SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ 463 एता मुहूर्त एकस्मिन्नुक्ता आवलिका जिनैः । एकक्षुल्लभवे चैताः, षट्पञ्चाशा शतद्धयी ॥ २१५ ॥ क्षुल्लभवावलिकाभिर्मुहूर्तावलिका यदि । विभज्यन्ते तदा लभ्या, मौहूर्ताः क्षुल्लका भवाः ॥ २१६ ॥ अथ प्रकृतंप्राणाश्चैकमुहूर्ते स्युः, सप्तत्रिंशच्छतानि वै । त्रिसप्तत्या संयुतानि, राशिरेष विभाजकः ॥ २१७ ॥ मौहूर्त्तक्षुल्लकभवराशिरेतेन भज्यते । तदाप्यन्ते सप्तदश, प्राणस्य क्षुल्लका भवाः ॥ २१८ ॥ त्रयोदशशताः पञ्चनवत्या च समन्विता: । अंशा उपरि शिष्यन्ते, भवस्याष्टादशस्य वै ॥ २१९ ॥ अष्टसप्ततिसंयुक्ताश्चेत्त्रयोविंशतिः शता: । क्षिप्यन्तेऽशा एषु पूर्णः, स्यात्तदाष्टादशो भव: ॥ २२० ॥ अथो कियत्य आवल्यः, स्युस्त्रयोदशभिः शतैः । भागैः पञ्चनवत्याढ्यैः, शेषैस्तदपि कथ्यते ॥ २२१ ॥ शतास्त्रयोदशांशानां, ये पञ्चनवतिस्पृशः । षट्पञ्चाशद् द्विशत्या ते, हन्तव्याः कर्तुमावली: ॥ २२२ ॥ शेषाङ्काः क्षुल्लकभवसत्का एते हि सन्त्यत: । क्षुल्लभवावलिकाभिर्भवन्त्यावलयो हताः ॥ २२३ ॥ जाताश्चावलिकास्तेषां, घाते लक्षत्रयं तथा । सप्तपञ्चाशत्सहस्राः, शतं विंशतिसंयुतम् ॥ २२४ ॥ त्रिसप्ततिसमायुक्तसप्तत्रिंशच्छतात्मना । प्रागुक्तभाजकेनास्य, राशेर्विभजने सति ॥ २२५ ॥ चतुर्नवतिरावल्यो, लभ्यतेऽशा: पुन: स्थिताः । चतुर्विंशतिरेवाष्टपञ्चाशदधिकाः शता: ॥ २२६ ॥ एवं च क्षुल्लकभवाः, प्राणे सप्तदशैकके । चतुर्नवतिरावल्य, आवल्या अंशकाः पुनः ॥ २२७ ॥ त्रिसप्तत्या युतैः सप्तत्रिंशता विकलैः शतैः । छिन्नाया अष्टपञ्चाशाः, स्युश्चतुर्विंशतिः शता: ॥ २२८ ॥ इति क्षुल्लकभवप्रकरणम् । क्षुल्लकभवप्रयोजनं चैवंआयुःक्षुल्लभवमितमौदारिकवपु ताम् । जघन्यतो विनिर्दिष्टं, पञ्चमाङ्गे जिनेश्वरैः ॥ २२९ ॥ कर्मप्रकृत्यादिष्वपि औदारिकशरीराणां तिर्यग्मनुष्याणामायुषो जघन्यस्थितिः क्षुल्लकभवग्रहणरूपा प्रतिपादिता, यत्पुनरावश्यकटीकायां क्षुल्लकभवग्रहणं वनस्पतिष्वेव प्राप्यते इत्युक्तं तन्मतान्तरमित्यवसीयते, इति कर्मग्रन्थवृत्तौ । एकप्राणे चावलीनां, षट्चत्वारिंशदन्विताः । शता: प्रोक्ताश्चतुश्चत्वारिंशदंशाश्च पूर्ववत् ॥ २३० ॥ तच्चैवंएकक्षुल्लभवसत्कावलीभिः परिताडयेत् । प्राणालभवांस्तेषु, शेषा आवलिकाः क्षिपेत् ॥ २३१ ॥ एवं चासंख्यसमयैरावली ताभिस्त्र यत् । संख्येयाभिः प्राण उक्तस्तत्सर्वं विशदीकृतम् ॥ २३२ ॥ नन्वावलिकादीनां यदसंख्यक्षणरूपता । प्रोक्ता तत्प्रोच्छलभेकैोकलिञ्जस्य पूरणम् ॥ २३३ ॥ यत: पूर्वस्य सद्भावेनोद्भवेदुत्तरः क्षणः । नश्यत्यवश्यमाद्यश्च, द्वितीये जनिमीयुषि ॥ २३४ ॥ १ आवश्यके कर्मणामुत्कृष्टमध्यमजघन्यस्थितिषु संबन्धे विचार्यमाणे तत्रैतन्नियमादेतदुक्तं, यद्धा तस्यापि लघुतमो भेदस्तत्रैव स्यादिति । उपलक्षणं वा तत् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy