________________
461
१७५ ।।
१७६ ॥
यादृशाध्यवसायेन, बद्धं यत्कर्म यादृशम् । तद्भोक्तव्यं तथा नैवं कृतनाशाकृतागमौ ॥ १७१ ॥ क्षेत्रे तुल्येऽपि गन्तव्ये, बहूनां योजनादिके । गतिपाटवभेदेन, कालभेदो यथेक्ष्यते ।। १७२ ।। तुल्येऽपि शास्त्रेऽध्येतव्ये, बहूनां ग्रन्थमानतः । बुद्धिपाटवभेदेन, कालभेदो यथेक्ष्यते ॥ १७३ ।। तुल्येऽपि रोगे भैषज्यपथ्यादितारतम्यतः । निवृत्तिकालो रोगस्य, बहूनां बहुधा यथा ॥ १७४ ॥ समानस्थितिकेऽनेकैर्बद्धे कर्मणि देहिभिः । परिणामविशेषेण, भोगकालस्तथा पृथक् ॥ पिण्डीभूतः पटः क्लिन्नश्चिरकालेन शुष्यति । प्रसारितः स एवाशु तथा कर्माप्युपक्रमैः ॥ विनाऽपवर्त्तनां लक्षादिको राशिर्विभज्यते । चिरेणापवर्त्तितस्तु, क्षिप्रं कर्मापि तत्तथा ॥ द्वेधोपक्रमकालोऽयं, सप्रसङ्गः प्ररूपितः । देशकालाभिधं कालमथ ब्रूमो यथागमम् ॥ कार्यस्यार्यस्य वान्यस्य, यो यस्यावसरः स्फुट: । स तस्य देशकालः स्याद्, द्विधाप्येष निरूप्यते ॥ १७९ ॥ अन्नपाकक्रियोद्भूतधूमानां प्रशमं पुरे । पानीयहारिणीशून्यं दृष्ट्वा वाप्यवटादिकम् ॥ १८० ॥ काकांश्चापततो दृष्ट्वा, गृहेषु गृहमेधिनाम् । साधुना लक्ष्यते भिक्षावसरोऽतिसमीपगः ॥ १८१ ॥ तथाहुर्भाष्यकारा :- [ विशेषावश्यक श्लो. ७२७]
१७७ ॥
१७८ ॥
निमगं च गामं, महिलासुन्नं च सुणयं ( कूवयं) दद्धुं । नियं च काया ओलेति जाया भिक्खस्स हरहरा ॥ आमोदिमोदकाकीर्णं, शून्यं कान्दविकापणम् । मत्तां गृहाणे सुप्तां तथा प्रोषितभर्त्तृकाम् ॥ १८२ ॥ निर्मक्षिकं मधु स्वच्छं, पश्यतां प्रकटं निधिम् । तत्तत्पदार्थग्रहण, देशकालस्तदर्थिनाम् ॥ १८३ ॥ एवं शुभाशुभे कार्ये, य: प्रस्तावस्तदर्थिनाम् । स सर्वो देशकालः स्याद्वक्तुं शक्यः स्फुटं कियान् ॥ १८४ ॥ यो यस्य मृत्युकालः स्यात्, कालकालः स तस्य यत् । कालं गतो मृत इति गम्यते लोकरूढितः ॥ १८५ ॥ कृष्णवर्णे च मरणे, स्यात्कालग्रहणेऽपि च । कालशब्दो देशकालः, प्रस्तावे परिभाषितः ।। १८६ ॥ तथोक्तं - कालेण कओ कालो, अम्हं सज्ज्ञायदेसकालंमि । तो तेण हओ कालो, अकालिकाले करंतेणं ॥ [ आवश्यक नियुक्ति श्लो. ७२९] अद्धाकालस्यैव भेदः, प्रमाणकाल उच्यते । अहोरात्रादिको वक्ष्यमाणविस्तारवैभवः ॥ १८७ ।। पञ्चानामथ वर्णानां मध्ये यः श्यामलद्युतिः । स वर्णकालो विज्ञेयः, सचित्ताचित्तरूपकः ॥ १८८ ॥ भवत्यौदयिकादीनां, या भावानामवस्थितिः । सादिसान्तादिभिर्भङ्गैर्भावकालः स उच्यते ॥ १८९ ॥ अत्र प्रमाणकालोऽस्ति, प्रकृतः स प्रतन्यते । अतीतोऽनागतो वर्त्तमानश्चेति त्रिधा स च ॥ १९० ॥ अवधीकृत्य समयं वर्त्तमानं विवक्षितम् । भूतः समयराशिर्यः, कालोऽतीतः स उच्यते ॥ १९१ ॥ अवधीकृत्य समयं वर्त्तमानं विवक्षितं । भावी समयराशिर्यः, कालः स स्यादनागतः ॥ ९९२ ॥ वर्त्तमानः पुनर्वर्त्तमानैकसमयात्मकः । असौ नैश्चयिकः सर्वोऽप्यन्यस्तु व्यावहारिकः ॥ १९३ ॥