SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 478 अस्मिन्नङ्के चैककोने, एक एवावशिष्यते । सत्र्यशीतिशतं तेन, गुण्यते स्यात्तथा स्थितं ॥ ५४० ॥ एकोऽत्र गुणकस्त्रिजः, सैको जातश्चतुष्ट्यम् । एतद्युक्तोऽभवद्राशिः, सप्ताशीतियुतं शतम् ॥ ५४१ ॥ भागेऽस्य पञ्चदशभिर्लभ्यन्ते द्वादशोपरि । शिष्यन्ते सप्त तेनैष, पूर्वोक्तप्रश्ननिर्णयः ॥ ५४२ ॥ स्याद् द्वितीया द्वादशानां, विगमे युगपर्वणाम् । माघस्य श्यामसप्तम्यामावृत्तिस्तिग्मरोचिषः ॥ ५४३ ॥ कस्यां तिथौ स्यादावृत्तिस्तृतीयेतीष्यते यदि । तदा धृतस्त्रिको रूपोनितेऽस्मिन् शिष्यते द्धिकः॥ ५४४ ॥ सत्यशीतिशतं तेन, गुणितं जायते किल । शतत्रयं सषट्षष्टि, द्विकेऽथ त्रिगुणीकृते ॥ ५४५ ॥ सैके जाता: सप्त ते च, पूर्वराशौ नियोजिताः । त्रिसप्तत्या समधिकमेवं जातं शतत्रयम् ॥ ५४६ ॥ हृतेऽस्मिन् पञ्चदशभिक्षुतर्विशतिराप्यते । त्रयोदशावशिष्यन्ते, तदेष प्रश्ननिर्णयः ॥ ५४७ ॥ चतुर्विंशतिपक्षातिक्रमे तीर्थेश्वरैर्युगे । नभः कृष्णत्रयोदश्यां, तृतीयावृत्तिरीरिता ॥ ५४८ ॥ एवमन्यास्वपि तिथिषु करणभावना कार्या । आवृत्तिनक्षत्रज्ञानमुद्दिश्य करणं त्वतिविस्तरमिति नात्र प्रपञ्चितं, तज्ज्योतिष्करण्डवृत्त्यादिभ्योऽवसेयं । अत्र भावना चैवंआवृत्तिघनादेकस्मादावृत्तिरपरा भवेत् । दिने चतुरशीत्याढ्यशततमे यथाक्रमम् ॥ ५४९ ॥ सत्र्यशीति दिनशतमानमेकं यतोऽयनम् । समाप्यारभ्यते नव्यायनं घने ततोऽग्रिमे ॥ ५५० ॥ नभः कृष्णप्रतिपदो, माघस्य श्यामसप्तमी । भवेच्चतुरशीत्याढ्यशततम्येव तद्यथा ॥ ५५१ ॥ षण्णां मासामहोरात्राः, स्युरशीतियुतं शतम् । माघस्य सप्ताहानीति, सप्ताशीतियुतं शतम् ॥ ५५२ ॥ एभ्यस्त्रयोऽवमरात्राः, पात्यन्ते मासषट्कजाः । ततश्चतुरशीत्याढ्यं, शतमेव व्यवस्थितम् ॥ ५५३॥ तत्र चसत्र्यशीतिदिनशतमानमेकं किलायनम् । षष्ठ्यां पूर्णं पुनश्चान्यत्सप्तम्यां प्रत्यपद्यत ॥ ५५४ ॥ एवं चमाघस्य श्यामसप्तम्या, द्वादशी नभसोऽसिता । सत्यशीतिशततमी, पूर्णं तत्र ततोऽयनम् ॥ ५५५ ॥ त्रयोदश्यां च संप्राप्तं, भूयोऽपि दक्षिणायनम् । एवमावृत्तितिथिषु, कार्यान्यास्वपि भावना ॥ ५५६ ॥ इन्दुभोग्योडुसंयोगः, प्रागुक्तस्तिथिभिस्सह । वक्ष्येऽर्कभोग्यनक्षत्राण्यावृत्तिषु दशस्वथ ॥ ५५७ ॥ आवृत्तिः श्रावणे पञ्चाप्यादित्यः कुरुते युगे । पुष्ययुक्तो बहिर्गच्छन्, सर्वाभ्यंतरमण्डलात् ॥ ५५८ ॥ अष्टादशमुहूर्ताढ्यमहोरात्रचतुष्टयम् । पुष्यस्य भुक्त्वार्कः सर्वा, आवृत्तिः श्रावणे सृजेत् ॥ ५५९ ॥ अभ्यंतरं विशन् बाह्यमण्डलात् कुरुते रविः । पञ्चापि माघस्यावृत्तिरभिजित्प्रथमक्षणे ॥ ५६० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy