SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ 459 योगैरवश्यकर्तव्यनिष्पन्नावश्यकी भवेत् । वसत्यादेर्निर्गमे सा, मुनिधुर्यैः प्रयुज्यते ॥ १२१ ॥ अप्रस्तुतनिषेधेन, वृत्ता नैषेधिकीति ताम् । कृतकार्या वसत्यादौ, प्रविशन्तः प्रयुञ्जते ॥ १२२ ॥ आपृच्छनं स्यादापृच्छा, गुरोः कार्य चिकीर्षिते । प्रतिपृच्छा कार्यकाले, भूयो यत्पृच्छनं गुरोः ॥ १२३ ॥ स्वयं पूर्वं गृहीतेन, गुर्वादेरशनादिना । याऽभ्यर्थना छन्दनाख्या, सामाचारी स्मृताऽऽगमे ॥ १२४ ॥ आनयामि युष्मदर्थमशनाद्यादिशन्तु माम् । गुर्वादीनां तदादानात्प्राग् विज्ञप्तिर्निमंत्रणा ॥ १२५ ॥ उपसंपत् पुनर्गच्छान्तराचार्याधुपासनम् । ज्ञानाद्यर्थं कियत्कालं, सामाचार्यो दशेत्यमूः ॥ १२६ ॥ तृतीयं नवमे पूर्व यदस्त्वाचारनामकम् । तस्य यदिशतितममोघाख्यं प्राभृतं महत् ॥ १२७ ॥ तत उद्धत्य कारुण्यधनैः स्थविरधीधनैः । ओघनियुक्तिरूपाल्पग्रन्थन्यस्ता महार्थभृत् ॥ १२८ ॥ पूर्वादिपाठानर्हाणां, हीनबुद्धिबलायुषाम् । ऐदंयुगीनजीवानामुपकाराय सत्वरम् ॥ १२९॥ तदर्थज्ञानतत्सम्यगनुष्ठानार्थमुत्तमैः । आसन्नीकृत्य दत्तौघसामाचारी भवत्यसौ ॥ १३०॥ एवं पदविभागाख्याप्यात्ता नवमपूर्वतः । उत्तराध्ययनादन्त्या, षड्विंशाच्च समुद्धृता ॥ १३१ ॥ ज्ञानमासां हि पूर्वादिपाठसाध्यं चिराद्भवेत् । तदुद्धारात्तु तूर्णं स्यादित्यसौ तदुपक्रमः ॥ १३२ ॥ अनल्पकालवेद्यस्यायुषः संवर्त्तनेन यत् । अल्पकालोपभोग्यत्वं, भवेत्सोपक्रमायुषाम् ॥ १३३ ॥ यथायुष्कोपक्रमाख्यः, स काल: परिकीर्तितः । दूरस्थस्यायुरन्तस्य, समीपानयनात्मकः ॥ १३४ ॥ उपक्रमो भवत्येवं, सर्वेषामपि कर्मणाम् । स्थित्यादिखण्डनद्धारा, प्राप्तानामनिकाचनाम् ॥ १३५ ॥ प्रायोऽनिकाचितानां यत्, किल्विषेतरकर्मणाम् । शुभाशुभपरिणामवशात्स्यादपवर्त्तना ॥ १३६ ॥ निकाचितानामप्येवं, तीव्रण तपसा भवेत् । स्फूर्जत्शुभपरिणामात्कर्मणामपर्वत्तना ॥ १३७ ॥ तथाहुमहाभाष्ये- [गाथा - २०४६] सव्वपगईणमेवं, परिणामवसा उवक्कमो होज्जा । पायमनिकाइयाणं, तवसाओ निकाइयाणंपि ॥ नन्वप्राप्तकालमपि, यद्येवं कर्म भुज्यते । प्रसज्यते तदा नूनं, कृतनाशाकृतागमौ ॥ १३८ ॥ यत्प्रागनल्पस्थितिकं, बद्धं भुक्तं न कर्म तत् । यच्चाल्पस्थितिकं भुक्तं, तद्वद्धं तेन नात्मना ॥ १३९ ॥ अत्रोच्यतेनोपक्रमेण क्रियते, दीर्घस्थितिककर्मणः । नाश: किंत्वध्यवसायविशेषाद्भुज्यते द्रुतम् ॥ १४० ॥ यथा भूय:कालभोग्यान्, प्रभूतान् धान्यमूढकान् । रुग्णा भस्मकवातेन, नचिरादेव भुञ्जते ॥ १४१ ॥ न चात्र वर्तमानानां, धान्यानां विगमो भवेत् । तद्भोग: स्यात्किन्तु तूर्णं, न्यायोऽयं कर्मणामपि ॥ १४२ ॥ चिरेण दह्यते रज्जुर्वविना वितता यथा । सैव संक्षिप्य निक्षिप्ता, क्षिप्रं भवति भस्मसात् ॥ १४३ ॥ चिरेण पच्यते वृक्षस्थितमाम्रादिकं फलम् । गर्ताक्षेपपलालादियुक्त्या तु क्षिप्रमप्यहो ॥ १४४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy