SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 440 सामानिकामरैः सेव्यः, सहनैस्त्रिंशता सदा । सहस्त्रिशतैकैकदिश्यात्मरक्षकैः सुरैः ॥ ३९४ ॥ प्राग्वत्त्रायस्त्रिंशलोकपालसैन्यतदीश्वरैः । देवैरन्यैरप्युपास्यः, सहस्रारनिवासिभिः ॥ ३९५ ॥ सातिरेकान् षोडशेष, जम्बूदीपान् विकुर्वितैः । रूपैर्भर्तुं क्षमस्तिर्यगसंख्यान् दीपवारिधीन् ॥ ३९६ ॥ स विमानसहस्राणां, षण्णामैश्वर्यमन्वहम् । भुङ्क्ते भाग्यौजसां भूमिरष्टादशाब्धिजीवितः ॥ ३९७ ॥ अस्य यानविमानं च, विदितं विमलाभिधम् । देवश्च विमलाभिख्यो, नियुक्तस्तद्धिकुर्वणे ॥ ३९८ ॥ ऊर्ध्वं चाथ सहस्रारादसंख्ययोजनोत्तरौ । आनतप्राणतौ स्वर्गी, दक्षिणोत्तरयोः स्थितौ ॥ ३९९ ॥ अनयोरेकवलयस्थयोार्द्धचन्द्रवत् । चत्वारः प्रतरास्तत्र, प्रतिप्रतरमिन्द्रकम् ॥ ४०० ॥ महाशुक्रसहस्रारमानतं प्राणतं क्रमात् । एभ्यश्च पङ्क्तयः प्राग्वत्पुष्पावकीर्णकास्तथा ॥ ४०१ ॥ अष्टादश सप्तदश, षट्पञ्चाभ्यधिका दश । विमानान्येकैकपङ्क्तौ, प्रतरेषु चतुर्विह ॥ ४०२ ॥ प्रथमप्रतरे तत्र, प्रतिपङ्क्ति विमानकाः । वृत्तत्र्यनचतुरनाः, षट् षट् दासप्ततिः समे ॥ ४०३ ॥ द्वितीयप्रतरे वृत्ताः, पञ्च षट् षट् परे द्विधा । सर्वेऽष्टषष्टिः पाङ्क्तेयास्तृतीयप्रतरे पुनः ॥ ४०४ ॥ व्यसा: षट् पञ्च पञ्चान्ये, चतुःषष्टिः समेऽप्यमी । तुर्ये त्रैधाः पञ्च पञ्च, षष्टिश्च सर्वसंख्यया ॥ ४०५ ॥ चतुभिरिन्द्रकैर्युक्ताः, सर्वेऽत्र पङ्क्तिवृत्तकाः । अष्टाशीतिर्द्धिनवतिः, पङ्क्तिव्यमा इहोदिताः ॥ ४०६ ॥ अष्टाशीतिः पङ्क्तिचतुरमाः सर्वे च पङ्क्तिगाः । द्वे शते अष्टषष्टिश्च, शेषाः पुष्पावकीर्णकाः ॥ ४०७ ॥ शतं द्वात्रिंशदधिकं, विमाना: सर्वसंख्यया । स्वर्गद्वये समुदिते, स्युश्चत्वारि शतानि ते ॥ ४०८ ॥ आभाव्यत्वविभागस्तु, विमानानामिहास्ति न । यतोऽनयोरेक एव, द्वयोरपि सुरेश्वरः ॥ ४०९ ॥ विहायसि निरालम्बा, निराधाराः स्थिता अमी । जगत्स्वभावतः शुक्लवर्णाश्च रुचिरप्रभा: ॥ ४१० ॥ योजनानां नव शतान्येषु प्रासादतुड़ता । पृथ्वीपिण्डः शतान्यत्र, त्रयोविंशतिरीरितः ॥ ४११ ॥ एषां पूर्वोदितानां च, विमानानां शिरोऽग्रगः । ध्वजस्तत्तद्धर्ण एव, स्यान्मरुच्चञ्चलाञ्चलः ॥४१२ ॥ अथ सर्वे शुक्लवर्णा, एवैतेऽनुत्तरावधि । किन्तूत्तरोत्तरोत्कृष्टवर्णा नभःप्रतिष्ठिताः ॥ ४१३॥ उत्पन्नाः प्राग्वदेतेषु, देवाः सेवाकृतोऽर्हताम् । सुखानि भुञ्जते प्राज्यपुण्यप्राग्भारभारिणः ॥ ४१४ ॥ तत्र दक्षिणदिग्वतिन्यानतस्वर्गसंगते । प्रथमप्रतरेऽमीषां, स्थितिरुत्कर्षतो भवेत् ॥ ४१५ ॥ अष्टादश सपादा वै, द्वितीयप्रतरेऽब्धयः । सार्द्धा अष्टादश पादन्यूना एकोनविंशतिः ॥ ४१६ ॥ तृतीयप्रतरे ते स्युस्तुर्ये चैकोनविंशतिः । सर्वत्रापि जघन्या तु, स्युरष्टादश वार्द्धयः ॥ ४१७ ॥ प्राणतस्वर्गसंबन्धिन्यथोत्तरदिशि स्थिते । प्रथमप्रतरे ज्येष्ठा, स्थितिर्भवति नाकिनाम् ॥ ४१८ ॥ एकोनविंशतिस्तोयधयस्तुर्यलवाधिकाः । एकोनविंशतिः सार्द्धा, द्वितीयप्रतरेऽब्धयः ॥ ४१९ ॥ तृतीयप्रतरेऽब्धीनां, पादोना विंशतिः स्थितिः । तुर्ये च प्रतरे ज्येष्ठा, स्थितिर्विंशतिरब्धयः ॥ ४२० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy