________________
435
आत्मरक्षकदेवानां, पञ्चाशता सहस्रकैः । एकैकस्यां दिशि सेव्यो, दण्डाद्यायुधपाणिभिः ॥ २७७ ॥ प्राग्वदन्यैरपि मन्त्रित्रायस्त्रिंशकवाहनैः । सैन्यैः सैन्याधिपैर्लोकपालैः पालितशासनः ॥ २७८ ॥ जिनार्चनादिकं धर्मं, कुर्वाणः परमार्हतः । दिव्यनाट्यदत्तचेताश्चतुर्दशाब्धिजीवितः ॥ २७९ ॥ सातिरेकानष्ट जम्बूद्वीपान् पूरयितुं क्षमः । रूपैर्विकुर्वितैस्तिर्यगसंख्यद्वीपतोयधीन् ॥ २८० ॥ स विमानसहस्राणां, पञ्चाशतोऽप्यधीश्वरः । साम्राज्यं शास्ति देवानां, लान्तकस्वर्गवासिनाम् || २८१ ॥ अस्य यानविमानं च भवेत्कामगमाभिधम् । देवः कामगमाभिख्यो, नियुक्तस्तद्विकुर्वणे ॥ २८२ ॥ वैमानिका: किल्विषिकास्त्रिधा भवन्ति तद्यथा । त्रयोदशाब्धित्र्यम्भोधित्रिपल्योपमजीविनः ॥ २८३ ॥
तत्र च -
वसन्ति लान्तकस्याधस्त्रयोदशाब्धिजीविनः । अधः सनत्कुमारस्य, त्र्यम्भोधिजीविनः पुनः ॥ २८४ ॥ त्रिपल्यस्थितयस्ते च, सौधर्मेशानयोरधः । स्थानमेवं किल्विषिकसुराणां त्रिविधं स्मृतम् ॥ २८५ ॥ नन्वत्राधः शब्देन किमभिधीयते ? अधस्तनप्रस्तटं, तस्मादप्यधोदेशो वा ? अन्यच्च द्वात्रिंशल्लक्षविमानमध्ये साधारणदेवीनामिवैतेषां कतिचिद्विमानानि सन्ति ? विमानैकदेशे वा विमानाद्वहिर्वा तिष्ठन्ति ते ? इति
1
अत्रोच्यते— अत्राधः शब्दस्तत्स्थानवाचको ज्ञेयो, यतोऽत्राधः शब्दः प्रथमप्रस्तटार्थो न घटते तृतीयषष्ठकल्पसत्ककिल्विषिकामराणां तत्प्रथमप्रस्तटयोस्त्रिसागरोपमत्रयोदश-सागरोपमस्थित्योरसंभवात्, तथा तद्विमानानां संख्या शास्त्रे नोपलभ्यते, तथा देवलोकगतद्वात्रिंशल्लक्षविमानसंख्यामध्ये तद्विमानगणनं न संभाव्यते इति, तत्त्वं सर्वविद्धेद्यमिति वृद्धाः ॥ अमी च चण्डालप्राया, निन्द्यकर्माधिकारिणः । अस्पृश्यत्वादन्यदेवैर्धिक्कृतास्तर्जनादिभिः ॥ २८६ ॥ देवलोके विमानेषु, सुधाभुक्पर्षदादिषु । कौतुकादिसंगतेषु, देवानां निकरेषु च ॥ २८७ ॥ अष्टाह्निकाद्युत्सवेषु, जिनजन्मोत्सवादिषु । अप्राप्नुवन्तः स्थानं ते, स्वं शोचन्ति विषादिनः ॥ २८८ ॥ आचार्योपाध्यायगच्छसंघप्रतीपवर्तिनः । येऽवर्णवादिनस्तेषामयशः कारिणोऽपि च ॥ २८९ ॥ असद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशकैः । व्युद्ग्राहयन्तः स्वात्मानं परं तदुभयं तथा ॥ २९० ॥ प्रतिपाल्यापि चारित्रपर्यायं वत्सरान् बहून् । तेऽनालोच्याप्रतिक्रम्य, तत्कर्माशर्मकारणम् ।। २९१ ॥ त्रयाणां किल्विषिकाणां मध्ये भवन्ति कुत्रचित् । तादृशव्रतपर्यायापेक्षया स्थितिशालिनः ॥ २९२ ॥ एभ्यश्च्युत्वा देवनरतिर्यग्नारकजन्मसु । चतुरः पञ्च वा वारान् भ्रान्त्वा सिद्ध्यन्ति केचन ॥ २९३ ॥ केचित्पुनरर्हदादिनिबिडाशातनाकृतः । कृतानन्तभवा भीमं भ्राम्यन्ति भवसागरम् ॥ २९४ ॥ तथाहुः — “देवकिव्विसिया णं भंते ! ताओ देवलोगाओ" इत्यादि ।