SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 439 सद्धिमानसहस्राणां, चत्वारिंशत ईश्वरः । महाशुक्रं शास्ति सप्तदशपाथोनिधिस्थितिः ॥ ३६८ ॥ अस्य यानविमानं च, भवेत्प्रीतिमनोऽभिधम् । देवः प्रीतिमनाः ख्यातो, नियुक्तस्तद्धिकुर्वणे ॥ ३६९ ॥ महाशुक्रादथास्त्यूचं, सहस्रार: सुरालयः । योजनानामसंख्येयकोटाकोटीव्यतिक्रमे ॥ ३७० ॥ चत्वारः प्रतरास्तत्र, प्रत्येकमिन्द्रकाञ्चिताः । ब्रह्म ब्रह्महितं ब्रह्मोत्तरं च लान्तकं क्रमात् ॥ ३७१ ॥ चतस्रः पङ्क्तयश्चेभ्यः, प्राग्वत्पुष्पावकीर्णकाः । द्वाविंशतिस्तथा चैकविंशतिर्विंशतिः क्रमात् ॥ ३७२ ॥ एकोनविंशतिश्चेति, प्रतरेषु चतुर्धपि । एकैकपङ्क्तौ संख्यैवं, विमानानां भवेदिह ॥ ३७३ ॥ तत्राद्यप्रतरे त्र्यमा, अष्टान्ये सप्त सप्त च । प्रतिपत्यथ सर्वेऽत्राष्टाशीतिः पतिवर्तिनः ॥ ३७४ ॥ द्वितीयप्रतरे सप्त सप्तैते त्रिविधा अपि । सर्वे चतुरशीतिश्च, तृतीयप्रतरे पुनः ॥ ३७५ ॥ वृत्ता: षट् सप्त सप्तान्येऽशीतिश्च सर्वसंख्यया । तुर्य त्र्यस्नाः सप्त षट् षट्, परे षट्सप्ततिः समे ॥ ३७६ ॥ चतुर्णामिन्द्रकाणां च, योगेऽत्र पतिवृत्तकाः । अष्टोत्तरशतं पङ्क्तित्र्यनाश्च षोडशं शतम् ॥ ३७७ ॥ अष्टोत्तरं शतं पङ्क्तिचतुरस्रास्ततोऽत्र च । द्वात्रिंशदधिकं पक्तिविमानानां शतत्रयम् ॥ ३७८ ॥ षट्शताभ्यधिकाः पञ्च, सहस्रा: साष्टषष्टयः । पुष्पावकीर्णका अत्र, सर्वे ते षट्सहस्रका: ॥ ३७९ ॥ आधारवर्णोच्चत्वादि, स्यादेषां शुक्रनाकवत् । उत्पद्यन्त एषु देवतया प्राग्वन्महाशयाः ॥ ३८० ॥ सपादा वार्द्धयः सप्तदशाऽऽये प्रतरे स्थितिः । द्वितीये त्वब्धयः सप्तदश सार्भाः परा स्थितिः ॥ ३८१ ॥ अष्टादश च पादोनास्तृतीये परमा स्थितिः । तुर्येऽष्टादश संपूर्णाः, सागराः स्यात्परा स्थितिः ॥ ३८२ ॥ सर्वत्रापि जघन्या तु, भवेत्सप्तदशाब्धयः । अथ स्थित्यनुसारेण, देहमानं निरूप्यते ॥ ३८३ ॥ चत्वारोऽत्र करा देह, उत्कृष्टस्थितिशालिनाम् । त एवैकादशैकांशयुजो जघन्यजीविनाम् ॥ २८४ ॥ अष्टादशभिरब्दानां, सहनैः परमायुषः । जघन्यस्थितयः सप्तदशभिर्भोजनार्थिनः ॥ ३८५ ॥ उच्छसन्तीह नवभिर्मासैः परमजीविनः । हीनायुषोऽष्टभिः साद्धैः, परे तदनुसारतः ॥ ३८६ ॥ भोगो गत्यागती संख्योत्पादच्यवनगोचरा । अवधिज्ञानविषयः, सर्वमत्रापि शुक्रवत् ॥ ३८७ ॥ अत्रोत्पादच्यवनयोर्गरीयान् विरहो भवेत् । शतं दिनानामल्पीयान्, स पुन: समयो मतः ॥ ३८८ ॥ चतुर्थप्रतरेऽत्रापि, सहस्रारावतंसकः । अङ्कावतंसकादीनां, चतुर्णां मध्यतः स्थितिः ॥ ३८९ ॥ सहस्रारस्तत्र देवराजो राजेव राजते । प्राग्वत्कृतजिनाद्यर्चा, महासिंहासने स्थितः ॥ ३९० ॥ पञ्चभिर्निर्जरशतैः, सेव्योऽभ्यन्तरपर्षदि । सप्तपल्याधिकापा ष्टादशाम्भोधिजीविभिः ॥ ३९१ ॥ एकदेवसहस्रेण, सेवितो मध्यपर्षदि । सषट्पल्यसार्द्धसप्तदशतोयधिजीविना ॥ ३९२ ।। द्विसहस्त्र्या च देवानां, सेवितो बाह्यपर्षदाम् । पञ्चपल्ययुतापा ष्टादशार्णवजीविनाम् ॥ ३९३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy