४ ।। पञ्चाधिकं पर्वशतं, व्यतीत्य नवमं जिनैः । स्यादाषाढासूत्तरासु तिथौ षष्ठ्यामितीरितम् ।। ५७५ ॥ अतिक्रम्य तथा पर्वशतं सप्तदशाधिकम् । उत्तरासु फाल्गुनीषु द्वादश्यां दशमं भवेत् ।। ५७६ ।। अत्रेयं भावना विषुवं स्यात्तृतीयायां षट्पर्वातिक्रमेऽग्रिमम् । ततो यथोत्तरं योज्याः, षट् तिथ्यङ्के विचक्षणैः ॥ ५७७ ॥ द्वितीयादिविषुवतामित्येवं लभ्यते तिथि: । षट्सु क्षिप्तेषु चेत्संख्या, भवेत्पञ्चदशाधिका ।। ५७८ ।। तदैकं पर्व पर्वाङ्के, क्षिप्त्वा पञ्चदशात्मकम् । शेषाङ्कप्रमिता विज्ञैर्विज्ञेया विषुवत्तिथिः ॥ ५७९ ।। अथात्र करणं निरूप्यते द्विगुणेष्टविषुवसंख्या रूपोना षड्गुणा च पर्वमितिम् । वक्ति तथा पर्वाङ्को दलीकृतस्त्वाह विषुवतिथिम् ॥ ५८० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy