________________
447
सुरते तु कदाप्येषां, मनोऽपि न भवेन्मनाक् । निर्मोहानामिवर्षीणां, सदाप्यविकृतात्मनाम् ॥ ५६२ ॥ न चैवं गीतसंगीतसुरतास्वादवर्जितम् । किमेतेषां सुखं नाम, स्पृहणीयं यदङ्गिनाम् ? ॥ ५६३ ॥ अत्रोच्यतेऽत्यन्तमन्दपुंवेदोदयिनो ह्यमी । तत्प्राक्तनेभ्यः सर्वेभ्योऽनन्तजसुखशालिनः ॥ ५६४ ॥ तथाहि कायसेविभ्योऽनन्तनसुखशालिनः । स्युः स्पर्शसेविनस्तेभ्यस्तथैव रूपसेविनः ॥ ५६५ ॥ शब्दोपभोगिनस्तेभ्यस्तेभ्यश्चित्तोपभोगिनः । तेभ्योऽनन्तगुणसुखा, रतेच्छावर्जिताः सुराः ॥ ५६६ ॥ यच्चैषां तनुमोहानां, सुखं संतुष्टचेतसाम् । वीतरागाणामिवोच्चैस्तदन्येषां कुतो भवेत् ? ॥ ५६७ ॥ मोहानुदयजं सौख्यं, स्वाभाविकमतिस्थिरम् । सोपाधिकं वैषयिकं, वस्तुतो दुःखमेव तत् ॥ ५६८ ॥ भोज्याङ्गनादयो येऽत्र गीयन्ते सुखहेतवः । रोचन्ते न त एव क्षुत्कामाद्यर्ति विनाऽङ्गिनाम् ॥ ५६९ ॥ ततो दुःखप्रतीकाररूपा एते मतिभ्रमात् । सुखत्वेन मता लोकैर्हन्त मोहविडम्बितैः ॥ ५७० ॥ ___ उक्तं च-"तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि, क्षुधातः सन् शालीन् कवलयति मांस्पाकवलितान् । प्रदीप्ते कामाग्नौ दहति तनुमाश्लिष्यति वधूं, प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः” । नन्वेवं यदि निर्वाणमदनज्वलना: स्वत: । कथं ब्रह्मव्रतं नैते, स्वीकुर्वन्ति महाधियः ॥ ५७१ ॥ अत्रोच्यते देवभवस्वभावेन कदापि हि । एषां विरत्यभिप्रायो, नाल्पीयानपि संभवेत् ॥ ५७२ ॥ भवस्वभाववैचित्र्यं, चाचिन्त्यं पशवोऽपि यत् । भवन्ति देशविरतास्त्रिज्ञाना अप्यमी तु न ॥ ५७३ ॥ आद्यग्रैवेयकेऽमीषां, स्थितिरुत्कर्षतोऽब्धयः । स्युस्त्रयोविंशतिर्लघ्वी, द्वाविंशतिः पयोधयः ॥ ५७४ ॥ कनिष्ठाया: समधिकमारभ्य समयादिकम् । यावज्ज्येष्ठां समयोनां, सर्वत्र मध्यमा स्थितिः ॥ ५७५ ॥ दौ करावष्टभिर्भागैर्युक्तावेकादशोद्भवैः । देहो ज्येष्ठायुषां हीनस्थितीनां तु करास्त्रयः ॥ ५७६ ॥ ग्रैवेयके द्वितीये तु चतुर्विंशतिरब्धयः । ज्येष्ठा स्थिति: कनिष्ठा तु, त्रयोविंशतिरब्धयः ॥ ५७७ ॥ द्वौ करौ सप्तभिर्भागैर्युक्तावेकादशोत्थितैः । वपुज्येष्ठायुषां हूस्वायुषामष्टलवाधिकौ ॥५७८ ॥ ग्रैवेयके तृतीये च, वार्द्धयः पञ्चविंशतिः । गुर्वी स्थितिर्जघन्या तु, चतुर्विंशतिरेव ते ॥ ५७९ ॥ ज्येष्ठस्थितीनामत्राझं, दौ करौ षड्लवाधिकौ । तत्कनिष्ठस्थितीनां तु, सप्तांशाढ्यं करद्वयम् ॥ ५८० ॥ ग्रैवेयके तुरीये च, षड्विंशतिः पयोधयः । आयुज्येष्ठं कनिष्ठं तु, पञ्चविंशतिरब्धयः ॥ ५८१ ॥ ज्येष्ठस्थितीनां द्वौ हस्तौ, देहः पञ्चलवाधिकौ । षड्भागाभ्यधिकौ तौ च, तनुर्जघन्यजीविनाम् ॥ ५८२ ॥ ग्रैवेयके पञ्चमेऽथ, वार्द्धयः सप्तविंशतिः । स्थितिज्येष्ठा कनिष्ठा तु, षड्विंशतिपयोधयः ॥ ५८३ ॥ चतुर्लवाधिकौ हस्तौ, दावत्राङ्गं परायुषाम् । तौ जघन्यायुषां पञ्चभागयुक्तौ प्रकीर्तितौ ॥ ५८४ ॥ अष्टाविंशतिरत्कृष्टा, षष्टे ग्रैवेयकेऽब्धयः । स्थितिरत्र जघन्या तु, सप्तविंशतिरब्धयः ॥ ५८५ ॥ ज्येष्ठस्थितीनामत्राङ्गं, द्वौ करौ त्रिलवाधिकौ । तौ कनिष्ठस्थितीनां तु, भागैश्चतुर्भिरन्वितौ ॥ ५८६ ॥