________________
464
समुच्चयादिको धर्मः, पुद्गलानां हि संभवेत् । विमात्रस्निग्धरूक्षाणां, कालस्य तु न जातुचित् ॥ २३५ ॥ अत्रोच्यते-प्ररूपयितुकामेन, कालमावलिकादिकं । प्रज्ञापकेन यावन्तः, क्षणा धीगोचरीकृताः ॥ २३६ ॥ विनष्टा अपि तावन्तः, समुच्चिततयाखिला: । उपचर्यन्त इत्येवमावल्यादिनिरूपणा ॥ २३७ ॥ अत एवोपचस्तिः, सर्वोऽप्यावलिकादिकः । कालो न वास्तवः किंतु, समय: खलु वास्तव: ॥ २३८ ॥ प्राणैः स्यात्सप्तभिः स्तोकः, स्तोकैश्च सप्तभिर्लव: । साढेरष्टात्रिंशता च, लवैर्भवति नालिका ॥ २३९ ॥ भङ्ग्यन्तरेणाथ मानं, नाडिकाया निरूप्यते । श्रूयतां तत्सावधानरुक्तं ज्योतिष्करण्डके ॥ २४० ॥ नालिका नाम घटिका, कार्या लोहमयी च सा । दाडिमीकुसुमाकारा, सत्तला वर्तुलाकृतिः ॥ २४१ ॥ केशास्त्रिवर्षजाताया:, करिण्या: पुच्छमूलजा: । ऋजुकृताः षण्णवतिमीलिताश्च परस्परम् ॥ २४२ ॥ विशन्ति यादृशे छिद्रे, तिष्ठन्ति च निरन्तराः । छिद्रं कार्यं तादृगस्या, नालिकाया अधस्तले ॥ २४३ ॥ यद्धा द्विवर्षजाताया:, करिण्याः पुच्छमूलजा: । वाला: षण्णवति: प्राप्ता, द्वैगुण्यं मान्ति यादृशे ॥ २४४ ॥ यदा-चतुःस्वर्णमाषजाता, शलाका चतुरङ्गला । यादृशे विशति छिद्रे, कर्त्तव्यं तादृशं तकत् ॥ २४५॥ अर्थतस्यां जलं धार्य, तौल्यमेयप्रमाणत: । तत: प्रसङ्गतो ब्रूमः, स्वरूपं तौल्यमेययोः ॥ २४६ ॥ तृणस्य मधुराख्यस्य, चतुर्भिस्तण्डुलैर्भवेत् । तौल्यतः सर्षप: श्वेतस्तैश्च षोडशभिः समम् ॥ २४७ ॥ धान्यमाषफलं ताभ्यां, दाभ्यां गुञ्जाफलं भवेत् । दाभ्यां गुञ्जाभ्यां च, कर्षमाष: षोडशभिश्च तैः ॥ २४८ ॥ धरणापरपर्यायं, मानं गद्याणकाभिधम् । गद्याणकाभ्यां सार्द्धाभ्यां, कर्षः सुवर्णसंज्ञकः ॥ २४९ ॥ चतुःकर्ष पलं साढैः, प्रस्थो द्वादशभिश्च तैः । तुला पलशतेनासां, विंशत्या भार ईरितः ॥ २५०॥
__ इति ज्योतिष्करण्डवृत्त्यभिप्रायः, लोके तु-तुल्या यवाभ्यां कथितात्र गुञ्जा, वल्लस्त्रिगुञ्जो धरणं च तेऽष्टौ । गद्याणकस्तद्वयमिंद्रतुल्यैर्वल्लैस्तथैको घटकः प्रदिष्टः । दशार्द्धगुञ्ज प्रवदन्ति माषं, माषाहयैः षोडशभिश्च कर्षम् । कषैश्चतुर्भिश्च पलं तुलाज्ञाः, कर्ष सुवर्णस्य सुवर्णसंज्ञम् । पादोनगंद्याणकतुल्यटकेदिसप्तसंख्यैः कथितोऽत्रसेरः । मणाभिधानः खयुगैश्च सेरैर्धान्यादितौल्येषु तुरुष्कसंज्ञा ॥ इति
लीलावत्यां ॥ [श्लोक - ३ - ४] तौल्यप्रमाणमित्युक्तं, पूर्वाचार्यप्रदर्शितम् । अथ स्वरूपं मानं च, तुलाया: किञ्चिदुच्यते ॥ २५१ ॥ पञ्चत्रिंशल्लोहपलमयी वृत्ता घना भृशम् । दासप्ततिं चाङ्गलानि, दीर्घा लोहतुला भवेत् ॥ २५२ ॥ तस्याः पञ्चपलमितं, धरणं रचयेद्बुधः । येन धृत्वा तौल्यते तद्धरणं परिकीर्तितम् ॥ २५३ ॥ तस्यां चाथ धरणके, योजिते सति सा तुला । ध्रियमाणा यत्र देशे, समा स्यात्पार्श्वयोर्द्धयोः ॥ २५४ ॥ तत्र प्रदेशे समताज्ञानाय परिकल्पयेत् । रेखामेकां ततश्चान्यां, रेखाणां पञ्चविंशतिं ॥ २५५ ॥ २ उपलक्षणं, तेन जीवप्रदेशादीनां समुच्चयेऽपि न क्षतिः । तत्त्वतस्तु एककालवत्तित्वे सति परस्परं संबंधभाक्त्वं, तच्च न काले ।