________________
469
वर्षे द्वादश मासा: स्युरित्यस्येयं मितिर्मता । वर्द्धते तु विधोर्मास, एव वर्षेऽभिवद्धिते ॥ ३५२ ॥ एतन्निष्पत्तिश्चैवंपरस्परं यो विश्लेषो, भवेत्सूर्येन्दुमासयोः । स त्रिंशद्गुणित: ख्यातोऽधिमासस्तत्त्ववेदिभिः ॥ ३५३ ॥ सार्द्धत्रिंशदहोरात्रा, भवेन्मासो विवस्वतः । एकोनत्रिंशदिंदोस्ते, द्वाषष्ट्यंशा रदैर्मिताः ॥ ३५४ ॥ विश्लेषश्चानयोरेकोऽहोरात्रः परिकीर्तितः । द्वाषष्टिभागेनैकेन, न्यूनस्तत्रेति भावना ॥ ३५५ ॥
इह चंद्रमासे दिनराशेरुपरि ये द्वात्रिंशवाषष्टिभागाः सन्ति, तत्र एकत्रिंशता द्वाषष्टिभागैर्दिनार्धं जातं, तेन च सूर्यमासे यद्दिनराशेरूपरितनं दिनार्धं तच्छुद्धं, अथैको द्वाषष्टिभाग एकोनत्रिंशच्च दिनानि सूर्यमाससंबंधिभ्यस्त्रिंशतो दिनेभ्य: शोध्यन्ते, तदा एकद्धाष्टिभागन्यून
एकोऽहोरात्र: स्थित इत्येष विश्लेषो ज्ञेयः, त्रिंशद्भवन्त्यहोरात्रा, एकस्मिस्त्रिंशता हते । द्वाषष्टिभागश्चैकोऽस्मात्रिंशद्गुणोऽपसार्यते ॥ ३५६ ॥ एकोनविंशदित्येवं, दिनान्यंशा रदैर्मिताः । मासोऽधिकोऽयं स्यात्रिंशत्सूर्यमासव्यतिक्रमे ॥ ३५७ ॥ युगस्य मध्ये पौषोऽयमन्ते त्वाषाढ एव च । तृतीयपञ्चमे वर्षे, तत एवाभिवर्धते ॥ ३५८ ॥ एते पञ्चापि मासानां, भेदा द्वादशभिर्हताः । भवन्ति स्वस्ववर्षाणि, तन्मानं प्राग्निरूपितं ॥ ३५९ ॥
- एतेषां पञ्चानां मासानां प्रयोजनं त्वेवं-जीवे सिंहस्थे धन्वमीनस्थितेऽर्के । विष्णौ निद्राणे चाधिमासे न लग्नं । इत्यादि सूर्यमासाधिमासयोः प्रयोजनं, ऋतुमासश्च पूर्णत्रिंशदहोरात्रात्मक इति निरंशतया लोकव्यवहारकारक इति, शेषास्तु सूर्यादयो मासा: सांशतया प्रायो न व्यवहारपथमवतरन्तीति । अत एवायमृतुमासः कर्ममास इत्यपि शास्त्रान्तरेऽभिधीयत इति
ऋतुमासप्रयोजनम् । वैशाख्ने श्रावणे मार्ग, पौषे फाल्गुन एव च । कुर्वीत वास्तुप्रारंभं, न तु शेषेषु सप्तसु ॥ ३६० ॥
इति चन्द्रमासप्रयोजनं । नक्षत्रमासप्रयोजनं तु संप्रदायगम्यं, इत्याद्यर्थतो जंबूदीपप्रज्ञप्तिवृत्तौ । सषट्षष्टित्र्यहोरात्रशतात्मकमुदीरितम् । यदब्दिं तत्र काचिदुपपत्तिनिरूप्यते ॥ ३६१ ॥ नक्षत्रक्षेत्रभागा ये, प्रागत्र प्रतिपादिताः । तेषां सार्द्ध शतं भानुरहोरात्रेण गच्छति ॥ ३६२ ॥ ततः शतेन सार्द्धन, भागहारे कृते सति । नक्षत्रक्षेत्रभागानां, सूर्यभोगाहनिर्णयः ॥ ३६३ ॥ दिनपञ्चमभागाढ्यमहोरात्रचतुष्ट्यम् । मुहूर्तस्य च षष्ठोऽशोऽभिजिद्भोगो विवस्वतः ॥ ३६४ ॥ अपार्द्धक्षेत्रभानां च, भोगमानं पृथक् पृथक् । अहोरात्राः षट् दशांशा, अहोरात्रस्य सप्त च ॥ ३६५ ॥ समक्षेत्राणां च भानामहोरात्रास्त्रयोदश । भक्तस्य पञ्चभिरहोरात्रस्यांशद्धयं तथा ॥ ३६६ ॥ सार्द्धक्षेत्राणां च भानां, भोगः प्रत्येकमुष्णगोः । स्यादिशतिरहोरात्रास्तद्दशांशस्तथैककः ॥ ३६७ ॥ अहोरात्रात्मको भागात्मकश्च निखिलोऽप्ययम् । काल: संकलितो भानोर्हायनं स्याद्यथोदितम् ॥ ३६८ ॥