________________
अयणा, पाउसाइया उऊ, सावणाइया मासा, बहुलाइया पक्खा, दिवसाइया अहोस्ता, रुधाइया
मुहूत्ता, बालवाइया करणा, अभिइयाइया-नक्खत्ता पन्नत्ता समणाउसो !' श्रावणाऽसितपक्षस्य, तिथेः प्रतिपदोऽपि च । बालवस्य करणस्य, ऋक्षस्याभिजितस्तथा ॥ ४५९ ॥ प्रथमे समये प्रोक्तो, युगारम्भश्चिदुत्तरैः । भरतैरावतमहाविदेहेषु समं जिनैः ॥४६०॥
तथोक्तं ज्योतिष्करण्डे - सावणाहुलपडिवए, बालवकरणे अभीइनक्वत्ते । सव्वत्थ पढमसमए, जुगस्स आई वियाणाहि ॥ [श्लोक. ५५]
इदं तु वाल्लभ्यवाचनानुगतं ज्ञेयं, ज्योतिष्करण्डकर्तुालभ्यत्वात्, माथुरवाचनानुगतभगवत्यादिसूत्रेषु तु यस्मिन् समये मेरोदक्षिणोत्तरयोयुगस्य प्रतिपत्तिस्ततोऽनंतरे द्वितीये समये मेरोः पूर्वापरयोयुगस्य प्रतिपत्तिरित्यभिप्रायो दृश्यते, तथा च तद्ग्रंथ:- जया णं भंते ! जंबूहीवे दीवे दाहिणड्ढे वासाणां पढमे समए पडिवज्जड़, तया णं उत्तरड्ढे वि वासाणं पढमे समए पडिवज्जइ ? जया णं उत्तरड्ढे वासाणं पढमे समए पडिवज्जइ तया णं जंबूद्दीवे दीवे मंदरस्स पवयस्स पुरच्छिमपच्चत्थिमेणं अणंतरपुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जइ ? हता गोयमा ! जया णं जंबूद्दीवे दीवे दाहिणड्ढे वासाणं पढमे समए पडिवज्जड़ तह चेव जाव पडिवज्जइ”, एवं चावलिकादिसूत्रगर्भितं ऋतुत्रयसूत्रमयनसूत्रं चाधीत्य 'जहा अयणेणं अभिलावो तहा संवच्छरेण वि' भाणिअब्बो जुएण वि वाससएण वि इत्यादि भूयान् सूत्रसंदर्भा भगवतीसूत्रादर्शाद्धोध्यः ।। ___ जंबूद्धीपप्रज्ञप्तिसूत्रेऽपि इदमेव सूत्रं “जहा पञ्चमसए पढमुद्देसए” इत्यतिदेशेन संगृहीतं बोद्धव्यं, अत्र च जंबूदीपप्रज्ञप्तिवृत्तौ उ० श्रीशांतिचंद्रगणिभिरेवमुक्तं, “युक्त्यानुकूल्यं तु युगपत्प्रतिपत्तिसमये संभावयामः", तथाहि-'सब्बे कालविसेसा, सूरपमाणेण हुंति नायब्बा' इति वचनाद्यदि सूर्यचारविशेषेण कालविशेषप्रतिपत्तिदक्षिणोत्तरयोराद्यसमये प्रागपरयोरुत्तरसमये तर्हि दक्षिणोत्तरप्रतिपत्तिसमये पूर्वापरयोः पूर्वकालस्यापर्यवसानं वाच्यं, पूर्वापरविदेहापेक्षयास्त्येव तदिति चेत्सूर्ययोश्चीर्णचरणं अपरं वा सूर्यद्वयं वाच्यं, ययोश्चारविशेषाद्दक्षिणोत्तरप्रतिपत्तिसमयापेक्षयोत्तरसमये पूर्वापरयोः कालविशेषप्रतिपत्तिरित्यादिको भूयान् परवचनावकाश
इत्यलं प्रसङ्गेनेति । वक्ष्यन्ते ये च कालांशाः, सुषमसुषमादयः । आरम्भं प्रतिपद्यन्ते, सर्वे तेऽपि युगादितः ॥ ४६१ ॥ युगपर्यवसाने च, ते यान्ति परिपूर्णताम् । तस्मात्कालविशेषेषु, युगं प्रागुदितं जिनैः ॥ ४६२ ॥
तदुक्तं ज्योतिष्करण्डके- “एए कालविभागा, पडिवज्जंते जुगंमि खलु सब्बे । पत्तेयं पत्तेयं, जुगस्स अंते समप्पिति” ॥ [श्लोक. ९०]
ज्योतिष्करण्डटीकाकाराः पादलिप्तसूरयोऽप्याहुः-“एए उ सुसमसुसमादयो अद्धाविसेसा
जुगाइणा सह पवत्तंते जुगंतेण सह समप्पिति” । १ सम्बत्थेत्यस्य सर्वेषां भरतानां सर्वेषामैरावतानां ग्रहणे न मतभेदोऽत्र ।