SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 448 ग्रैवेयके सप्तमे स्युरेकोनत्रिंशदर्णवाः । स्थितिर्गरिष्ठा लघ्वी तु, साष्टाविंशतिरब्धयः ।। ५८७ ॥ द्विभागाधिक हस्तौ वपुर्ज्येष्ठायुषामिह । लघ्वायुषां तु तावेव, त्रिभागाभ्यधिकौ तनुः ॥ ५८८ ॥ त्रिंशदम्भोधयो ज्येष्ठा, ग्रैवेयकेऽष्टमे स्थितिः । एकोनत्रिंशदेते च, स्थितिरत्र लघीयसी ।। ५८९ ।। द्वौ करावेकभागाढ्यौ, देहो ज्येष्ठायुषामिह । तावेव द्वौ सद्विभागौ, स्याज्जघन्यायुषां तनुः ।। ५९० ।। ग्रैवेयकेऽथ नवमे, एकत्रिंशत्पयोधयः । स्थितिर्गुर्वी लघिष्ठा तु, त्रिंशदम्भोधिसंमिता ॥ ५९१ ।। हस्तौ द्वावेव संपूर्णी, वपुरुत्कृष्टजीविनाम् । द्वौ करावेकभागाढ्यौ, तनुर्जघन्यजीविनाम् ॥ ५९२ ॥ स्वस्वस्थित्यम्भोनिधीनां संख्ययाऽद्धसहस्रकैः । आहारकाङ्क्षिणः पक्षैस्तावद्भिरुच्छ्वसन्ति च ॥ ५९३ ॥ आद्यसंहननाः साधुक्रियानुष्ठानशालिनः । आयान्त्येषु नरा एव, यान्ति च्युत्वाऽपि नृष्चमी ॥ ५९४ ॥ मिथ्याविनो येऽप्यभव्या, उत्पद्यन्तेऽत्र देहिनः । जैनसाधुक्रियां तेऽपि, समाराध्यैव नान्यथा ।। ५९५ ।। समये च्यवनोत्पत्तिसंख्या चात्र यथाऽच्युते । च्यवनोत्पत्तिविरहः, परमस्तु भवेदिह ।। ५९६ ।। संख्येया वत्सरशता, आद्यग्रैवेयकत्रिके । अर्वाग्वर्षसहस्रात्ते, मध्यमीयत्रिके पुनः ।। ५९७ ।। लक्षादर्वाग्वत्सराणां, स्युः संख्येयाः सहस्रका: । कोटेर्खाग्वर्षलक्षाः, संख्येयाश्चरमत्रिके ।। ५९८ ।। आद्यषग्रैवेयकस्थाः पश्यन्त्यवधिचक्षुषा । षष्ठ्यास्तमोऽभिधानायाः, पृथ्व्या अधस्तलावधि ।। ५९९ ।। अधस्तनापेक्षया च, पश्यन्त्यूर्ध्वोर्ध्वगाः सुराः । विशिष्टबहुपर्यायोपेतामेतां यथोत्तरम् ॥ ६०० ॥ तृतीयत्रिकगाः पश्यन्त्यधो माधवतिक्षितेः । अवधिज्ञानमेतेषां पुष्पचङ्गेरिकाकृति ॥ ६०१ ॥ अथोर्ध्व नवमग्रैवेयकाद्दूरमतिक्रमे । स्याद्योजनैरसंख्येयैः, प्रतरोऽनुत्तराभिधः ॥ ६०२ ।। नास्त्यस्मादुत्तरः कोऽपि, प्रधानमथवाऽधिकः । ततोऽयमद्वितीयत्वाद्विख्यातोऽनुत्तराख्यया ॥ ६०३ ॥ सिद्धिसिंहासनस्यैष, बिभर्ति पादपीठताम् । चतुर्विमानमध्यस्थरुचिरैकविमानकः ॥ ६०४ ॥ सर्वोत्कृष्टास्तत्र पञ्च, विमानाः स्युरनुत्तराः । तेष्वेकमिन्द्रकं मध्ये, चत्वारश्च चतुर्दिशम् ॥ ६०५ ॥ प्राच्यां तत्रास्ति विजयं, विमानवरमुत्तमम् । दक्षिणस्यां वैजयन्तं प्रतीच्यां च जयन्तकम् ।। ६०६ ॥ उत्तरस्यां दिशि भवेद्धिमानमपराजितम् । सर्वार्थसिद्धिकृन्मध्ये, सर्वार्थसिद्धिनामकम् ॥ ६०७ ॥ प्रथमप्रतरे प्रोक्ताः पङ्क्तयो याश्चतुर्दिशम् । द्वाषष्टिकास्ता एकैकहान्याऽत्रैकावशेषिकाः ॥ ६०८ ॥ मध्ये वृत्तं त्रिकोणानि, दिवत्र प्रतरे ततः । पङ्क्तित्रिकोणाश्चत्वारः, पञ्च ते सर्वसंख्यया ॥ ६०९ ॥ सर्वेऽप्येवमूर्ध्वलोके, पङ्क्तिवृत्तविमानकाः । द्व्यशीत्याऽभ्यधिकानि स्युः, शतानि पञ्चविंशतिः ।। ६१० ॥ शतानि साष्टाशीतीनि, षड्विंशतिस्त्रिकोणकाः । षड्विंशतिः शताः पङ्क्तिचतुरस्राश्चतुर्युताः ॥ ६११ ॥ चतुःसप्तत्यभ्यधिकैः, शतैरष्टभिरन्विताः । सहस्राः सप्तोर्ध्वलोके, सर्वे पङ्क्तिविमानकाः ॥ ६१२ ॥ लक्षाश्चतुरशीतिः स्युरेकोननवतिस्तथा । सहस्राण्येकोनपञ्चाशं शतं च प्रकीर्णकाः ।। ६१३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy