SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 460 विपाकः कर्मणोऽप्येवं, द्विधा प्रोक्तो जिनागमे । यथास्थित्योपक्रमाद्धा, बद्धं कर्मेह भुज्यते ॥ १४५ ॥ नन्वेवं कर्म यद्धद्धं, तत्सर्वं वेद्यमेव चेत् । उपक्रमेणाल्पकालाद्यथास्थित्यथवा चिरात् ॥ १४६ ॥ तदा प्रसन्नचंद्रादेर्भागो बद्धस्य कर्मणः । सप्तमावनियोग्यस्य, प्राप्तो दुःखविपाकिनः ॥ १४७ ॥ न चास्य श्रूयते दुःखविपाकः सप्तमक्षितेः । अचिरादेव कैवल्यं, प्राप्तस्य शुभभावत: ॥ १४८ ॥ अत्रोच्यते यद्धद्धं कर्म तत्सर्वं, प्रदेशपरिभोगत: । अवश्यं भुज्यते जीवै, रसानुभवत: पुनः ॥ १४९ ॥ कर्मानुभूयते किञ्चित्, किञ्चित्तु नानुभूयते । तथाविधपरिणामात्तद्रसस्यापवर्तनात् ॥ १५० ॥ ततः प्रसन्नचन्द्राद्यैः, सप्तमावनिकर्मणाम् । प्रदेशा नीरसा भुक्ता, नानुभागस्तदुद्भवः ॥ १५१ ॥ ननु प्रसन्नचन्द्राद्यैर्बद्धं कर्म रसाञ्चितम् । यद्भुक्तं तन्नीरसं तत्कृतनाशाकृतागमौ ॥ १५२ ॥ अत्रोच्यते-परिणामविशेषेण, यद्येषां क्षीयते रसः । किमनिष्टं तदा कौ वा, कृतनाशाकृतागमौ ? ॥ १५३ ॥ तीव्रातपोपतप्तस्य, यदीक्षोः क्षीयते रसः । अपूर्वस्यागमः कोऽत्र, जायते वद सन्मते ! ॥ १५४ ॥ रसनाशात्कृतनाशो, य: स्यात्स त्विष्ट एव च । तदर्थमेव यतयो, यतन्ते यत्तपोविधौ ॥ १५५ ॥ अवश्यं भुज्यते कर्म, यथा बद्धं तथैव चेत् । तदा तपोविधिः सर्वो, व्यर्थ: स्याहुरिताक्षयात् ॥ १५६ ॥ मोक्षप्राप्तिश्च कस्यापि, न स्यादेव यतोङ्गिनाम् । ध्रुवं तद्भवसिद्धीनामपि कर्मावशिष्यते ॥ १५७ ॥ सत्तायामन्तरम्भोधिकोटाकोटिस्थिति स्फुटम् । प्रदेशैवैद्यते तच्च, ततस्तन्नीरसं मतम् ॥ १५८ ॥ किञ्चासंख्यभवोपात्तं, नानागतिनिबन्धनम् । स्यादेव कर्म सत्तायां, तद्भवेऽप्यङ्ग सिद्ध्यतः ॥ १५९ ॥ विपाकरूपेणैवास्य, भवत्यनुभवो यदि । तदा तत्र भवे नानाभावानुभवसंभवः ॥ १६० ॥ भवांस्तांस्तान् विपाकेनानुभवेद्यद्यनुक्रमात् । तदा पुनः पुनः कर्म, तत्र तत्रार्जयत्यसौ ॥ १६१ ॥ एवं च कर्मसंतानाविच्छेदान्न भवेच्छिवम् । तत: प्रदेशानुभवः, कर्मणोऽस्तीति युक्तिमत् ॥ १६२ ॥ आह-चेत्कृत्वोपक्रमैरल्पस्थितिकं कर्म वेद्यते । भवान्तरकृतस्यासौ, न भोगस्तर्हि कर्मणः ॥ १६३ ॥ यबद्धं बन्धसमये, भोग्यं वर्षशतादिभिः । भुक्तं त्वन्तर्मुहूर्तेन, तदेवैतत्कथं नु तत् ॥ १६४ ॥ किंच-अस्तु सोपक्रमं सर्वं, सर्वं वा निरूपक्रमम् । भेदः कुत: कथं नो वा, परावतोऽनयोमिथ: ?॥ १६५ ॥ अत्रोच्यतेबद्धं यद्बन्धसमये, परिणामेन तादृशा । तत्स्यादुपक्रमैः साध्यं, साध्यो रोग इवौषधैः ॥ १६६ ॥ असाध्यरोगवद्यत्तु, परिणामेन तादृशा । बद्धं तदुचितात्कालविपाकादेव नश्यति ॥ १६७ ॥ रोगे ह्यसाध्ये शक्तिनौषधादेर्विद्यते यथा । कर्मण्युपक्रमाभावस्तथा स्यान्निरूपक्रमे ॥ १६८ ॥ विचित्राणि कर्मबंधाध्यवसायास्पदानि यत् । वर्तन्तेऽसंख्यलोकाभ्रप्रदेशप्रमितानि वै ॥ १६९ ॥ तेषु सोपक्रमकर्मजनकान्येव कानिचित् । कानिचिबंधजनकान्यनुपक्रमकर्मणाम् ॥ १७० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy