SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 28 उत्कर्षतश्च लोकान्ताल्लोकान्तं यावदाहिता । एकेन्द्रियाणां जीवानामेवमुत्पत्तिसंभवात् ॥ १२७ ॥ सामान्यतोऽपि जीवानां, विभाव्यैतदपेक्षया । लोकान्तावधि लोकान्तात्तैजसस्यावगाहना ॥ १२८ ॥ अङ्गलासंख्यभागेन, प्रमिताथ जघन्यतः । निर्दिष्टा विकलाक्षाणां, तैजसस्यावगाहना ॥ १२९ ॥ तिर्यग्लोकाच्च लोकान्तावधि तेषां गरीयसी । संभवो विकलाक्षाणां, यत्तिर्यग्लोक एव हि ॥ १३० ॥ अधोलोकेऽप्यधोलोकग्रामेषु दीर्घिकादिषु । ऊर्ध्वं च पाण्डकवनवर्तिवापी हुदादिषु ॥ १३१ ॥ सम्भवो विकलाक्षाणां, यद्यप्यस्ति तथापि हि । सूत्रे स्वस्थानमाश्रित्य, तिर्यग्लोको निरूपितः ॥ १३२ ॥ तत उक्तातिरिक्तापि, विकलानां भवत्यसौ । अधोग्रामात्पाण्डाकाच्च, लोकाग्रान्ता गरीयसी ॥ १३३ ॥ सातिरेकं योजनानां, सहस्रं स्याज्जघन्यतः । नारकाणां तैजसावगाहना साथ भाव्यते ॥ १३४ ॥ सन्ति पातालकलशाश्चत्वारोऽब्धौ चतुर्दिशम् । अधो लक्षं योजनानामवगाढा इह क्षितौ ॥ १३५ ॥ सहस्रयोजनस्थूलकुयास्तेषां च निश्चिते । अधस्तने तृतीयांशे, वायुर्ववर्ति केवलम् ॥ १३६ ॥ मध्यमे च तृतीयांशे, मिश्रितौ सलिलानिलौ । तथोपरितने भागे, तृतीये केवलं जलम् ॥ १३७ ॥ ततश्च-सीमन्तकादिनरकवर्ती कश्चन नारकः । पातालकलशासन्नो, मरणान्तसमुद्धतः ॥ १३८ ॥ कुड्यं पातालकुम्भानां, विभिद्योत्पद्यते यतः । मत्स्यत्वेन तृतीयांशे, मध्यमे चरमेऽपि वा ॥ १३९ ॥ तस्मादर्वाक् तु नैवास्ति, तिर्यग्मनुजसम्भवः । उत्पत्ति रकाणां च, न तिर्यग्मनुजौ विना ॥ १४० ॥ उत्कर्षतस्त्वधो यावत्सप्तमी नरकावनीम् । नारकाणामेतदन्तं, स्वस्थानस्थितिसम्भवात् ॥ १४१ ॥ तिर्यक् स्वयम्भूरमणसमुद्रावधि सा भवेत् । नारकाणां तत्र मत्स्यादित्वेनोत्पत्तिसम्भवात् ॥ १४२ ॥ ऊर्ध्वं च पण्डकवनस्थायितोयाश्रयावधि । अत ऊर्ध्वं तु कुत्रापि, नृतिर्यक्सम्भवोऽस्ति न ॥ १४३ ॥ पञ्चेन्द्रियतिरश्चां च, जघन्या परमापि च । विकलेन्द्रियवत् ज्ञेया, तैजसस्यावगाहना ॥ १४४ ॥ अङ्गलासंख्येयभागमात्रा नृणां जघन्यतः । उत्कर्षतश्च नृक्षेत्राल्लोकान्तावधि कीर्तिता ॥ १४५ ॥ भवनव्यन्तरज्योतिष्काद्यद्रिस्वर्गनाकिनाम् । अङ्गलासंख्येयभागमाना ज्ञेया जघन्यतः ॥ १४६ ॥ ममत्वाभिनिविष्टानां, स्वरत्नाभरणादिषु । पृथिव्यादितया तेषां, तत्रैवोत्पत्तिसम्भवात् ॥ १४७ ॥ उत्कर्षतस्त्वधः शैलानरकक्ष्मातलावधि । गतानां तत्र केषाञ्चित्तेषां मरणसम्भवात् ॥ १४८ ॥ तिर्यक् स्वयंभूरमणापरान्तवेदिकावधि । ऊर्ध्वं तथेषत्प्राग्भारापृथिव्यूर्खतलावधि ॥ १४९ ॥ एतावदन्तं पृथिवीकायत्वेन समुद्भवात् । ततः परं च पृथिवीकायादीनामसम्भवात् ॥ १५० ॥ सनत्कुमारकल्पादिदेवानां स्याज्जघन्यत: । अङ्गलासंख्येयभागमाना सैवं विभाव्यते ॥ १५१ ॥ देवा सनत्कुमाराद्या, उत्पद्यन्ते स्वभावतः । गर्भजेषु नृतिर्यक्षु, ध्रुवं नैकेन्द्रियादिषु ॥ १५२ ॥ यदा सनत्कुमारादिसुधाभुग्मन्दरादिषु । दीर्घिकादौ जलक्रीडां, कुर्वाणः स्वायुषः क्षयात् ॥ १५३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy