________________
445
सेव्यः पर्षदि बाह्यायां, पञ्चभिर्नाकिनां शतैः । एकविंशत्यब्धिपञ्चपल्योपममितायुषाम् ॥ ५२० ॥ सामानिकानां दशभिः, सहनैः सेवितक्रमः । एकैकदिशि तावद्भिस्तावद्भिश्चात्मरक्षकैः ॥ ५२१ ॥ सैन्यैः सैन्याधिपैस्त्रायस्त्रिंशकै लोकपालकैः । सेव्यः परैरपि सुरैरारणाच्युतवासिभिः ॥ ५२२ ॥ द्वात्रिंशत्साधिकान् शक्तो, जम्बूद्धीपान् विकुर्वितैः । रूपैः पूरयितुं तिर्यक्, चासंख्यदीपवारिधीन् ॥ ५२३ ॥ भुक्ते साम्राज्यमुभयोरारणाच्युतनाकयोः । विमानत्रिशतीनेता, द्वाविंशत्युदधिस्थितिः ॥ ५२४ ॥ अस्य यानविमानं स्यात्सर्वतोभद्रसंज्ञकम् । सर्वतोभद्रदेवश्च, नियुक्तस्तद्धिकुर्वणे ॥ ५२५ ॥
___ स्थानाङ्गपञ्चमस्थाने तु आनतप्राणतयोरारणाच्युतयोश्च प्रत्येकमिन्द्रा विवक्षिता दृश्यन्ते, तथा च तत्सूत्रं-“जहा सक्कस्स तहा सब्वेसिं दाहिणिल्लाणं जाव आरणस्स, जहा ईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव अच्चुयस्स” एतद्वृत्तावपि देवेन्द्रस्तवाभिधानप्रकीर्णक इव द्वादशानामिंद्राणां विवक्षणादारणस्येत्यायुक्तमिति संभाव्यते, अन्यथा चतुर्यु दावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति, प्रज्ञापना-जीवाभिगमसूत्रादौ तु दशैव वैमानिकेन्द्रा उक्ता इति
प्रतीतमेव ॥ अच्युतस्वर्गपर्यन्तमेषु वैमानिकेष्विति । यथासंभवमिन्द्राद्या, भवन्ति दशधा सुराः ॥ ५२६ ॥ तथाहिइन्द्रा: सामानिकास्त्रायस्त्रिंशास्त्रिविधपार्षदाः । आत्मरक्षा लोकपाला, आनीकाच प्रकीर्णकाः ॥ ५२७ ॥ आभियोग्या: किल्बिषिका, एवं व्यवस्थयान्विताः । अत एव च कल्पोपपन्ना वैमानिका अमी ॥ ५२८ ॥ एवं च भवनाधीशेष्वप्येते दशधा सुराः । भवन्त्यष्टविधा एव, ज्योतिष्कव्यन्तरेषु तु ॥ ५२९ ॥ जगत्स्वाभाव्यतस्तत्र, द्वौ भेदौ भवतो न यत् । त्रायस्त्रिंशा लोकपाला, अच्युतात्परत पुन: ॥ ५३० ॥ ग्रैवेयकानुत्तरेषु, स्युः सर्वेऽप्यहमिन्द्रकाः । देवा एकविधा एव, कल्पातीता अमी तत: ॥ ५३१ ॥ आरणाच्युतनाकाभ्यां, दूरमूर्ध्वं व्यतिक्रमे । नवग्रैवेयकाभिख्याः, प्रतरा दधति श्रियम् ॥ ५३२ ॥ अधस्तनं मध्यमं च, तथोपरितनं त्रिकम् । त्रिधाऽमी रत्नरुग्रम्या:, संपूर्णचन्द्रसंस्थिताः ॥ ५३३ ॥ अनुत्तरमुखस्यास्य, लोकस्य पुरुषाकृतेः । दधते कण्ठपीठेऽमी, मणिग्रैवेयकश्रियम् ॥ ५३४ ॥ प्रतरेषु नवस्वेषु, क्रमादेकैकमिन्द्रकम् । सुदर्शनं सुप्रबुद्धं, मनोरमं ततः परम् ॥ ५३५ ॥ विमानं सर्वतोभद्रं, विशालं सुमनोऽभिधम् । तत: सौमनसं प्रीतिकरमादित्यसंज्ञकम् ॥ ५३६ ॥ एभ्यश्च पङ्क्तयो दिक्षु, विमानानां विनिर्गताः । पक्तौ पक्तौ दश नव, विमानान्यष्ट सप्त षट् ॥ ५३७ ॥ पञ्च चत्वारि च त्रीणि, द्वे चैतेषु यथाक्रमम् । आद्यग्रैवेयके तत्र, प्रतिपङ्क्ति विमानकाः ॥ ५३८ ॥ व्यस्राश्चत्वारो द्विधाऽन्ये, त्रयस्त्रयः समे त्वमी । चत्वारिंशत्पतिगता, द्वितीयप्रतरे पुनः ॥ ५३९ ॥