SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ 467 एकोनत्रिंशता चाहोरात्रैर्मासोऽमृतद्युतेः । द्विषष्टिजैरहोरात्रभागैात्रिंशताऽधिकैः ॥ ३०५ ॥ नक्षत्रमासोऽहोरात्राः, सप्तविंशतिरन्विताः । अहोरात्रलवैरेकविंशत्या सप्तषष्टिजैः ॥ ३०६ ॥ एकत्रिंशदहोरात्राश्चैकविंशं शतं लवाः । चतुर्विंशतिविच्छिन्नाहोरात्रस्याभिवर्द्धिते ॥ ३०७ ॥ एषामुपपत्तिस्त्वेवंभरणीशततारार्दाश्लेषास्वातिमहेन्द्रभम् । एतान्यपार्द्धक्षेत्राणि, नक्षत्राणि जगुर्जिनाः ॥ ३०८ ॥ पुनर्वसू विशाखा च, रोहिणी चोत्तरात्रयम् । सार्द्धक्षेत्राण्यमून्याहुनक्षत्राणि जिनेश्वराः ॥ ३०९ ॥ भानि पञ्चदशान्यानि, तुल्यक्षेत्राण्यथाभिजित् । एभ्यो विसदृशं भागास्त्रिंशदाढ्यास्य षट्शती ॥ ३१० ॥ अर्द्धक्षेत्राणां च भाना, क्षेत्रविष्कम्भ ईरितः । अंशाः सहस्रं पञ्चाढ्यं, प्रत्येकं तत्त्ववेदिभिः ॥ ३११ ॥ सार्द्धक्षेत्राणां सहस्रास्त्रयः पञ्चदशाधिका: । तुल्यक्षेत्राणां च भागा, रे सहस्रे दशाधिके ॥ ३१२ ॥ क्षेत्रविष्कम्भ इत्येषां, भानां संकलितोऽखिलः । चतुष्पञ्चाशदंशानां, सहस्राश्च शता नव ॥ ३१३ ॥ सप्तषष्टि चैषु भागान्, मुहर्तेन शशी व्रजेत् । अहोरात्रेण चैकेन, रे सहस्र दशाधिके ॥ ३१४ ॥ सप्तषष्ट्या तत: स्वस्वभागराशौ हृते भवेत् । मुहूर्त्तमानमृक्षाणां, तच्चैवं स्पष्टमुच्यते ॥ ३१५ ॥ चन्द्रस्याभिजिता योगे, मुहूर्त्ता नव कीर्तिताः । सप्तषष्टिभुवोऽशाश्च, मौहूर्ताः सप्तविंशतिः ॥ ३१६ ॥ तुल्यक्षेत्रेषु च त्रिंशन्मुहूर्ता भेषु कीर्तिताः । पञ्चचत्वारिंशदेते, सार्धक्षेत्रेषु भेषु च ॥ ३१७ ॥ एकाहोरात्रभोक्तव्यऋक्षक्षेत्रांशराशिना । सर्वांशराशिभागे, मासः पूर्यत शीतगोः ॥ ३१८ ॥ तथाहिचतुःपञ्चाशत्सहस्राः, शतैर्नवभिरन्विताः । भागहारेण भक्तव्या, द्विसहख्या दशाढ्यया ॥ ३१९ ॥ सप्तविंशतिराप्यतेऽहोरात्रास्त्रिंशता पुनः । शेषभाज्यभाजकयो, राश्योः कार्याऽपवर्त्तना ॥ ३२० ॥ सप्तषष्टिभवा भागास्ततोऽमी एकविंशतिः । अहोरात्रस्य संपन्नास्तेऽधिका: सप्तविंशतौ ॥ ३२१ ॥ एवं नक्षत्रमासस्योपपत्तिरिह वर्णिता । चन्द्रमासस्योपपत्तिमथ वक्ष्ये यथागमम् ॥ ३२२ ॥ त्रिंशता तिथिभिः प्रोक्तश्चन्द्रमासो जिनेश्वरैः । भवंति तिथयश्चेन्दोः, कलावृद्धिक्षयोद्भवाः ॥ ३२३ ॥ कला: कुर्यात् षोडशेंदोस्तत्र चैका कला भवेत् । दाषष्टिभागीकृतेन्दुविभागद्वितयात्मिका ॥ ३२४ ॥ अन्याः पुनस्ता द्वाषष्टिभागीकृतसितत्विषः । भागचतुष्टयरूपाः, स्युः पञ्चदशसंमिताः ॥ ३२५ ॥ तत्राद्यांशद्धयरूपा, सदैव स्यादनावृता । आब्रियन्ते च मुच्यन्ते, राहुणान्या: कला मुहुः ॥ ३२६ ॥ कालश्चैककलाया: स्यात्पिधाने वा प्रकाशने । एकषष्टिरहोरात्रस्यांशा द्वाषष्टिकल्पिताः ॥ ३२७ ॥ पिधीयमानचंद्रांशास्तिथयः कृष्णपक्षजा: । प्रकाशमानचंद्रांशास्तिथयः शुक्लपक्षजा: ॥ ३२८ ॥ यथोक्तस्तिथिकालोऽसौ, त्रिंशता गुणितो भवेत् । अष्टादशशतास्त्रिंशा, द्वाषष्टिप्रभवा लवाः ॥ ३२९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy