________________
473
अष्टादश शतास्त्रिंशा, अहोरात्रा युगे स्मृताः । पञ्चानामपि वर्षाणां, तत्तत्संख्यासमुच्चयात् ॥ ४३७ ॥ तथाहिसंवत्सरास्त्रयश्चान्द्रा, युगे द्वौ चाभिवद्धितौ । तत्र चन्द्राब्दस्य मानमित्येतत्प्राग्निरूपितम् ॥ ४३८ ॥ चतुःपञ्चाशदधिकमहोरात्रशतत्रयम् । द्वादश दापष्टिभागा, अहोरात्रस्य चोपरि ॥ ४३९ ॥ अस्मिस्त्रिगुणिते जातमहोरात्रसहस्रकम् । द्वाषष्ट्याऽभ्यधिकं षट्त्रिंशच्च दापष्टिजा लवा: ॥४४०॥ अभिवर्द्धितमानं चाहोरात्राणां शतत्रयम् । सत्र्यशीति चतुश्चत्वारिंशद् द्वाषष्टिजा लवाः ॥ ४४१ ॥ अस्मिन् द्विगुणिते सप्त, शता: षट्षष्टिसंयुताः । अहोरात्रा: स्युस्तथाष्टाशीतिषष्टिजा लवा: ॥ ४४२ ॥ अष्टाशीतिरमी भागाः, प्राच्यषट्त्रिंशता युताः । जाताश्चतुर्विंशमेव, शतं द्वाषष्टिजा लवाः ॥ ४४३॥ अहोरात्रद्धयं लब्धं, द्वाषष्ट्याऽस्मिन् हृते सति । अष्टादशशतास्त्रिंशाः, सर्वे संकलितास्ततः ॥ ४४४ ॥ सप्तषष्टिक्रंक्षमासा, द्वाषष्टिस्ते तथैन्दवाः । ऋतुमासाश्चैकषष्टिः, षष्टिर्मासा विवस्वतः ॥ ४४५ ॥ अभिवर्द्धितमासाश्च, सप्तपञ्चाशदाहिताः । शिष्येत सप्ताहोरात्री, सैकादशमुहूर्तिका ॥ ४४६ ॥ त्रयोविंशतिरंशाश्च, मुहूर्तस्य द्विषष्टिजाः । मासानां मानमित्येवं, युगे प्रोक्तं पृथक् पृथक् ॥ ४४७ ॥ युगाहोरात्रवृन्दस्य, हृते भागे यथोदितैः । स्वीयस्वीयमासमानयुगे मासास्तथाऽत्र च ॥ ४४८ ॥ अयनानि दश प्राहुर्ऋतवस्त्रिंशदाहिता: । षष्टिर्मासाः शतं विशं, पक्षाः सौरप्रमाणतः ॥ ४४९ ॥ चतुष्पञ्चाशत्सहस्राः, शतैर्नवभिरन्विताः । युगे मुहूर्ता निर्दिष्टः, शिष्टैर्विष्टपपूजितैः ॥ ४५० ॥ एकोनविंशतिसहस्राधिकं लक्षयोर्द्धयम् । आढकानां षट्शतानि, तौल्यमानं युगे जगुः ॥ ४५१ ॥ चतुष्पञ्चाशच्छतानि, भाराणां नवतिस्तथा । मेयरूपतया मानं, युगस्याहुर्मनीषिणः ॥ ४५२ ॥ चान्द्रं वर्ष युगस्यादिस्तस्यादिर्मास इष्यते । मासादिरसित: पक्षस्तस्यादिर्दिवसो भवेत् ॥ ४५३ ॥ तत्रापि भरतक्षेत्रे, क्षेत्रे चैरवताभिधे । युगस्यादिदिनस्यादौ विदेहेषु निशामुख्ने ॥ ४५४ ॥ यदाषाढपौर्णमासीरजन्याः समनतरम् । प्रवर्त्तते युगस्यादिर्भरतैरवताख्ययोः ॥ ४५५ ॥ पूर्वापरविदेहेषु, तदा च रजनीमुखम् । ततो निशामुखादेव, युगादिस्तत्र कीर्तितः ॥ ४५६ ॥ किंच-रुद्रादयो मुहूर्ताः स्युरहोरात्रा दिनादयः । उक्ता जिनेन्द्रर्भरतैरावताह्वयवर्षयोः ॥ ४५७ ॥ महाविदेहेषु पुनरहोरात्रा निशादयः । यतस्तत्र युगस्यादिनिशारंभात्प्रवर्त्तते ॥ ४५८ ॥
__तथोक्तं जंबूदीपप्रज्ञप्तिसूत्रे-'किमाइया णं भंते ! संवच्छरा ?, किमाइया अयणा, ? किमाइया उऊ ?, किमाइया मासा ?, किमाइया पक्खा ?, किमाइया अहोरता ?, किमाइया मुहूत्ता ?,
किमाइया करणा ?, किमाइया नक्खत्ता ? गोअमा ! चंदाइया संवच्छरा, दक्खिणाइया १ सूत्रमेतत् जम्बूद्धीपगतयोर्भरतैरावतयोः सूर्यचारं युगादि भाविनं तिथ्यादि चापेक्ष्य ज्ञेयम्, अन्ययुगस्य मध्ये वर्षप्रभृतेरादीनां वैचित्र्येऽनिष्टापत्तेः ।