________________
472
अभिवतिवर्षस्य, पञ्चमस्यादिमक्षणात् । स्याद्योऽनन्तरपाश्चात्यः, स तुर्यस्यान्तिमः क्षणः ॥ ४१३ ॥ आषाढाभिरुत्तराभिस्तदा योगोऽमृतयुतेः । तद्भुक्तशेषा एकोनचत्वारिंशन्मुहूर्त्तकाः ॥ ४१४ ॥ द्वाषष्टिभागाचत्वारिंशदेकस्याथ तस्य च । सप्तषष्टिभवा: सप्तचत्वारिंशत्किलांशकाः ॥ ४१५ ॥ पुनर्वसुभ्यां सूर्यस्य, तदा योग: प्रकीर्तितः । तद्भुक्तशेषा एकोनत्रिंशदेव मुहूर्त्तकाः ॥ ४१६ ॥ एकविंशतिरंशाच, मुहूर्त्तस्य द्विषष्टिजाः । तस्यैकस्य सप्तचत्वारिंशच्च चूर्णिकांशकाः ॥ ४१७ ॥ युगस्यान्यस्यादिमस्य, चन्द्राब्दस्यादिमक्षणात् । अनन्तरो यः पाश्चात्यः, पञ्चमाब्दस्य सोऽन्तिमः ॥ ४१८ ॥ आषाढाभिरुत्तराभिस्तदा योग: सितयुतेः । चरमे समये तासां, वर्तमानो भवेत्स हि ॥ ४१९ ॥ सूर्यस्य च तदा योगः, पुष्येण परिकीर्तितः । भुक्तशेषास्तदा तस्य, मुहूर्ता एकविंशतिः ॥ ४२० ॥ द्वाषष्टिजास्त्रयश्चत्वारिंशदंशास्तथोपरि । तस्यांशस्य त्रयस्त्रिंशद्धिभागाः सप्तषष्टिजाः ॥ ४२१ ॥ अत्र येऽर्कस्य नक्षत्रयोगे प्रोक्ता मुहूर्त्तकाः । ते भानुसत्का बोद्धव्या, विधोस्तु व्यावहारिकाः ॥ ४२२ ॥ आह चअहोरात्रस्य हि त्रिंशत्तमोशो व्यावहारिकः । मुहूर्त इति जानीम:, किंरूपोऽसौ रवेः पुन: ? ॥ ४२३ ॥ अत्रोच्यतेयत्संपूर्णमहोरात्रं, युज्यते भं हिमांशुना । तस्य योगोऽभवद्यावत्कालमुष्णांशुना सह ॥ ४२४ ॥ तस्य त्रिंशत्तमो भागो, यावान् जायेत निश्चित: । तावन्मानो मुहूत्तोऽत्र, ज्ञेयो विज्ञैर्विवस्वतः ॥ ४२५ ॥ स चायं-त्रयोदशमुहूर्तानि, मुहूर्त्तस्यैककस्य च । कृतद्धाषष्टिभागस्य, चतुर्विंशतिरंशकाः ॥ ४२६ ॥ दाषष्ट्यंशस्य चैकस्य, छिन्नस्य सप्तषष्टिधा । किञ्चित्समधिकाः सा स्त्रिपञ्चाशद्विभागकाः ॥ ४२७ ॥ तथाहि-स्यु दशमुहू ढ्या, अहोरात्रास्त्रयोदश । समक्षेत्राणामुडूनां, योगकालो विवस्वतः ॥ ४२८ ॥ त्रयोदशाहोरात्रा ये, मुहूर्तकरणाय ते । त्रिंशद्गुणीकृता जाता, नवत्याढ्या शतत्रयी ॥ ४२९ ॥ द्वादशानां मुहूर्तानां, शेषाणामत्र योजने । चतुःशती युत्तरा स्यात्रिंशता सा विभज्यते ॥ ४३० ॥ पूर्णास्त्रयोदश प्राप्ताः, शिष्यन्ते द्वादशाथ ते । द्वाषष्टिनाश्चतुश्चत्वारिंशा सप्तशती भवेत् ॥ ४३१ ॥ एतस्यास्त्रिंशता भागे, चतुर्विंशतिराप्यते । शेषा चतुर्विंशतिः सा, सप्तषष्ट्या हता भवेत् ॥ ४३२ ॥ अष्टाढ्या षोडशशती, त्रिंशताऽसौ विभज्यते । प्राप्ताः सार्द्धास्त्रिपञ्चाशत्किञ्चित्समधिका इति ॥ ४३३ ॥ इति सूर्यमुहूर्तप्रमाणानयनोपायः । तुल्यार्द्धसार्द्धक्षेत्रोडुषूक्तमाना मुहूर्त्तका: । त्रिंशत्पञ्चदश पञ्चचत्वारिंशत्स्युरुष्णगाः ॥ ४३४ ॥ तैश्च त्रयोदश दिनाः, सद्धादशमुहूर्त्तकाः । तथा स्युः षडहोरात्रा, मुहूर्ताकविंशतिः ॥ ४३५ ॥ अहोरात्रा विंशतिश्च, मुहूर्त्तत्रितयाधिकाः । क्रमात्रैधेषु भेष्वर्कभोगः स्याद्व्यावहारिकः ॥ ४३६ ॥