SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 29 उत्पद्यते मत्स्यतया, स्वात्यासन्नप्रदेशके । तदा जघन्या स्यादस्य, यद्वैवं सम्भवत्यसौ ॥ १५४ ॥ पूर्वसम्बन्धिनीं नारीमुपभुक्तां महीस्पृशा । कश्चित्सनत्कुमारादिदेवः प्रेमवशीकृतः ॥ १५५ ॥ तदवाच्यप्रदेशे स्वमवाच्यांशं विनिक्षिपन् । परिष्वज्य मृतस्तस्या, एव गर्भे समुद्भवेत् ॥ १५६ ॥ उत्कर्षतस्त्वधो यावत्पातालकलशाश्रितम् । मध्यमीयं तृतीयांशं, तत्र मत्स्यादिसम्भवात् ॥ १५७ ॥ तिर्यक् स्वयंभूरमणपर्यन्तावधि सा भवेत् । अच्युतस्वर्गपर्यन्तमूर्ध्वं सा चेति भाव्यते ॥ १५८ ॥ कश्चिदच्युतनाकस्थसुहृद्देवस्य निश्रया । देवः सनत्कुमारादिर्गतस्तत्र म्रियेत यत् ॥ १५९ ॥ सहस्रारान्तदेवानां, भावनीयानया दिशा । कनिष्टा च गरिष्टा च, तैजसस्यावगाहना ॥ १६० ॥ आनताद्यच्युतान्तानां, देवानां स्याज्जघन्यतः । अङ्गलासंख्येयभागपरिमाणावगाहना ॥ १६१ ॥ उत्पद्यन्ते नरेष्वेव, देवा नन्वानतादयः । नराश्च नृक्षेत्र एव, तदियं घटते कथम् ॥ १६२ ।। अत्रोच्यते-उपभुक्तां मनुष्येण, मानुषीं पूर्ववल्लभाम् । उपलभ्यावधिज्ञानात्प्रेमपाशनियन्त्रितः ॥ १६३ ॥ इहागत्यासन्नमृत्युतया बुद्धिविपर्ययात् । मलिनत्वाच्च कामानां, वैचित्र्यात्कर्ममर्मणाम् ॥ १६४ ॥ गाढानुरागादालिङ्ग्य तदवाच्यप्रदेशके । परिक्षिष्य निजावाच्यं, म्रियते स्वायुषः क्षयात् ॥ १६५ ॥ गर्भेऽस्या एव मृत्वायं, यद्युत्पद्येत निर्जरः । आनतादिक्रतुभुजस्तदेयमुपपद्यते ॥ १६६ ॥ आनतादिक्रतुभुजां, मनोविषयसेविनाम् । कायेनास्पृशतां देवीमपि क्षीणमनोभुवाम् ॥ १६७ ॥ मनुष्यस्त्रियमाश्रित्य, यद्येवं स्यादिडम्बना । तर्हि को नाम दुरिं, कन्दर्प जेतुमीश्वरः ॥ १६८ ॥ अधो यावदधोग्रामास्तिर्यग् नृक्षेत्रमेव च । ततः परं मनुष्याणामुत्पत्तिस्थित्यसंभवात् ॥ १६९ ॥ ऊर्ध्वमच्युतनाकान्तं, गतानां मित्रनिश्रया । आनतादिक्रतुभुजामच्युते मृत्युसम्भवात् ॥ १७० ॥ ऊर्ध्वमच्युतजानां तु, स्वविमानशिरोऽवधि । स्वैरं तत्र गतानां यत्, केषाञ्चित् सम्भवेन्मृतिः ॥ १७१ ॥ ग्रैवेयकानुत्तरस्थसुराणां साऽवगाहना । यावद्भिद्याधरश्रेणीमास्वस्थानाज्जघन्यतः ॥ १७२ ॥ खेचरश्रेणिपरतो, मनुष्याणामसम्भवात् । ग्रैवेयकादिदेवानामप्यत्रागत्यसम्भवात् ॥ १७३ ॥ अधो यावदधोग्रामानूर्ध्वं च स्वाश्रयावधि । तिर्यक् पुनर्नरक्षेत्रपर्यन्तं सा प्रकीर्तिता ॥ १७४ ॥ यावन्नंदीश्वरं खेटाः, सस्त्रीका यान्ति यद्यपि । संभोगमपि कुर्वन्ति, तत्र कामेषु निर्जिताः ॥ १७५ ॥ परं नोत्पद्यते गर्भे, नरो नृक्षेत्रतो बहिः । तत: उत्कर्षतस्तिर्यग्, नृक्षेत्रावधि सोदिता ॥ १७६ ॥ इत्यर्थतः प्रज्ञापनसूत्रकविंशतितमपदे ॥ इति प्रमाणावगाहकृत: विशेषः ॥ स्थितिरौदारिकस्यान्तर्मुहूर्तं स्याज्जघन्यतः । उत्कृष्टा त्रीणि पल्यानि, सा तु युग्मिव्यपेक्षया ॥ १७७ ॥ दशवर्षसहस्राणि, जघन्या जन्मवैक्रिये । त्रयस्त्रिंशत्सागराणि, स्थितिरुत्कर्षत: पुनः ॥ १७८ ॥ १. कायस्पर्शादिप्रविचारणापेक्षया, अन्यथा मन:प्रविचारणा त्वस्त्येव तेषां, अवेयकानुत्तरालया एवेदृशाः, २. भवधारणीयेतिदर्शनाय
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy