________________
471
यत्राल्पेनापि वर्षेण, धान्यं सम्यक् प्रजायते । सूर्यसंवत्सरं प्राहुस्तमतिप्रौढबुद्धयः ॥ ३९२ ॥ यत्रार्कतेजः संतप्ता, भवन्ति दिवसर्त्तवः । स्थलं निम्नाद्यम्बुपूर्णं तमाहुरभिवर्द्धितम् ॥ ३९३ ॥ इत्यर्थतो जंबूद्धीपप्रज्ञप्तिवृत्त्यादिषु ।
"
॥
४०२ ॥
पञ्चभिः खलु वर्षैश्च, युगं भवति तत्र च । आद्यं चन्द्राभिधं वर्षं, द्वितीयमपि तादृशम् ॥ ३९४ ॥ अभिवर्द्धितसंज्ञं च, तृतीयं वर्षमीरितम् । चतुर्थं चन्द्रसंज्ञं च पञ्चमं चाभिवर्द्धितम् ॥ ३९५ ॥ स्युर्मासाश्चन्द्रवर्षेषु, द्वादश द्वादश त्रिषु । अभिवर्द्धितवर्षे च द्वे त्रयोदशमासके ।। ३९६ ।। द्वितीयस्येन्दुवर्षस्य प्रथमः समयो हि य: । तदनन्तरपाश्चात्यः स्यादाद्यस्य क्षणोऽन्तिमः ॥ ३९७ ॥ आषाढाभिरुत्तराभिस्तदा योगो हिमद्युतेः । तासां तदानीं स्युर्भोग्याः, षड्विंशतिर्मुहूर्त्तकाः ॥ ३९८ ॥ षड्विंशतिर्मुहूर्त्तस्य, भागा द्वाषष्टिजास्तथा । द्वाषष्ट्यंशस्य चैकस्य, सप्तषष्ट्यंशशालिनः ॥ ३९९ ॥ चतुष्पञ्चाशद्धिभागा, इह द्वाषष्टिजो लवः । सप्तषष्टिप्रविभक्तभूर्णिकाभाग उच्यते ॥ ४०० ॥ पुनर्वसुभ्यां साकं च, तदा योगो रवेर्भवेत् । मुहूर्त्ताः षोडश तदा, तयोर्भोग्या भवन्ति हि ४०१ || अष्टौ द्वाषष्टिजा भागा, मुहूर्त्तस्य तथोपरि । एकस्य द्वाषष्ट्यंशस्य, विंशतिभूर्णिका लवाः ॥ तथोक्तं सूर्यप्रज्ञप्ती - 'जो णं दोच्चस्स संवच्छरस्स आई से णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छव्वीसं मुहुत्ता छवीसं च बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्टा छेत्ता चउपण्णं चुण्णिया भागा सेसा । तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुरस सोलस मुहुत्ता अठ्ठ य बावट्टि भागा मुहूत्तस्स, बावट्टिभागं च सत्ता छेत्तावीसं चुणिया भागा सेसा ” इति, एवं शेषेष्वपि सूत्रेषु सूत्रालापकपद्धतिर्बोद्धव्या' । योऽभिवर्द्धितवर्षस्य, तृतीयस्यादिमः क्षणः । तदनन्तरपाश्चात्यो, द्वितीयस्यान्तिमः क्षणः ॥ ४०३ ॥ तदा च पूर्वाषाढाभिस्सह योगो हिमद्युतेः । मुहूर्त्ताः सप्त भागाश्च, त्रिपञ्चाशद् द्विषष्टिजाः ॥ ४०४ ॥ द्वाषष्ट्यंशस्य चैकस्य, विभागाः सप्तषष्टिजाः । एकोनचत्वारिंशत्स्युस्तासां भोग्याः सितत्विषः || ४०५ ॥ पुनर्वसुभ्यां संयोगस्तदा स्यादुष्णरोचिषः । तन्मुहूर्तांशप्रत्यंशान्, भानुभोग्यानथ ब्रुवे ॥ ४०६ ॥ द्विचत्वारिंशन्मुहूर्त्ताः, पुनर्वस्वोस्तदा रवेः । पञ्चत्रिंशद्विषष्ट्यंशा, भोग्याः सप्त च चूर्णिका: ॥ ४०७ ॥ तुर्यस्य चन्द्रवर्षस्य य इह प्रथमः क्षणः । क्षणस्तृतीयस्यान्त्यः स्यात्तदनन्तरपश्चिमः ॥ ४०८ ॥ आषाढाभिश्चोत्तराभिस्तदा योगो हिमद्युतेः । भुक्तशेषास्तदार्नी स्युस्तन्मुहूर्त्तास्त्रयोदश ॥ ४०९ ॥ एकस्य च मुहूर्त्तस्य, द्वाषष्ट्यंशास्त्रयोदश । अंशस्य तादृशः सप्तविंशतिश्चूर्णिका लवाः ॥ ४१० ॥ पुनर्वसुभ्यां सूर्यस्य, तदा योगो निरूपितः । मुहूतौ द्वौ च तदद्भुक्तशेषौ भागास्तथोपरि ॥ ४११ ॥ षट्पञ्चाशद् द्विषष्ट्युत्था, भागस्यैकस्य तस्य च । सप्तषष्टिविभक्तस्य, षष्टिर्भागाः प्रकीर्त्तिताः ॥ ४१२ ॥