________________
455
उपैति वृद्धिं शरदि, प्रताप: पुष्पदन्तयोः । नृपान्तिकेऽन्यायिवक्त्रमिव शुष्यति कईमः ॥ ४०॥ शालिप्रभृतयो धान्यश्रेणयो नम्रमौलय: । फलोद्रेकेऽपि विनयाद्व्यञ्जयन्ति सतां स्थितिम् ॥ ४१ ॥ क्रीडन्ति फुल्लाम्भोजेषु, सरस्सु स्वच्छवारिषु । राजहंसा राजहंसा, इव दर्पणवेश्मसु ॥ ४२ ॥ शनैः शनैः सञ्चरन्ति, शालिक्षेत्रान्तभूमिषु । प्रसरगोपिकागीतदत्तकर्णाः प्रवासिनः ॥ ४३ ॥ उच्चैरुपदिशन्तीव, मञ्चस्थाः क्षेत्ररक्षकाः । परोपकारं धान्येषु, धुतमौलिषु विस्मयात् ॥ ४४ ॥ रक्षितेष्वपि जाग्रद्भिदृषद्व्यग्रकरैर्नरैः । परक्षेत्रेष्वापतन्ति, पक्षिणः कामुका इव ॥ ४५ ॥ एवं नानाविधो लोके ऋतुभेदोऽपि विश्रुतः । निर्हेतुको भवन् कालं, स्वमाक्षिपति कारणम् ॥ ४६॥ तथाहिचूताद्याः शेषहेतूनां, सत्त्वेऽपि फलवञ्चिताः । कालद्रव्यमपेक्षन्ते, नानाशक्तिसमन्वितम् ॥४७॥ किञ्चवर्तमानातीतभाविव्यपदेशोऽपि दुर्घटः । विना कालं मिथोऽर्थानां, सांकीयं चापि संभवेत् ॥ ८ ॥ तथाहिवर्तमानव्यपदेशमतीतोऽनागतोऽपि वा । भजेन्नियामकाभावे, तत्कालोऽस्ति नियामकः ॥ ४९ ॥ तत्रातीतो द्विधाऽभावविषयप्रतिभेदतः । विनष्टो घट इत्याद्योऽद्राक्षं तमिति चापरः ॥ ५० ॥ भाव्यप्येवं द्विधा तत्रादिम उत्पत्स्यमानकः । घटाद्यों द्वितीयस्तु, गमिष्यन्नक्षगोचरम् ॥५१॥ किंच-क्षिप्रं चिरं च युगपन्मासवर्षयुगादयः । परुत्परायैषमोद्यह्यःश्व:कदाचिदादयः ॥ ५२ ॥ लोके ख्याताः सन्ति शब्दाः, कालद्रव्याभिधायिनः । तेऽपि शुद्धपदत्वात्स्वाभिधेयमनुमान्ति वै ॥ ५३॥ काल: षष्ठं पृथग् द्रव्यमागमेऽपि निरूपितम् । कालाभावे च तानि स्युः, सिद्धांतोक्तानि षट् कथम् ?॥ ५४ ॥
तथा चागम:-'कइ णं भंते ! दब्बाए ? गो० ! छ दव्वा पं०, तं०-धम्मत्थिकाए, अधम्मत्थिकाए,
आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए य' एवं काल: पृथग्द्रव्यं, सिद्धो युक्त्यागमेन च । उपकाराश्च तस्य स्युः, पूर्वोक्ता वर्तनादय: ॥ ५५ ॥ वर्त्तनादिस्वरूपं च, सामान्येनोदितं पुरा । अथ किञ्चिद्विशेषेणोच्यते शास्त्रानुसारतः ॥५६॥ तत्र - द्रव्यस्य परमाण्वादेर्या तद्पतया स्थितिः । नवजीर्णतया वा सा, वर्त्तना परिकीर्तिता ॥ ५७ ॥
इतिमहाभाष्यवृत्त्यभिप्रायः, तथाच तत्पाठः-“अत्रैव तत्परमाण्वादिरूपेण (घ्यणुकत्र्यणुकादिरूपेण) परमाण्वादिद्रव्याणां (वर्तन) वर्त्तना इति ४३५ (१८९) तमपत्रे, तथा तत्र “विवक्षितेन नवपुराणादिना तेन तेन रूपेण यत्पदार्थानां वर्त्तनं शश्वद्भवनं सा वर्तना"