________________
451
पल्योपमस्यासंख्येयो, भागः परममन्तरम् । सुरोत्पत्तिच्यवनयोर्विजयादिचतुष्ट्ये ॥ ६४३ ॥ पल्योपमस्यासंख्येयो, भागः परममन्तरम् । सर्वार्थसिद्धे सर्वत्र, जघन्यं समयोऽन्तरम् ॥ ६४४ ॥ जवनालकापराख्यं, कन्याचोलकमुच्छ्रितम् । आकारेणानुकुरुते, एतेषामवधिर्यतः ।। ६४५ ।। किञ्चिदूनां लोकनाडीं, पश्यन्त्यवधिचक्षुषा । ऊनत्वं तु स्वविमानध्वजादूर्ध्वमदर्शनात् ॥ ६४६ ॥ ऊक्तं च तत्त्वार्थवृत्तौ - “अनुत्तरविमानपञ्चकवासिनस्तु समस्तां लोकनाडीं पश्यन्ति लोकमध्यवर्त्तिन, न पुनर्लोक" मिति ।
६५३ ॥
६५४ ॥
अत एवावधिज्ञानाधारपर्यायवत्तया । क्षेत्रस्यावस्थानमुक्तं, त्रयस्त्रिंशतमम्बुधीन् ॥ ६४७ ॥ यदेषामुत्पत्तिदेशावगाढानां भवावधि । अवधेरप्यवगाढक्षेत्रावस्थितिनिश्चयः ।। ६४८ ।। तथोक्तं विशेषावश्यके— “खेत्तस्स अवट्ठाणं तेत्तीसं सागरा उ कालेणं । दव्वे भिन्नमुहुत्तो पज्जवलंभे य सत्तट्ट” ॥ [गाथा - ७१७] सर्वार्थसिद्धशृङ्गाग्राद्गत्वा द्वादशयोजनीम् । जात्यार्जुनस्वर्णमयी, भाति सिद्धिशिलाऽमला ॥। ६४९ ।। पञ्चचत्वारिंशता सा, मिता योजनलक्षकैः । विष्कम्भादायामतश्च, परितः परिधिः पुनः ॥ ६५० ॥ एका कोटि योजनानां सहसैस्त्रिशताऽन्विता । द्विचत्वारिंशता लक्षैर्योजनानां द्विशत्यपि ॥ ६५१ ॥ तथा पञ्चाशदेकोना, योजनानां च साधिका । बाहल्यं मध्यभागेऽस्या, योजनान्यष्ट कीर्त्तितम् ॥ ६५२ ॥ स मध्यभागो विष्कम्भायामाभ्यामष्टयोजनः । ततोऽऽङ्गुलपृथक्त्वं च योजने योजने गते ॥ बाहल्यं हीयते तेन, पर्यन्तेष्वखिलेष्वपि । अङ्गुलासंख्यभागाङ्गी, मक्षिकापत्रतस्तनुः ॥ तुषारहारगोक्षीरधाराधवलरोचिषः । नामान्यस्याः प्रशस्याया, द्वादशाहुर्जिनेश्वराः ॥ ६५५ ॥ ईष तथेषत्प्राग्भारा तन्वी च तनुतन्विका । सिद्धिः सिद्धालयो मुक्ति मुक्तालयो ऽपि कथ्यते ।। ६५६ । लोकाग्रं तत्स्तूपिका च लोकाग्रप्रतिवाहिनि । तथा सर्वप्राणभूतजीवसत्त्वसुखावहा ।। ६५७ ।। उत्तानच्छत्रसंकाशा, घृतपूर्णां करोटिकाम् । तादृशां तुलयत्यस्या, लोकान्तो योजने गते ॥ ६५८ ॥ ऊचुर्द्वादशयोजन्याः, केचित्सर्वार्थसिद्धितः । लोकान्तस्तत्र तत्त्वं तु ज्ञेयं केवलशालिभिः ।। ६५९ ।। योजनं चैतदुत्सेधाङ्गुलमानेन निश्चितम् । सिद्धावगाहना यस्मादुत्सेधाङ्गुलसंमिता ॥ ६६० ।। तथोक्तं—“यच्चेषत्प्राग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुत्सेधाङ्गुलनिष्पन्नमित्यनुमीयते यतस्तस्योपरितनक्रोशस्य षड्भागे सिद्धावगाहना धनुस्त्रिभागयुक्तत्रयस्त्रिंशदधिकशतंत्रयमानाऽभिहिता, सा चोच्छ्रयाश्रयणत एव युज्यत इति भगवतीवृत्तौ ।” तद्योजनोपरितनक्रोशषष्ठांशगोचरम् । धनुषां सतृतीयांशं त्रयस्त्रिंशं शतत्रयम् ।। ६६१ ।। अभिव्याप्य स्थिताः सिद्धा, अवेदा वेदनोज्झिताः । चिदानन्दमयाः कर्मघर्माभावेन निर्वृताः ॥ ६६२ ॥ शेषं सिद्धस्वरूपं तु, द्रव्यलोके निरूपितम् । तत एव ततो ज्ञेयं, ज्ञप्तिस्त्रीसंगमोत्सुकैः ॥ ६६३ ॥