SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 468 द्वाषष्ट्यैषां हृते भागे, विधुमासो यथोदितः । एकन्यूनत्रिंशदहोरात्रा द्वात्रिंशदंशकाः ॥ ३३० ॥ कृष्णपक्षप्रतिपब:, प्रारभ्य पूर्णिमावधि । ऋतुमासो भवेत्त्रिंशदहोरात्रात्मकः स्फुटम् ॥ ३३१॥ सूर्यमासस्योपपत्तिरथ किञ्चिन्निगद्यते । भान्यष्टाविंशतिर्मेषादयोद्वादश राशयः ।। ३३२ ।। चतुष्पञ्चाशत्सहस्रान्, शतैर्नवभिरन्वितान् । प्रानिरूपितनक्षत्रभागान् द्वादशभिर्भजेत् ॥ ३३३ ॥ सपञ्चसप्ततिपञ्चचत्वारिंशच्छती ततः । प्राप्ता नक्षत्रभागानां राशिमानं तदेव हि ॥ ३३४ ॥ सार्द्धत्रिंशदहोरात्रभोग्योऽयं राशिरिष्यते । अयमेवार्कमासः, स्याद्यः संक्रांतिरितीर्यते ॥ ३३५ ॥ पञ्च पञ्चैव ऋक्षांशान्, मुहूर्त्तेन पुरोदितान् । अहोरात्रेण चाध्यर्द्ध, शतं भुङ्क्ते दिनेश्वरः ॥ ३३६ ॥ एवं च त्रिंशता साद्धैरहोरात्रैर्भुनक्त्यसौ । पञ्चचत्वारिंशदंशशतान् सपञ्चसप्ततीन् ॥ ३३७ ॥ प्रत्ययश्चात्र—एकाहोरात्रभोग्येन, सार्द्धनांशशतेन चेत् । पञ्चसप्ततियुक्पञ्चचत्वारिंशच्छतात्मकः ॥ ३३८ ॥ राशिर्विभज्यते त्रिंशदहो रात्री तदाप्यते । पञ्चसप्तत्याथ भाज्यभाजकावपवर्त्तयेत् ॥ ३३९ ।। ततो लब्धमहोरात्रस्यार्द्धमेवं च दर्शिता । भावना सूर्यमासे सा, प्रोच्यतेऽथाधिमासके ॥ ३४० ॥ यस्मिन्नेदे विधोर्मासास्त्रयोदश भवन्ति तत् । अभिवर्द्धितवर्षं स्यात्तस्मिन् द्वादशभिर्हते ॥ ३४१ ॥ एकत्रिंशदहोरात्रा, लभ्या मासेऽभिवर्द्धिते । चतुर्विंशशतच्छिन्नाश्चैकविंशं शतं लवाः ॥ ३४२ ॥ तथाहि त्रयोदशसु शीतांशुमासेष्वह्नां शतत्रयं । त्र्यशीतियुक्चतुश्चत्वारिंशच्चांशा द्विषष्टिजाः ॥ ३४३ ॥ वैसादृश्यादहोरात्राङ्केष्वंशाङ्को न संमिलेत् । अंशच्छेदेन तदहोरात्रान् हत्वा सवर्णयेत् ॥ ३४४ ॥ ततश्च-द्वाषष्ट्यहोरात्रराशावंशच्छेदेन ताडिते । चतुश्चत्वारिंशदंशयुक्ते चांशा भवन्त्यमी ॥ ३४५ ॥ त्रयोविंशतिरंशानां, सहस्राः सप्तशत्यपि । नवतिश्चाहोरात्रस्य द्विषष्टिच्छेदशालिनः ॥ ३४६ ॥ एषां द्वादशभिर्भागे, मासः स्यादभिवर्धितः । विधिर्भिन्नभागहारे, लीलावत्यामिति श्रुतः ॥ ३४७ ॥ छेदं लवं च परिवर्त्य हरस्य शेषः, कार्योऽथ भागहरणे गुणनाविधिश्च । भाज्यभाजकस्थापना २३७९० + ६२ - १२ x १ छेदं लवं च परिवर्त्य स्थापना २३७९० x ६२ - १ x १२ भिन्नगुणनविधिश्चायं—अंशाहतिश्छेदवधेन भक्ता, लब्धं विभिन्ने गुणने फलं स्यात् ॥ इत्यादि ॥ द्वाषष्टिर्द्वादशघ्नाः स्युरेवं सप्तशतास्तथा चतुश्चत्वारिंशदाढ्या, अथैतौ भाज्यभाजकौ ॥ ३४८ ॥ षड्भिरेवापवर्त्यन्ते, पञ्चषष्टियुतास्ततः । शता एकोनचत्वारिंशदंशानां भवन्ति वै ॥ ३४९ ॥ चतुश्चत्वारिंशदाढ्यसप्तशत्यात्मकस्तथा । छेदोऽपवर्त्तित: षड्भिश्चतुर्विंशं शतं भवेत् ॥ ३५० ॥ अपवर्त्तितभाज्यभाजकस्थापना ३९६५ x १२४. राशौ विभक्तेऽस्मिन् छेदेनामुना स्याद्यथोदितः । मासोऽभिवर्द्धिताब्दस्य, द्वादशांशात्मकः खलु ॥ ३५१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy