________________
462
इति जंबूद्वीपप्रज्ञप्तिवृत्त्याद्यभिप्रायः । योगशास्त्राद्यप्रकाशवृत्तौ तु — लोकाकाशप्रदेशस्था, भिन्नाः कालाणवस्तु ये । भावानां परिवर्त्ताय, मुख्यः कालः स उच्यते ॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकं । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ इत्युक्तमिति ज्ञेयं ।
एतदनुसारेण च समयक्षेत्राद्वहिरपि कालस्वीकारो मुख्यतया संपन्नः, तत्त्वं पुनः सर्वज्ञवेद्यमिति । संख्येयश्चाप्यसंख्येयोऽनन्तश्चेत्यथवा त्रिधा । शीर्षप्रहेलिकान्तः स्यात्तत्राद्यः समयादिकः ॥ १९४ ॥ असंख्येयः पुनः कालः, ख्यातः पल्योपमादिकः । अनन्तः पुद्रलपरावर्त्तादिः परिकीर्त्तितः ।। १९५ ।। तत्र कालविशेषो यः, सूक्ष्मत्वाद्योगिनापि नो । विभक्तुं शक्यते सैष, समयः समये श्रुतः ।। १९६ ।। जीर्णे पटे भिद्यमाने, तरुणेन बलीयसा । कालेन यावता तन्तुस्त्रुट्यत्येको जरातुरः ॥ १९७ ॥ असंख्येयतमो भागो, यः स्यात्कालस्य तावतः । समये समय: सैष कथितस्तत्त्ववेदिभिः ।। १९८ ।। तस्मिंस्तन्तौ यदेकस्मिन्, पक्ष्माणि स्युरनेकशः । प्रतिपक्ष्म च संघाताः, क्षणाच्छेद्या असंख्यश: ।। १९९ ।। तेषां क्रमाच्छेदनेषु, भवन्ति समयाः पृथक् । असंख्यैः समयैस्तत्स्यात्तन्तोरेकस्य भेदनम् ॥ २०० ॥ एवं पत्रशतोद्धेधे, चक्षुरुन्मेष एव च । भाव्याश्चप्पुट्टिकायां चासंख्येयाः समया बुधैः ॥ २०१ ॥ तं स्वरूपेण जानन्तोऽप्यर्हन्तोऽत्यन्तसौक्ष्म्यतः । शृङ्गग्राहिकयान्येभ्यो, निर्देष्टुं शक्नुवन्ति न ॥ २०२ ॥ निर्देशो हि भवेत्तत्तद्वचोव्यापारपूर्वकः । व्यापारो वचसां चैषोऽसंख्येयैः समयैर्भवेत् ॥ २०३॥ यावत्समय इत्येषोच्चार्यतेऽक्षरसंततिः । असंख्याः समयास्तावदतिक्रामन्त्यनेकशः ॥ २०४॥ जघन्ययुक्तासंख्यातमितैः स्यादावली क्षणैः । संख्येयाभिश्चावलीभिः, प्राणो भवति निश्चितम् ॥ २०५ ॥ नीरोगस्यानुपहतकरणस्य बलीयस: । प्रशस्ते यौवने वर्त्तमानस्याऽव्याकुलस्य च ॥ २०६ ॥ अप्राप्तस्याध्वनः खेदमाश्रितस्य सुखासनम् । स्याद्यदुच्छ्वासनिःश्वासमानं प्राणः स कीर्त्तितः ॥ २०७ ॥ तत्र च-उच्छ्वास ऊर्ध्वगमनस्वभावः परिकीर्त्तितः । अधोगमनशीलश्च, निःश्वास इति कीर्त्तितः ॥ २०८ ॥ संख्येयावलिकामानौ, प्रत्येकं तावुभावपि । द्वाभ्यां समुदिताभ्यां स्यात्कालः प्राण इति श्रुतः ॥ २०९ ॥ रोगार्त्तादेश्च निःश्वासोच्छ्वासावनियताविति । उक्तं पुंसोऽरोगतादिविशेषणकदम्बकम् ॥ २१० ॥ भवति क्षुल्लकभवा, एकप्राणे यथोदिते । सातिरेकाः सप्तदश, श्रूयतां तत्रं भावना ॥ २११ ॥ मुहूर्ते क्षुल्लकभवा, एकस्मिन् परिकीर्तिताः । पञ्चषष्टिः सहस्राणि षट्त्रिंशा पञ्चशत्यपि ॥ २१२ ॥ अत्र कः प्रत्यय इति, यदि शुश्रूषति भवान् । तदा तदपि निश्चित्य, श्रूयतां प्रतिपाद्यते ॥ २१३ ॥ एका कोटी सप्तषष्टिर्लक्षाण्यथ सहस्रकाः । स्युः सप्तसप्ततिर्युक्ता, द्विशत्या षोडशाढ्यया ॥ २१४ ॥ १ दिगम्बरानुवादोऽयं, यद्वा अणवः अंशाः, समयश्चांशरुप एव तेन च प्रतिपर्यायं वर्त्तनभेदेन समयभेदः, लोकशब्देन वा नृलोकोऽत्र ग्राह्यः तेन समग्रनृलोकव्यापिता तस्योक्ता स्यात् ।