________________
457
सार्द्ध दीपद्धयं वार्टियुगं च व्याप्य स स्थितः । त्रि:पञ्चदशभिर्लक्षैोजनानां मतस्ततः ॥७६ ॥ नन्वेवं वर्तनादीनां, लिङ्गानां भावतो यथा । नृक्षेत्रमध्ये कालोऽङ्गीक्रियते श्रुतकोविदैः ॥ ७७ ॥ नृक्षेत्रात्परतोऽप्येष, ऊर्ध्वाधोलोकयोरपि । वर्त्तनादिलिङ्गसत्वात्कुतो नाभ्युपगम्यते ? ॥७८ ॥ वर्त्तना किल भावानां, वृत्तिः सा तत्र वर्त्तते । आयुः प्राणापानमानं, परापरस्थिती अपि ॥ ७९ ॥ अत्रोच्यतेवर्त्तते तत्र भावानां, वृत्तिः सा किंतु नेष्यते । काललिङ्गं तदीयाया, अपेक्षाया अभावतः ॥ ८० ॥ उत्पद्यन्ते विलीयन्ते, तिष्ठन्ति स्वयमेव हि । सन्तः पदार्थास्तेषां, चास्तित्वं नान्यव्यपेक्षया ॥ ८१ ॥ प्राणादयोऽपि जायन्ते, तत्र नाद्धाव्यपेक्षया । सजातीयेषु सर्वेषु, युगपत्तदनुद्भवात् ॥ ८२ ॥ कालापेक्षाः पदार्था हि, युगपत्तुल्यजातिषु । संभवन्तीह माकंदादिषु मञ्जरिकादिवत् ॥८३॥ भवन्ति युगपन्नैव, ताः प्राणादिप्रवृत्तयः । तत्रत्यानां तदेताः स्युः, कालापेक्षा न कर्हिचित् ॥ ८४ ॥ परापरत्वे ये तत्र, कालापेक्षे न ते अपि । स्थित्यपेक्षे किंतु षष्ठिवर्षाद्वर्षशत: पर: ॥ ८५ ॥ जातवर्षशताच्चापि, षष्टिवर्क नरोऽपरः । वत्सराणां शतं षष्टिरित्येषा च स्थितिः खलु ॥ ८६ ॥ स्थितिश्च सर्वभावानां, भवेत्सत्त्वव्यपेक्षया । सत्त्वं चास्तित्वमेव स्यात्तच्च नान्यमपेक्षते ॥ ८७ ॥ एवं च कालापेक्षाया, अभावादेव नोच्यते । तत्रत्यवर्त्तनादीनां, काललिङ्गत्वमुत्तमैः ॥ ८ ॥ अत्रेदं तत्त्वं प्रतिभासतेभूपसत्त्वाद्यथेह स्यात्सौस्थ्यादि तदपेक्षितम् । भूपाभावात्सदपि तत्तदपेक्षं न युग्मिषु ॥ ८९ ॥ तथेह कालसत्त्वात्तत्सापेक्षं वर्तनादिकम् । कालाभावात्तदपेक्षं, नरक्षेत्राद्धहिर्न तत् ॥ ९० ॥ तद्वर्षादिऋतुद्रुमसुमादिनयत्यकारणं काल: । तपनादिगतिव्यङ्ग्यः समयादिर्ननु नृलोक एव स्यात् ॥ ९१ ॥ कालशब्दस्य निक्षेपाश्चैकादश निरूपिताः । तन्नाम स्थापना कालौ, द्रव्यो द्धा संज्ञकौ च तौ ॥ १२ ॥ यथायुष्कोपक्रमाख्यौ, देश काला भिधौ च तौ । प्रमाण वर्ण नामानौ, भाव कालच ते स्मृताः ॥ ९३ ॥ सचेतनाचेतनयोर्द्रव्ययोर्यद्विधीयते । कालेत्याख्या स्थापना वा, तौ नामस्थापनाभिधौ ॥ ९४ ॥ द्रव्यमेव द्रव्यकालः, सचेतनमचेतनम् । कालोत्थानां वर्त्तनादिपर्यायाणामभेदतः ॥ ९५ ॥ सचित्ताचित्तद्रव्याणां, सादिसान्तादिभेदजा । स्थितिश्चतुर्विधा यदा, द्रव्यकाल: प्रकीर्त्यते ॥ ९६ ॥ सचेतनस्य द्रव्यस्य, सादि: सान्ता स्थितिर्भवेत् । सुरनारकमादिपर्यायाणामपेक्षया ॥९७ ॥ सिद्धाः सिद्धत्वमाश्रित्य, साद्यनन्तां स्थितिं श्रिताः । भव्या भव्यत्वमाश्रित्यानादिसान्तां गताः स्थितिम्॥ ९८ ॥ जीवो मोक्षस्य योग्यो हि, भव्य इत्युच्यते श्रुते । मोक्षं प्राप्तस्तु नो भव्यो, नाप्यभव्य इतीर्यते ॥ ९९ ॥
९
१०