________________
30
वैक्रियस्य कृतस्यापि, जघन्याऽऽन्तर्मुहूर्तिकी । ज्येष्टा तु जीवाभिगमे, गदिता गाथयानया ॥ १७९ ॥ अंतमुहुत्तं नरएसु होइ चत्तारि तिरियमणुएसु । देवेसु अद्धमासो, उक्कोस विउव्वणाकालो ॥
[प्रवचनसारोद्धार. श्लो. १३१०] पञ्चमाङ्गे तु वायूनां, संजितिर्यग्नृणामपि । ज्येष्टाप्येकान्तर्मुहूर्त्ता, प्रोक्तो वैकुर्विकस्थितिः ॥ १८० ॥
श्रीसूत्रकृताङ्गे तु–यालिए नाम महभियावे, एगायए पब्बतमंतलिक्ने । हम्मति तत्था बहुकूरकम्मा, परं सहस्सा उ मुहुत्तयाणं ॥ “नामेति संभावने । एतन्नरकेषु यथाऽन्तरिक्ष महाभितापे महादुःखे, एकशिलाघटितः दीर्घः वेयालिएत्ति वैक्रियः परमाधार्मिकनिष्पादित: पर्वतः । तत्र हस्तस्पर्शिकया समारुहन्तो नारका बहुक्रूरकर्माणो हन्यन्ते पीड्यन्ते । सहस्रसंख्यानां परं मुहूर्तानां प्रकृष्टं प्रभूतं कालं हन्यन्ते । इत्यर्थः” अत्र परमाधार्मिकदेवविकुर्वितस्य पर्वतस्य
अर्धमासाधिकापि स्थितिरुक्ता इति ज्ञेयम् । तत्वं तु जिनो जानाति ! अन्तर्मुहूर्तं द्वेधापि, स्थितिराहारकस्य च । अनादिके प्रवाहेण, सर्वतैजसकार्मणे ॥ १८१ ॥ सावसाने तु भव्यानां, सिद्धत्वे तदभावतः । अभव्यानां निरन्ते च, पङ्गनां मुक्तिवर्मनि ॥ १८२ ॥ इति स्थितिकृत: विशेषः । आहारकं सर्वतोऽल्पं, यत्कदाचिद्भवेदिदम् । भवेद्यदि तदाप्येतदेकं हे वा जघन्यतः ॥ १८३ ॥ सहस्राणि नवोत्कर्षादसत्तास्य जघन्यतः । एकं समयमुत्कृष्टा, षण्मासावधि विष्टपे ॥ १८४ ॥ उक्तं च–आहारगाइं लोगे, छम्मासा जा न होतिऽविकयाइ । उक्कोसेणं नियमा, एवं समयं जहन्नेणं ॥
[प्रवचनसारोद्धार श्लो. १५८२ टीकान्तर्गत श्लो.] आहारकादसंख्येयगुणानि वैक्रियाणि च । तत्स्वामिनामसंख्यत्वान्नारकाङ्गिसुपर्वणाम् ॥ १८५ ॥ अप्यौदारिकदेहाः स्युस्तदसंख्यगुणाधिकाः । आनन्त्येऽपि तदीशानामसंख्या एव ते यतः ॥ १८६ ॥ प्रत्यङ्गं प्राणिनो यत्स्युः, साधारणवनस्पतौ । अनन्तास्तानि चासंख्यान्येवाङ्गानि भवन्ति हि ॥ १८७ ॥ तेभ्योऽनन्तगुणास्तुल्या मिथस्तैजसकार्मणाः । यत्प्रत्येकमिमे स्यातां, द्वे देहे सर्वदेहिनाम् ॥ १८८ ॥ इत्यल्पबहुत्वकृतो विशेषः ॥ एकजीवापेक्षया स्याज्ज्येष्ठमौदारिकान्तरम् । अन्तर्मुहूर्ताभ्यधिकास्त्रयस्त्रिंशत्पयोधयः ॥ १८९ ॥
तथोक्तं जीवाभिगमवृत्तौ-उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि ॥ तानि चैवम् । कश्चिच्चास्त्रिी वैक्रियशरीरं कृत्वान्तर्मुहूर्तं जीवित्वा स्थितिक्षयादविग्रहेणानुत्तरसुरेषु जायत इति ॥ वैक्रियस्यान्तरं कायस्थितिकालो वनस्पतेः । अर्धश्च पुद्गलपरावर्त्त आहारकान्तरम् ॥ १९० ॥ लघु चाद्यस्य समयोऽन्तर्मुहूर्तं तदन्ययोः । न सम्भवत्यन्तरं च, देहयोरुक्तशेषयोः ॥ १९१ ॥ इत्यन्तरकृतो विशेषः । इति देहस्वरूपम् ॥ ९ ॥ सदसल्लक्षणोपेतप्रतीकसन्निवेशजम् । शुभाशुभाकाररूपं, षोढा संस्थानमङ्गिनाम् ॥ १९२ ॥