________________
456
इत्याद्यपि तत्रैव ८३६ (२७८) पत्रे तथा तैस्तैर्भावैः स्वतो ह्यर्था वर्त्तन्ते, तत्प्रयोजिका वृत्ति:कलाश्रया या सा वर्त्तनेत्यभिधीयते इति तत्वार्थवृत्त्याशयः, तथा च तद्वच:- वर्त्तना कालाश्रया वृत्तिरिति वर्त्तन्तेऽर्थाः स्वयमेव तेषां वर्त्तमानानां (प्रयोजिका) कालाश्रया वृत्तिर्वर्त्यते यया सा वर्त्तना इति २४५ (१६८) तमपत्रे. धर्मसंग्रहणीवृत्तेरप्ययमेवाशयः । इति वर्तना ॥ नानाविधा परिणतिर्द्रव्यस्य सत एव या । परिणामः स कुम्भादिर्मृद्रव्यादेरिवोदितः ॥ ५८ ॥ यथाङ्कुराद्यवस्थस्य, परिणामो वनस्पतेः । मूलकाण्डादिभावेन, स्वजात्यपरिहारतः ॥ ५९ ॥ यथा वयःपरीणामो, देहद्रव्यस्य चाङ्गिनां । दध्यादिपरिणामो वा द्रव्यस्य पयसो यथा ॥ ६० ॥ हेम्नो वा मौलिमुद्रादिभावैः परिणतिर्यथा । परिणामो विफणत्वोत्फणत्वादिरहेर्यथा ॥ ६१ ॥ द्विधा सादिरनादिश्च स चाद्योऽभ्रादिगोचरः । धर्माधर्मास्तिकायादिगोचरः स्यात्ततोऽपरः ॥ ६२ ॥ त्रिधा यद्वा परिणामस्तत्राद्यः स्यात्प्रयोगजः । द्वितीयस्तु वैससिकस्तृतीयो मिश्रकः स्मृतः ॥ ६३ ॥ तत्र जीवप्रयत्नोत्थः, परिणामः प्रयोगजः । शरीराहारसंस्थानवर्णगंधरसादिकः ॥ ६४ ॥ केवलोऽजीवद्रव्यस्य, यः स वैससिको भवेत् । परमाण्वभ्रेन्द्रधनुः परिवेषादिरूपकः ॥ ६५ ॥ प्रयोगसहचरिताचेतनद्रव्यगोचरः । परिणामः स्तम्भकुम्भादिकः स मिश्रको भवेत् ॥ अशक्ताः स्वयमुत्पत्तुं, परिणामेन तादृशाः । कुम्भादयः कुलालादिसाचिव्येन भवन्ति हि इति परिणामः ॥
६६ ॥
॥
क्रिया देशांतरप्राप्तिरूपातीतादिका तथा । प्रोक्ता भाष्यस्य टीकायां तत्त्वार्थविवृतौ पुनः ॥ ६८ ॥ करणं स्यात्क्रिया द्रव्यपरिणामात्मिका च सा । कालोऽनुग्राहकस्तस्याः, प्रयोगादेस्त्रिधा च सा ।। ६९ ।।
तत्र च -
प्रयोगजात्मयोगोत्था, विस्रसाजा त्वजीवजा । मिश्रा पुनस्तदुभयसंयोगजनिता मता ॥ ७० ॥ इति क्रिया ॥
प्रशंसा क्षेत्रकालाख्यभेदतस्त्रिविधं मतं । परत्वमपरत्वं च तत्राद्यं गुणसंभवम् ॥ ७१ ॥ परः सर्वोत्तमत्वेन, जैनो धर्मः परोऽपरः । क्षेत्रजं तत्तु दूरस्थः, परोऽभ्यर्णगतोऽपरः ॥ ७२ ॥ तथा - अभ्यर्णदेशसंस्थोऽपि पर एव वयोऽधिकः । वयोलघुर्विप्रकृष्टदेशस्थोऽप्युच्यतेऽपरः ॥ ७३ ॥ दिशः परापरत्वाभ्यां, वैपरीत्यात् स्फुटे तु ये । इमे परापरत्वे स्तः, कालोऽनुग्राहकस्तयोः ॥ ७४ ॥ वर्त्तनाद्यास्त्रयः पूर्वोदितास्त्रिषु तथाऽन्तिमम् । परापरत्वं कालस्य, चत्वारोऽनुग्रहा अमी ॥ ७५ ॥ तथोक्तं तत्त्वार्थभाष्ये - " अथ कालस्योपकारः क इत्यत्रोच्यते-वर्त्तना परिणामः क्रिया परापरत्वे च कालस्येति” । [अध्याय ५. सूत्र. २२. ]
६७ ॥