________________
450
यदाहुः पञ्चमाञ्- “अणुत्तरोववाइया णं देवा णं भंते ! केवइएणं कम्मावसेसेणं अणुत्तरोववाइयत्तेणं उववण्णा ?, गो० ! जावतियन्नं छट्ठभत्तिए समणे निग्गंथे कम्मं निज्जरेड
एवतिएणं कम्मावसेसेणं अणुत्तरोववाइयत्ताए उववण्णा” इति । शाल्यादिकवलिकानां सप्तानां छेदने भवति यावान् । कालस्तावति मनुजायुष्केऽपर्याप्तवति मृत्वा ॥ ६३६ ॥ मोक्षार्हाध्यवसाया अपि ये कर्मावशेषतो जाता: । लवसत्तमदेवास्ते जयन्ति सर्वार्थसिद्धस्थाः ॥ ६३७ ॥
इति भगवतीशतक १४ उ०७ । आद्यसंहननाश्चैषु, स्वाराद्धोज्ज्वलसंयमाः । भव्याः स्वल्पभवा एवायान्ति यान्ति च नृष्यमी ॥ ६३८ ॥ कर्मभूमिसमुत्पन्ना, मानुष्योऽपि शुभाशयाः । सम्यग्दृश: शुक्ललेश्या, जायन्तेऽनुत्तरेष्विह ॥ ६३९ ॥
तथाहुः– 'केरिसिया णं भंते ! मणुस्सी उक्कोसकालठिइयं आउयकम्मं बंधति, ? गो० कम्मभूमीया वा' इत्यादि प्रज्ञापना त्रयोविंशतितमे पदे । मानुषी सप्तमनरकयोग्यमायुर्न
बजाति, अनुत्तरसुरायुस्तु बजातीत्येतद्वृत्तौ ।। जीवा: सर्वार्थसिद्धे तूद्भवन्त्येकभवोद्भवाः । च्युत्वा ते भाविनि भवे, सिद्ध्यन्ति नियमादितः ॥ ६४० ॥
___ उक्तं च-"सवट्ठाओ नियमा एगंमि भवंमि सिज्झए जीवो । विजयाइविमाणेहि य
संखिज्जभवा उ बोद्धव्वा ॥ चतुर्विंशतिं भवान्नातिक्रामन्तीति तु वृद्धवादः, तथा-चतुर्वेषु विमानेषु, द्विरुत्पन्ना हि जन्तवः । अनन्तरभवेऽवश्यं, प्रयान्ति परमं पदम् ॥ ६४१ ॥
तथोक्तं जीवाभिगमवृत्तौ-"विजयादिचतुर्पु वारद्वयं सर्वार्थसिद्धमहाविमान एकवारं गमनसंभवः, तत ऊर्द्ध मनुष्यभवासादनेन मुक्तिप्राप्ते" रिति । योगशास्त्रवृत्तौ तु विजयादिषु चतुर्खनुत्तरविमानेषु 'द्विचरमा' इत्युक्तमिति ज्ञेयं, तत्त्वार्थभाष्येऽपि विजयादिष्वनुत्तरेषु विमानेषु देवा बिचरमा भवन्ति, विचरमा इति ततश्च्युताः परं द्विर्जनित्वा सिद्धयन्तीति, [अध्याय ४. सूत्र. २७]
एतट्टीकापि-द्विचरमत्वं स्पष्टयति-ततो विजयादिभ्यश्च्युताः परमुत्कर्षेण दिर्जनित्वा मनुष्येषु सिद्धिमधिगच्छन्ति, विजयादिविमानाच्च्युतो मनुष्यः पुनरपि विजयादिषु देवस्ततश्च्युतो मनुष्यः स सिद्धयतीति ।
पञ्चमकर्मग्रन्थे–'तिरिनरयतिजोआणं नरभवजुअस्स चउपल्लतेस ॥' [गा. ५६] एतद्गाथासूत्रवृत्त्यनुसारेण तु विजयादिविमानेषु द्विर्गतोऽपि संसारे कतिचिन्भवान् भ्रमति
नरकतिर्यग्गतियोग्यमपि कर्म बनातीति दृश्यते, तदत्र तत्त्वं केवलिगम्यं । सर्वार्थदेवाः संख्येया, असंख्येयाश्चतुर्पु ते । एतेष्वेकक्षणोत्पत्तिच्युतिसंख्याऽच्युतादिवत् ॥ ६४२ ॥ पल्योपमस्यासंख्येयो, भागः परममन्तरम् । सुरोत्पत्तिच्यवनयोर्विजयादिचतुष्टये ॥६४३॥ १ वारद्धयमिति द्विचरम इति वैकार्थावेव, आनन्तर्येण चेदिर्जनिन स्यात् तदा चतुर्विंशतिं भवान् यावत् संसार: न परत इति तदप्यविरुद्धं, कर्मग्रन्थोक्तं तु उद्योतादीनां बन्धान्तरालस्योत्कर्षस्य संभवमपेक्ष्य, न तु तावता विरोधः ।