________________
441
सर्वत्रापि जघन्या तु, स्थितिरेकोनविंशतिः । पयोधयो देहमानमथ स्थित्यनुसारतः ॥ ४२१ ॥ कराश्चत्वार एवाङ्गमष्टादशाब्धिजीविनाम् । ते त्रयोऽंशास्त्रयश्चैकोनविंशत्यब्धिजीविनाम् ॥ ४२२ ॥ विंशत्यब्धिस्थितीनां तु, देहमानं करास्त्रयः । द्विभागाढ्या मध्यमीयायुषां तदनुसारतः ॥ ४२३ ॥ अष्टादशभिरेकोनविंशत्याऽब्दसहस्रकैः । विंशत्या च यथायोगममी आहारकाङ्क्षिणः ॥ ४२४ ॥ नवभिः सार्द्धनवभिर्मासैदशभिरेव च । उच्छ्वसन्ति यथायोगं, स्वस्वस्थित्यनुसारतः ॥ ४२५ ॥ रिरंसवस्त्वमी देवा:, सौधर्मस्वर्गवासिनीः । विचिन्तयन्ति चित्तेनानतस्वर्गनिवासिनः ॥ ४२६ ॥ प्राणतस्वर्गदेवास्तु, विचिन्तयन्ति चेतसा । रिरंसया स्वभोगार्हा, ईशानस्वर्गवासिनीः ॥ ४२७ ॥ देव्योऽपि ताः कृतस्फारश्रृङ्गारा मदनोद्धुराः । विदेशस्थाः स्त्रिय इव, कान्तमभ्येतुमक्षमाः ॥ ४२८ ॥ स्वस्थानस्था एव चेतांस्युच्चावचानि बिभ्रति । देवा अपि तथावस्थास्ता: संकल्प्य स्वचेतसा ।। ४२९ ॥ उच्चावचानि चेतांसि, कुर्वन्तो दूतोऽपि हि । सुरतादिव तृप्यन्ति, मन्दपुंवेदवेदनाः ॥ ४३० ॥ देव्योऽपि तास्तथा दूरादपि दिव्यानुभावतः । सर्वाङ्गेषु परिणतैस्तुष्यन्ति शुक्रपुद्गलैः ॥ ४३१ ॥ यत ऊर्ध्वं सहस्रारान्न देवीनां गतागते । तत्रस्था एव तेनैते, भजन्ते भोगवैभवम् ॥ ४३२ ॥ यश्च तासां सान्तराणामसंख्यैरपि योजनैः । शुक्रसंचारोऽनुभावात्, स ह्यचिन्त्यः सुधाभुजाम् ॥ ४३३ ॥ तथा च मूलसंग्रहणीटीकायां हरिभद्रसूरिः – “देव्यः खल्वपरिगृहीताः सहस्रारं यावद्गच्छन्ति, ” तथा च भगवानार्यश्यामोऽपि प्रज्ञापनायामाह — “ तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पज्जइ, इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेतए, तओ णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ चिट्ठति, तओ णं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेति, 'आरेण अच्चुयाओ गमणागमणं तु देवदेवीण' मित्यादिपूर्वसंग्रहणीगतप्रक्षेपगाथायास्तु संवादो न दृश्यते,” इति लघुसंग्रहणीवृत्तौ ॥
प्रज्ञप्ताः सर्वतः स्तोका, देवा अप्रविचारकाः । स्युः संख्येयगुणास्तेभ्यश्चेतःसुरतसेविनः ॥ ४३४ ॥ तेभ्यः क्रमाच्छब्दरूपस्पर्शसंभोगसेविनः । यथोत्तरमसंख्येयगुणा उक्ता जिनेश्वरैः ॥ ४३५ ॥ आद्यैस्त्रिभिः संहननैरूपेता गर्भजा नराः । उत्पद्यन्त एष्वमीभ्यश्च्युत्वाऽप्यनन्तरे भवे ॥ ४३६ ॥ गर्भजेषु नरेष्वेवोत्पद्यन्ते नापरेष्वथ । अनुत्तरान्तदेवानामेवं ज्ञेये गतागती ।। ४३७ ॥ एकेन समयेनामी, च्यवन्त उद्भवन्ति च । संख्येया एव नासंख्या: संख्येयत्वान्नृणामिह ॥ ४३८ ॥ अत्रोत्पत्तिच्यवनयोर्विरहः परमो भवेत् । वर्षादर्वागेव मासा:, संख्येयाः प्राणतेऽपि ते ॥ ४३९ ॥ अब्दादर्वागेव किंत्वानतव्यपेक्षयाधिकाः । अग्रेऽप्येवं भावनीयं, बुधैर्वर्षशतादिषु ॥ ४४० ॥ संपूर्णमभविष्यच्चेद्वर्षवर्षशतादिकम् । तत्तदेवाकथयिष्यन्, सिद्धान्ते गणधारिणः ॥। ४४१ ॥