________________
454
॥
पर्यायाणां हि द्रव्यत्वेऽनवस्थाऽपि प्रसज्यते । पर्यायरूपस्तत्कालः, पृथग् द्रव्यं न संभवेत् ॥ १४॥ इत्थं चैतदुरीकार्य, वर्त्तनाद्यात्मकोऽन्यथा । कालास्तिकाय: स्वीकार्यो, भवेद्वयोमेव सर्वगः ॥ १५ ॥ न चार्हदिष्टादिष्टं तत्, सिद्धांते यत्पुनः पुनः । पञ्चास्तिकाया एवोक्ताः, कालो द्रव्यं पृथग् न तत् ॥ १६ ॥ परे त्वाहुः समद्रव्यप्रवर्त्ती वर्त्तनादिकः । पर्यायः कालनामा मा, पृथग् द्रव्यं भवत्वहो ॥ १७ ॥ किंतु योऽर्कादिचाराभिव्यङ्गयो नृक्षेत्रमध्यगः । कालो न स्यात्कथं कार्यानुमेयः परमाणुवत् ? ॥ १८ ॥ यच्छुद्धपदवाच्यं तत्, सदित्यनुमितेरपि । षष्ठं द्रव्यं दधत् सिद्धिं, कालाख्यं को निवारयेत् ? ।। १९ ॥ कालद्रव्ये चासति तद्विशेषाः समयादयः । कथं न स्युर्विशेषा हि सामान्यानुचराः खलु ॥ २० ॥ समयाद्याश्च कालस्य, विशेषाः सर्वसंमताः । जगत्प्रसिद्धाः संसिद्धाः, सिद्धांतादिप्रमाणतः ॥ २१ ॥ किञ्च - सहैव स्यात्किसलयकलिकाफलसंभवः । एषां नियामके कालरूपे द्रव्येऽसति क्षितौ ॥ २२ ॥ बालो मृदुतनुर्दीप्रदेहश्च तरुणः पुमान् । जीर्णाङ्गः स्थविरश्चेति, विना कालं दशाः कथम् ? ॥ २३ ॥ ऋतूनामपि षण्णां य:, परिणामोऽस्त्यनेकधा । न संभवेत्सोऽपि कालं, विनाऽतिविदितः क्षितौ ॥ २४ ॥ तथाहि
हिमातिपाताद्धेमन्ते, प्रत्यग्नि शलभा इव । कम्प्रकाया रणद्दन्ताः पतन्ति मुदिता जनाः ॥ २५ ॥ जनयन्ति जने जाड्यं, तुषाराश्लेषिणोऽनिलाः । परिष्वजन्ति नीरन्ध्रं, युवानः कामिनीर्निशि ॥ २६ ॥ महासरांसि स्त्यायन्ति, दह्यतेऽम्भोजिनीवनम् । उज्जृम्भते नवोद्भिन्नयवादिषु च यौवनम् ॥ २७ ॥ अबहिश्चारिणां रात्रौ, शिशिरेऽसंवृतात्मनाम् । असंयम इवर्षीणां जनानां स्यादप्रियः शशी ॥ २८ ॥ पूर्णोत्सङ्गाः फलैः पक्वैर्वृत्ताः शिशुकदम्बकैः । बदर्यो मातर इव, दधति द्युतिमद्भुताम् ॥ २९॥ कुन्दवल्लयः शुभ्रदीप्रप्रसूनदशनश्रियः । हसन्तीव हिमम्लानाननं कमलकाननम् ॥३०॥ उत्फुल्लनानाकुसुमासवपानमदोद्धुराः । भ्राम्यन्ति भ्रमरा भूरिरजोधूसरभूघनाः ॥ ३१ ॥ दत्ताश्रया दत्तभोज्या, माकन्दैरूपकारिभिः । अभ्यस्यन्तीव कामोपनिषदं कोकिलद्विजाः ॥ ३२ ॥ ग्रीष्मे दिनकरः क्रूरैः करैः शोषयति क्षितिम् । कलौ नृप इवोदेति, तृष्णा लोकेऽधिकाधिका ॥ ३३ ॥ भाग्याढ्यानां धनमिव, वर्द्धतेऽनुदिनं दिनम् । निरुद्यमानां विद्येव, क्षीयते चानिशं निशा ॥ ३४ ॥ चन्द्रचंदननिर्यासवासिताङ्गा विलासिनः । नयन्त्यहान्युपवनेष्वम्बुक्रीडापरायणाः ॥ ३५ ॥ वर्षासु जलमुग्धाराधोरणीधौतधूलयः । कृतस्नाना धराधीशा, इवाभान्ति धराधराः ॥ ३६ ॥ मही भाति महीयोभिः, सर्वतो हरिताङ्कुरैः । रोमाञ्चितेवाम्बुवाहप्राणप्रियसमागमात् ॥ ३७ ॥ रुन्धन्ति सरितो लोकं, मार्गगं कुलटा इव । प्रिया इव प्रियान् गाढमालिङ्गन्ति लतास्तरुन् ॥ ३८ ॥ द्योतते विद्युतो मेघा, वर्षन्त्यूर्जितगर्जिताः । उचैर्नदन्तो माद्यन्ति, शिखिचातकदर्दुराः ॥ ३९॥