________________
453 ॥ ॐ ही अहँ नमः॥
॥ऐं नमः॥ महामहोपाध्यायश्रीमद्विनयविजयगणिवरविरचितः
। श्री लोकप्रकाशः
काललोकः
अथ अष्टाविंशतितमः सर्गः केवलालोकवत्कालिकीमुल्लासयन् धियं । श्रीमान् शंखेश्वरः पार्थी, वितनोतु सतां श्रियम् ॥ १॥ स्वरूपं दिष्टलोकस्य, जिनोद्दिष्टमथ ब्रुवे । गुरुश्रीकीर्तिविजयक्रमसेवाप्तधीधनः ॥२॥ लोकानुभावतो ज्योतिश्चक्रं भ्रमति सर्वदा । नृक्षेत्रे तद्गतिभवः, कालो नानाविधः स्मृतः ॥३॥ तथोक्तं ज्योतिष्करंडके- [श्लोक - ६] लोगाणुभावजणिअं जोइसचवं भणंति अरिहंता । सब्बे कालविसेसा जस्स गइविसेसनिप्फन्ना ॥ अत्राहुः केऽपि जीवादिपर्याया वर्तनादयः । काल इत्युच्यते तज्ज्ञैः, पृथग् द्रव्यं तु नास्त्यसौ ॥४॥ तथाहिजीवादीनां वर्तना च, परिणामोऽप्यनेकधा । क्रिया परापरत्वं च, स्यात्कालव्यपदेशभाक् ॥५॥ तत्र चद्रव्याणां सादिसान्तादिभेदैः स्थित्यां चतुर्भिदि । यत्केनचित्प्रकारेण, वर्त्तनं वर्त्तना हि सा ॥६॥ द्रव्याणां या परिणतिः, प्रयोगविस्रसादिजा । नवत्वजीर्णताद्या च, परिणाम: स कीर्तितः ॥७॥ भूतत्ववर्त्तमानत्व-भविष्यत्वविशेषणा । यानस्थानादिकार्थानां, या चेष्टा सा क्रियोदिता ॥८॥ पूर्वभावि परं पश्चाद्भावि चापरमिष्यते । द्रव्यं यदाश्रयादुक्ते, ते परत्वापरत्वके ॥९॥ एवं च द्रव्यपर्याया, एवामी वर्तनादयः । संपन्नाः कालशब्देन, व्यपदेश्या भवन्ति ये ॥ १० ॥ पर्यायाच कथंचित्स्युर्द्रव्याभिन्नास्ततश्च ते । द्रव्यनाम्नाऽपि कथ्यन्ते, जातु प्रोक्तं यदागमे ॥११॥ तद्यथा-'किमिदं भंते ! कालेत्ति पवुच्चति ? गो० ! जीवा चेव अजीवा चेव त्ति' अत्र द्रव्याभेदवर्तिवर्तनादिविवक्षया । कालोऽपि वर्तनाद्यात्मा, जीवाजीवतयोदितः ॥ १२ ॥ वर्तनाद्याश्च पर्याया, एवेति प्राग् विनिश्चितम् । तद्वर्तनादिसंपन्न:, कालो द्रव्यं भवेत्कथम् ? ॥ १३ ॥