________________
475
४७४ ॥
अथ वक्ष्ये प्रतियुगमयनानि यथागमम् । आवृत्ती: सूर्यशशिनोस्तत्तिथीनुडुभिस्सह ॥ ४६३ ॥ स्वरूपमृतुमासानां, तिथीनां चावमस्य च । नक्षत्राणि यथायोगमेतेषां करणान्यपि ॥ ४६४ ॥ युगे युगेऽयनानि स्युर्भानोर्दश दश ध्रुवम् । लदेकैकमहोरात्रसत्र्यशीतिशतात्मकम् ॥ ४६५ ।। प्रत्ययः क इहात्रेति, यदि शुश्रूष्यते त्वया । त्रैराशिकं तदात्रेदं श्रूयतां मित्र ! दर्श्यते ॥ ४६६ ॥ अष्टादशशतास्त्रिंशा, अयनैर्दशभिर्यदि । अहोरात्रास्तदैकेनायनेन किं लभामहे ? ॥ ४६७ ॥ अत्रांत्येनैकरूपेण, राशिना गुणितः स्थितः । तथैव मध्यमो राशिरेकेन गुणितं हि तत् ॥ ४६८ ॥ ततो दशकरूपेण, हृतेऽस्मिन्नाद्यराशिना । अहोरात्रशतं लब्धं, सत्र्यशीति यथोदितम् ॥ ४६९ ॥ मण्डलानामपि शतं, सत्र्यशीति चरेद्रविः । एकैकं प्रत्यहोरात्रं, पूरयन्नयनेऽयने ॥ ४७० ॥ सर्वान्तरानन्तरे यन्मण्डले दक्षिणायनम् । आरभ्यते पूर्यते तत्सर्वबाह्ये च मण्डले ॥ ६७१ ॥ सर्वबाह्यानन्तरे च मण्डलेऽथोत्तरायणम् । आरभ्यते पूर्यते तत्सर्वाभ्यन्तरमण्डले ।। ४७२ ।। अथ सूर्यायनज्ञानविषये करणं ब्रुवे । यतोऽतीतवर्त्तमानायनज्ञानं सुखं भवेत् ॥ ४७३ ॥ राकामावास्यारूपाणि, प्राग्विवक्षितवासरात् । तानि पञ्चदशघ्नानि कर्त्तव्यानि ततोऽत्र च ॥ अतीतास्तिथयः क्षेप्या, वर्त्तमानस्य पर्वणः । पात्यन्तेऽवमरात्राश्च, युगादारभ्य ये गताः ॥ ४७५ ॥ राशौ तस्मिंस्ततो भक्तेसत्र्यशीतिशतेन यत् । लब्धमेकद्वयादिरूपं, तत्संस्थाप्य विचिन्त्यते ॥ ४७६ ।। लब्धः समोझे यदि तद्ध्यतीतमुत्तरायणम् । विषमोङ्कोऽथ लब्धश्चेत्तद्गतं दक्षिणायनम् ॥ ४७७ ॥ अंशास्तु ये पूर्वराशौ, भागशेषा अवस्थिताः । ते तत्कालप्रवृत्तस्यायनस्य दिवसाः किल ॥ ४७८ ॥ युगमध्ये यथा कश्चिन्नवमासव्यतिक्रमे । जनः पृच्छति पञ्चम्यां, किमद्यायनमस्ति ? भोः ! ॥ ४७९ ।। अनन्तरं च कतरद्व्यतीतमिति तत्र च । पूर्वोक्तविधिना प्राज्ञो दद्यादित्येवमुत्तरम् ॥ ४८० ॥ नवानां ननु मासानां, पर्वाण्यष्टादशागमन् । तानि पञ्चदशघ्नानि, द्वौ शतौ स्तः ससप्तती ॥ ४८१ ॥ पञ्चम्यां पृष्टमिति च, क्षिप्यते तत्र पञ्चकम् । पञ्चसप्ततिसंयुक्ते, संजाते द्वे शते ततः ॥ ४८२ ॥ नवमास्यां च चत्वारोऽवमरात्रा भवन्ति ये । ते त्यज्यन्ते ततो जातौ द्वौ शतौ सैकसप्तती ॥ ४८३ ॥ अस्य राशेः सत्र्यशीतिशतेन भजने सति । लब्धमेकं रूपमष्टाशीतिः शेषावतिष्ठते ॥ ४८४ ॥ ततश्चातीतमयनमेकं तदपि दक्षिणम् । सांप्रतं वर्त्तमानं च, गण्यतामुत्तरायणम् ॥ ४८५ ॥ तस्याप्यष्टाशीतितमं, साम्प्रतं वर्त्तते दिनम् । द्वितियोऽप्यत्र दृष्टान्तो, दर्श्यते गुरुदर्शितः ॥ ४८६ ॥ पञ्चविंशतिमासातिक्रमे केनापि पृच्छ्यते । दशम्यामयनं किं भो, वर्त्ततेऽद्य गतं च किम् ? ॥ ४८७ ॥ पञ्चाशद्यानि पर्वाणि, मासेषु पञ्चविंशतौ । तानि पञ्चदशघ्नानि पञ्चाशा सप्तशत्यभूत् ॥ ४८८ ॥ दशम्यां पृष्टमिति च, क्षिप्यन्ते दश तेन च । शतानि सप्त जातानि षष्ट्याढ्यानि ततः परम् ।। ४८९ ॥