________________
470
सहस्राणि दश नव, शताः साशीतयः किल । एतन्मुहूर्तगणितं, सूर्यवर्षे जिनैः स्मृतम् ॥ ३६९ ॥ शतैरष्टाभिराढ्यानि सहस्राणि दश स्फुटम् । एतन्मुहूर्त्तगणितं कर्मसंवत्सरे भवेत् ॥ ३७० ॥ सहस्रा दश षट्शत्या, पञ्चविंशत्युपेतया । युक्ताः पञ्चाशदंशाश्च, मुहूर्त्तस्य द्विषष्टिजाः || ३७१ ॥ एतन्मुहूर्त्तगणितं, चन्द्रसंवत्सरे मतम् । अथ नक्षत्रवर्षस्य, मुहूर्त्तमानमुच्यते ॥ ३७२ ॥ सहस्रनवसंयुक्ता, द्वात्रिंशैरष्टभिः शतैः । षट्पञ्चाशन्मुहूर्त्तस्य भागाश्च सप्तषष्टिजाः ॥ ३७३ ॥ एकादश सहस्राणि पञ्च चैकादशा: शताः । अष्टादशमुहूर्त्तस्य, भागा द्वाषष्टिनिर्मिताः ॥ ३७४ ॥ मुहूर्त्तसंख्येत्युद्दिष्टा, बुधैर्वर्षेऽभिवर्द्धिते । त्रिंशद्गुणे स्वस्ववर्षे, त्वेषां स्यादुपपादनम् ॥ ३७५ ॥ सूर्यसंवत्सरस्तौल्यरूपेण यदि चिन्त्यते । तदा सहस्रं भाराणामष्टानवतिसंयुतम् ॥ ३७६ ॥ आढकानां त्रिचत्वारिंशत्सहस्राः शता नव । विंशत्युपेताः सूर्याब्दं, मेयरूपतया मतम् ।। ३७७ ।। द्वाषष्ट्याऽभ्यधिकं भारसहस्रं चन्द्रवत्सरे । द्वाषष्टिभागा भारस्य, षट्त्रिंशत्तौल्यमानतः ॥ ३७८ ॥ द्विचत्वारिंशत्सहस्राः, पञ्च च त्र्युत्तराः शता: । आढकानामाढकस्य, द्विषष्ट्यंशाश्चतुर्दश ।। ३७९ ॥ एतन्मेयतया मानं, चन्द्रसंवत्सरे भवेत् । ब्रूमो नक्षत्रवर्षस्य, तौल्यमाने यथाक्रमम् ॥ ३८० ॥ शतानि नव भाराणां त्र्यशीत्याऽभ्यधिकानि च । एकोनविंशतिर्भागा, भारस्य सप्तषष्टिजाः ॥ ३८१ ॥ इति नक्षत्रवर्षे तौल्यमानं । त्रयोदशसहस्रास्त्रिरेकत्रिंशं शतत्रयम् । त्रयोविंशतिरंशाश्चाढकानां सप्तषष्टिजाः ॥ ३८२ ॥ इति नक्षत्रवर्षे मेयमानं ।
एकपञ्चाशानि भारशतान्येकादशाष्ट च । द्वाषष्टिभागा भारस्य, तौल्यं वर्षेऽभिवर्द्धिते ॥ ३८३ ॥ पञ्चचत्वारिंशदाढ्या, आढकानां सहस्रकाः । षट्चत्वारिंशदंशाश्च मानं द्वाषष्टिजा दश ॥ ३८४ ॥ पञ्चलक्षणभेदेनाप्युक्ताः संवत्सरा युगे । नक्षत्रचन्द्र कर्मोष्णकराभिवर्द्धिताह्वयाः ।। ३८५ ॥ तथाहि
नक्षत्राणि यथायोगं, स्वस्वमासानुसारतः । भवन्ति यत्र राकायां, कार्त्तिके कृत्तिका यथा ॥ ३८६ ॥ तथोक्तं- 'जेठ्ठो वच्चइ मूलेण, सावणो धणिठ्ठाहिं । अद्दासु अ मग्गसिरो, सेसा नक्खत्तनामिया मासा' ॥ ऋतवोऽपि यथायोगं, प्रवर्त्तन्ते महीतले । स्थितिं बध्नाति हेमन्तः, कार्त्तिक्याः परतो यथा ।। ३८७ ॥ भवेत्संवत्सरो यश्च, नात्युष्णो नातिशीतलः । बहूदकश्च नक्षत्रसंवत्सरमुशन्ति तम् ॥ ३८८ ॥ माससदृशनामानि, यत्र ऋक्षाणि पूर्णिमा: । समापयन्ति यः शीतातपरोगादिदारुणः ॥ ३८९ ॥ बहूदकश्च तं प्राहुश्चन्द्रसंवत्सरं बुधाः । कर्मसंवत्सरस्येदं विज्ञेयमथ लक्षणम् ॥ ३९० ॥ दधत्यकाले तरवस्तत्र पुष्पफलादिकम् । सम्यग् यच्छति नाम्भोदो, मितम्पच इवोदकम् ॥ ३९१ ॥