________________
476
द्वादशावमरात्राः स्युर्मासेषु पञ्चविंशतौ । तेषु त्यक्तेष्वष्टचत्वारिंशा सप्तशती भवेत् ॥ ४९० ॥ सत्र्यशीतिशतेनास्य, राशेर्विभजने सति । चत्वार एव लभ्यन्ते, शेषास्तिष्ठन्ति षोडश ॥ ४९१ ॥ गतानि चत्वार्ययनान्यतीतं यदनन्तरम् । तदुत्तरायणं दक्षिणायनं त्वस्ति सांप्रतम् ॥ ४९२ ॥ षोडशो दिवसस्तस्याप्यधुना खलु वर्त्तते । एवमन्यत्रापि भाव्यं, करणं जैर्यथोचितम् ॥ ४९३ ॥ युगे युगे चतुस्त्रिंशमयनानां शतं विधोः । तच्चैकैकं भचक्रार्द्धभोगमानमिहोदितम् ॥ ४९४ ॥ सर्व‘भोगकालो हि, विधोः संकलितो भवेत् । सप्तविंशतिरेवाहोरात्रा: पूर्णास्तथोपरि ॥ ४९५ ॥ सप्तषष्टिविभक्ताहोरात्रांशाश्चैकविंशतिः । भमासोऽप्ययमेवेंदोरुदग्याम्यायनात्मकः ॥ ४९६ ॥ सप्तषष्टिविभक्ताहोरात्रांशानां भवेदिह । भमासस्त्रिंशदधिकैरष्टादशमितैः शतैः ॥ ४९७ ॥ ईदृशाश्च भमासाः स्युः, सप्तषष्टियुगे युगे । एकैकस्मिन् भमासे च, स्यादिन्दोरयनद्वयम् ॥ ४९८ ॥ युक्तं ततश्चतुस्त्रिंशमयनानां शतं युगे । एकैकस्यायनस्याथ, मानं व्यक्त्या निशम्यताम् ॥ ४९९ ॥ चरेत्प्रत्ययनं चन्द्रो, मण्डलानि त्रयोदश । चतुश्चत्वारिंशदंशांश्चैकस्य सप्तषष्टिजान् ॥ ५०० ॥ ततश्च-त्रयोदशैवाहोरात्रा, भागाश्च सप्तषष्टिजा: । चतुश्चत्वारिंशदहोरात्रस्यायनमैन्दवम् ॥ ५०१ ॥ यदा-सप्तषष्टिभवैः पञ्चदशाढ्यैवभिः शतैः । अहोरात्रस्य भागैः स्याद्भमासाद्धं सुनिश्चितम् ॥ ५०२ ॥ चन्द्रस्यैकैकमयनमेतन्मानं निरूपितम् । त्रैराशिकबलेनात्र, प्रत्ययोऽपि निरूप्यते ॥ ५०३ ॥ चतुस्त्रिशेनायनानां, शतेन तुहिनद्युतेः । प्राप्तान्यष्टादश त्रिंशान्यहोरात्रशतानि चेत् ॥ ५०४ ॥ तदैकेनायनेनेन्दोर्लभ्यते किमिति त्रिषु । अन्त्येनैकेन गुणितो, मध्यरांशिस्तथा स्थितः ॥ ५०५ ॥ आयेन च चतुस्त्रिंशशतरूपेण राशिना । मध्यराशौ हृते लब्धा, अहोरात्रास्त्रयोदश ॥ ५०६ ॥ अष्टाशीति: शिष्यते सा, सप्तषष्ट्या निहन्यते । अष्टापञ्चाशच्छतानि स्युः, षण्णवतिमन्त्यथ ॥ ५०७ ॥ चतुस्त्रिंशशतेनैषां, हृते भागे यथोदिताः । चतुश्चत्वारिंशदंशाः, संप्राप्ताः सप्तषष्टिजाः ॥ ५०८ ॥
अत्र चन्द्रायणज्ञानविषये करणादिनिरूपणं तु क्षेत्रलोके विंशतितमे सर्ग कृतमस्तीति ततो ज्ञेयं । अयनानि दशार्कस्य, चतुस्त्रिंशं शतं विधोः । युगे युगे स्युर्यत्तत्र, त्रैराशिकमथोच्यते ॥ ५०९ ॥ सत्यशीतिशतेनाहोरात्राणामयनं रवे: । स्याद्ययेकं तदा त्रिंशैः, किमष्टादशभिः शतैः ? ॥ ५१० ॥ त्रैराशिक स्थापना १८३-१-१८३० । अन्त्येन राशिना राशावेकरूपेऽत्र मध्यमे । गुणिते स्युः शतान्यष्टादश त्रिंशद्युतान्यथ ॥ ५११ ॥ आयेन राशिना भागे सत्र्यशीतिशतात्मना । लब्धा दशैतावन्त्येवायनानि स्युर्युगे रवेः ॥ ५१२ ॥ सप्तषष्ट्युद्भवचतुश्चत्वारिंशल्लवाधिकैः । त्रयोदशभिरेकं चेदहोरात्रैः किलायनम् ॥ ५२३ ॥ त्रिंशैस्तदाष्टादशभिरहोरात्रशतैर्विधोः । अयनानि कियन्ति स्युरिति राशिवयं लिख्खेत् ॥ ५१४ ॥