SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ 449 सर्वे विमानाश्चतुरशीतिर्लक्षा इहोपरि । सहस्राः सप्तनवतिस्त्रयोविंशतिसंयुताः ॥ ६१४ ।। व्यासायामपरिक्षेपैर्जम्बूदीपेन संमितम् । विमानं सर्वार्थसिद्धमसंख्येयात्मका: परे ॥ ६१५ ॥ ग्रैवेयकवदत्रापि, देवाः सर्वेऽहमिन्द्रकाः । सर्वे मिथः समैश्वर्यरूपकान्तिसुखश्रियः ॥ ६१६ ॥ येष्वाकाशप्रदेशेषु, शय्यायां प्रथमक्षणे । यथोत्पन्नास्तथोत्तानशया एव भवावधि ॥ ६१७ ॥ सर्वसंसारिजीवेभ्यः, सर्वोत्कृष्टसुखाश्रया: । लीलयैवामितं कालं, गमयन्ति निमेषवत् ॥ ६१८ ॥ ___ तथाहुर्विशेषावश्यके- “विजयाईसूववाए जत्थोगाढो भवनओ जाव । खेत्तेऽवचिट्ठइ तहिं दब्बेसु य देहसयणेसुं” ॥ [श्लो. ७२३] एकत्रिंशद्धारिधयश्चतुषु विजयादिषु । स्थितिर्जघन्योत्कृष्टा तु, त्रयस्त्रिंशत्पयोधयः ॥ ६१९ ॥ इति प्रज्ञापनाभिप्रायः, समवायाङ्गे तु-"विजयवेजयंतजयंतअपराजियाणां भंते ! देवाणं केवइयं कालं ठिई प० ?, गो० ! जह० बत्तीसं साग० उक्को० तेत्तीसं साग०” । स्थिति: सर्वार्थसिद्धे तु, स्यादुत्कृष्टैव नाकिनाम् । त्रयस्त्रिंशदम्बुधयो, जघन्या त्वत्र नास्ति सा ॥ ६२० ॥ प्रतिशय्यं विमानेऽस्मिन्नस्ति चन्द्रोदयो महान् । मुक्ताफलमय स्फूर्जत शरच्चंद्रातपोज्जवलः ॥ ६२१ ॥ तत्र मध्ये चतुःषष्टिमणप्रमाणमौक्तिकम् । द्वात्रिंशन्मणमानानि, चत्वारि परितस्त्वदः ॥ ६२२ ॥ अष्टौ तत्परितो मुक्ताः, स्युः षोडशमणैर्मिताः । स्युः षोडशैता: परितो, मुक्ता अष्टमणोन्मिताः ॥ ६२३ ॥ द्वात्रिंशदेताः परितस्ताश्चतुर्मणसंमिताः । ततः परं चतुःषष्टिर्मणद्वयमितास्ततः ॥ ६२४ ॥ अष्टाविंशं शतं मुक्ता, एकैकमणसंमिताः । यथोत्तरमथावेष्ट्य, स्थिताः पङ्क्त्या मनोज्ञया ॥ ६२५ ॥ मौक्तिकानामथैतेषां, मरुत्तरङ्गरङ्गितैः । परस्परेणास्फलतां, जायते मधुरध्वनिः ॥ ६२६ ॥ सर्वातिशायिमाधुर्य, तं च श्रोत्रमनोरमम् । चक्रिदेवेन्द्रगन्धर्वादप्यनन्तगुणाधिकम् ॥ ३२७ ॥ ध्वनितं शृण्वतां तेषां, देवानां लीनचेतसाम् । अप्यब्धयस्त्रयस्त्रिंशदतियान्ति निमेषवत् ॥ ६२८ ॥ विजयादिविमानेषु, चतुर्षु नाकिनां वपुः । एकत्रिंशदम्बुनिधिस्थितिकानां करद्वयम् ॥ ६२९ ॥ वपुर्द्वात्रिंशदम्भोधिस्थितीनां तु भवेदिह । एकेनैकादशांशेन, कर एकः समन्वितः ॥६३० ॥ एक: करस्त्रयस्त्रिंशदम्भोधिजीविनां तनुः । देवाः सर्वार्थसिद्धे तु, सर्वेऽप्येककरोच्छ्रिताः ॥ ६३१ ॥ विजयादिविमानस्थाः स्वस्थित्यम्बुधिसंख्यया । पक्षैः सहनैश्चाब्दानामुच्छ्वसन्त्याहरन्ति च ॥ ६३२ ॥ सर्वार्थ तु त्रयस्त्रिंशन्मितैर्वर्षसहस्रकैः । प्सान्ति सार्द्धषोडशभिर्मासैरेवोच्छ्वसन्ति च ॥ ६३३ ॥ पशुक्रियाभिलाषस्तु, नैतेषां तत्त्वदर्शिनाम् । प्राग्भवाभ्यस्तनवमरसार्टीकृतचेतसाम् ॥ ६३४ ॥ अतिप्रतनुकर्माणो, महाभागाः सुरा अमी । इहोत्पन्नाः षष्टभक्तक्षेप्यकर्मावशेषतः ॥ ६३५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy